शालपर्णी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शालपर्णी, स्त्री, (शालस्य पर्णवत् पर्णमस्याः । ङीष् ।) वृक्षविशेषः । शालपाणी इति भाषा । तत्पर्य्यायः । सुदला २ सुपत्री ३ स्थिरा ४ सौम्या ५ कुमुदा ६ गुहा ७ ध्रुवा ८ विदारिगन्धा ९ अंशुमती १० सुपर्णिका ११ दीर्घमूला १२ दीर्घपत्रिका १३ वातघ्री १४ पीतिनी १५ तन्वी १६ सुधा १७ सर्व्वानुकारिणी १८ शोफघ्री १९ सुभगा २० देवी २१ निश्चला २२ व्रीहिपर्णिका २३ सुमूला २४ सुरूपा २५ शुभपत्रिका २६ सुपर्णी २७ शालिपत्री २८ शालिदला २९ । इति राजनिर्घण्टः । विदारी ३० सालपर्णी ३१ । इत्यमरटीकायां भरतः ॥ अस्या गुणाः । ग्राहित्वम् । कफपित्तनाशि- त्वञ्च । इति राजवल्लभः ॥ तिक्तत्वम् । गुरु- त्वम् । उष्णत्वम् । वातदोषविषमज्वरमेहार्शः- शोफसन्तापनाशित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “शालपर्णी स्थिरा सौम्या त्रिपर्णी पीवरा गुहा । विदारिगन्धा दीर्घाङ्घ्रिर्दीर्घपत्रांशुमत्यपि ॥ शालपर्णी गरच्छर्द्दिज्वरश्वासातिसारजित् । शोषदोषत्रयहरी वृंहण्युक्ता रसायनी । तिक्ता विषहरी स्वादुः क्षतकाशकृमिप्रणुत् ॥” इति भावप्रकाशः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शालपर्णी¦ स्त्री शालस्येव पर्णान्यस्याः ङीष्। (शालपानी)वृक्षभेदे राजनि॰।
“शालपर्णी गरच्छर्द्दिज्वरश्वासा-तिसारजित्। शोषदोषत्रयहरी वृंहण्युक्ता रसायनी। तिक्ता विषहरी स्वादुः क्षतकासक्रमिप्रणुत्” भावप्र॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शालपर्णी¦ f. (-र्णी) A shrub, (Hedysarum gangeticum.) E. शाल the S4a4l, and पर्ण a leaf, aff. ङीष्, having similar leaves; also सालपर्णी |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शालपर्णी/ शाल--पर्णी f. Desmodium or Hedysarum Gangeticum L.

"https://sa.wiktionary.org/w/index.php?title=शालपर्णी&oldid=325102" इत्यस्माद् प्रतिप्राप्तम्