शशः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शशः, पुं, (शशति प्लवेन गच्छतीति । शश + अच् ।) मृगविशेषः । इत्यमरः ॥ शशारु इति खरगोश इति च भाषा ॥ (यथा, मनौ । २ । २७० । “शशकूर्म्मयोस्तु मांसेन मासानेकादशैव तु ॥”) अस्य मांसगुणाः । स्वादुत्वम् । कषायत्वम् । मलबद्धकारित्वम् । शीतत्वम् । लघुत्वम् । शोथातीसारपित्तरक्तनाशत्वम् । रूक्षत्वञ्च । इति राजवल्लभः । अपि च । “शशमांसं त्रिदोषघ्नं दीपनं श्वासकासनुत् ॥” इति राजनिर्घण्टः ॥ अन्यच्च । “शशः शूली लोमकर्णो विलेशयः प्रकीर्त्तितः । शशः शीतो लधुर्ग्राही रूक्षः स्वादुः सदा हितः ॥ वह्निकृत् कफपित्तघ्नो वातसाधारणः स्मृतः । ज्वरातीसारशोषास्रश्वासामयहरश्च सः ॥” इति भावप्रकाशः ॥ श्राद्धेऽस्य मांसस्य दानफलं यथा, -- “हविष्यान्नेन वै मासं पायसेन च वत्सरम् । मात्स्यहारिणकौरभ्रशाकुनिच्छागपार्षतैः ॥ ऐणरौरववाराहशाशैर्मांसैर्यथाक्रमम् । मासवृद्ध्याभितृप्यन्ति दत्तेनेह पितामहाः ॥” इति श्राद्धतत्त्वम् ॥ विष्णवे एतन्मांसस्य देयत्वं यथा, -- “मार्गं मांसं तथा च्छागं शाशं समनुयुज्यते । एतानि हि प्रियाणि स्युः प्रयोज्यानि वसुन्धरे ॥” इत्येकादशीतत्त्वम् ॥ चन्द्रलाञ्छनः । इति धरणिः ॥ वोलः । लोध्रः । मनुष्यविशेषः । इति मेदिनी ॥ स तु चतुर्व्विध- पुरुषान्तर्गतपुरुषविशेषः । तस्य लक्षणं यथा, -- “मृदुवचनसुशीलः कोमलाङ्गः सुकेशः सकलगुणनिधानः सत्यवादी शशोऽयम् ॥” इति रतिमञ्जरी ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शशः [śaśḥ], 1 A hare, rabbit; Ms.3.27;5.18.

The spots on the moon (which are popularly considered to resemble the form of a hare).

One of the four classes into which men are divided by erotic writers; thus defined; मृदुवचनसुशीलः कोमलाङ्गः सुकेशः सकलगुणनिधानं सत्यवादी शशो$यम् Śabdak.; see Ratimañjarī 35 also.

The Lodhra tree.

Gum-myrrh.

An antelope.

Comp. अङ्कः the moon; रामाभिधानमपरं जगतः शशाङ्कम् Pratimā 4.1.

camphor. ˚अर्धमुख a. crescent-headed (as an arrow). ˚मूर्तिः an epithet of the moon. -लेखा the digit of the moon, lunar crescent.

अदः a hawk, falcon.

N. of a son of Ikṣvāku, father of पुरंजय. -अदनः a hawk, falcon. -ऊर्णम्, -लोमन्n. the hair of a rabbit, hair-skin.

धरः the moon; उत्पातधूमलेखाक्रान्तेव कला शशधरस्य Māl.9.49; प्रसरति शशधर- बिम्बे Gīt.7.

camphor. ˚मौलिः an epithet of Śiva.-पदम् a hare's track (easily got over). -प्लुतकम् a scratch with a finger-nail. -भृत् m. the moon. ˚भृत् m. an epithet of Śiva. -रजस् n. a particular measure.-लक्ष्मणः an epithet of the moon.

लाञ्छनः the moon; यदि स्यात् पावकः शीतः प्रोष्णो वा शशलाञ्छनः Pt.4.51; Ku. 7.6.

camphor.

बि(वि)न्दु the moon.

an epithet of Viṣṇu. -विषाणम्, -शृङ्गम् a hare's horn; used to denote anything impossible, an utter impossibility; कदाचिदपि पर्यटञ् शशविषाणमासादयेत् Bh.2.5; शशशृङ्ग- धनुर्धरः; see खपुष्प. -स्थली the country between the Ganges and Yamunā, the Doab.

"https://sa.wiktionary.org/w/index.php?title=शशः&oldid=504834" इत्यस्माद् प्रतिप्राप्तम्