शास्यः
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
कल्पद्रुमः[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शास्यः, त्रि, (शास् + ण्यत् ।) शासनीयः । शासितव्यः । (यथा, मनौ । ८ । १९१ । “यो निक्षेपं नार्पयति यश्चानिक्षिप्य याचते । तावुभौ चौरवच्छास्यौ दाप्यौ वा तत्समं दमम् ॥” शिक्षणीयः । यथा, ऋग्वेदे । १ । १८९ । ७ । “अभिपित्ते मनवे शास्यो भूः ।” “शास्यो भूः शिक्षणीयो भव इदं कुरु इदं कुरु इति विधेयो भव ।” इति तद्भाष्ये सायणः ॥)