शरणागत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरणागतः, त्रि, (शरणमागतः प्राप्तः ।) शरणा- पन्नः । तत्पर्य्यायः । शरणार्पकः २ अभिपन्नः ३ शरणार्थी ४ । इति त्रिकाण्डशेषः ॥ तद्रक्षणा- रक्षणयोः गुणदौषौ यथा, -- “शस्त्रहीनञ्च भीतञ्च दीनञ्च शरणागतम् । यो न रक्षत्यधर्म्मिष्ठः कुम्भीपाके वसेद्युगम् ॥ राजसूयशतानाञ्च रक्षिता लभते फलम् । परमैश्वर्य्ययुक्तश्च धर्म्मेण स भवेदिह ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५५ अध्यायः ॥ * ॥ अपि च । “शरणागतरक्षां यः प्राणैरपि धनैरपि । कुरुते मानवो ज्ञानी तस्य पुण्यं निशामय ॥ सर्व्वपापविनिर्मुक्तो ब्रह्महत्यामुखैरपि । आयुषोऽन्ते व्रजेन्मोक्षं योगिनामपि दुर्लभम् ॥” इति पाद्मे क्रियायोगसारे गङ्गामाहात्म्यं नाम ८ अध्यायः ॥ अन्यच्च । “लोभाद्द्वेषाद्भयाद्वापि यस्त्यजेत् शरणागतम् । ब्रह्महत्यासमं तस्य पापमाहुर्मनीषिणः ॥ शास्त्रेषु निष्कृतिर्दृष्टा महापातकिनामपि । शरणागतहातुस्तु न दृष्टा निष्कृतिः क्वचित् ॥” इति वह्निपुराणे दानावस्थानिर्णयनामाध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरणागत¦ त्रि॰ शरणमागतः आ + गम--क्त। शरणापन्ने।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरणागत¦ mfn. (-तः-ता-तं) Refuge, appellant, one who comes for protec- tion or refuge. E. शरण protection, and आगत come.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरणागत/ शरणा mfn. come for -prprotection , one who comes for refuge or -prprotection , a refugee. fugitive Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=शरणागत&oldid=315196" इत्यस्माद् प्रतिप्राप्तम्