शिंशपा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिंशपा, स्त्री, वृक्षविशेषः । शिशु इति भाषा । तत्पर्य्यायः । पिच्छिला २ अगुरुः ३ कपिला ४ भस्मगर्भा ५ । इत्यमरः ॥ अगुरुशिंशपा ६ । इति भरतः ॥ कृष्णसारा ७ । इति जटाधरः ॥ पिङ्गला ८ पिच्छला ९ बीरा १० । इति रत्न- माला ॥ * ॥ यथा, -- “शिंशपा गुरुसारा च पिच्छिला गुरुशिंशपा । सा चेत् कपिलवर्णा स्याद्भस्मगर्भा निगद्यते ॥ क्वचित्तु कपिला भस्मगर्भा चागुरुशिंशपा । पिच्छिला शिंशपा युग्मपत्रिकागुरु चेत्यपि ॥” इति शब्दरत्नावली ॥ अस्या गुणाः । “शिंशपा वातनाशिनी ।” इति राजवल्लभः ॥ अपि च । “शिंशपा कटुका तिक्ता कषाया शोषकारिणी । उष्णवीर्य्या हरेन्मेदः कुष्ठचित्रवमिकृमीन् । वस्तिवद्ब्रणदाहास्रवलासागर्भपातिनी ॥” इति भावप्रकाशः ॥ (तत्काष्ठनिर्म्मितरथस्तु दृढो भवति । यथा, ऋग्- वेदे । ३ । ५३ । १९ । “अभिव्ययस्व खदिरस्य सार- मोजो धेहि स्पन्दने शिंशपायाम् ।” स्पन्दने रथस्य गमने सति शिंशपायां शिंश- पाख्यदारुनिर्म्मिते रथस्य फलके ओजो धेहि दार्ढ्यं कुरु ।” इति तद्भाष्ये सायणः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिंशपा स्त्री।

शिंशपा

समानार्थक:पिच्छिल,अगुरु,शिंशपा

2।4।62।2।5

अरिष्टः सर्वतोभद्रहिङ्गुनिर्यासमालकाः॥ पिचुमन्दश्च निम्बेऽथ पिच्छिलागुरुशिंशपा।

 : शुक्लसारशिंशपा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिंशपा¦ f. (-पा)
1. A tree, (Dalbergia Sisu.)
2. The Asoka tree. E. शीघ्र quick, or शीर्ष the head or top; पा to cherish, or पत् to fall, &c., aff. क or ड, deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिंशपा [śiṃśapā], 1 N. of a tree (शिशु); शिंशपा कटुवा तिक्ता कषाया शोषकारिणी । उष्णवीर्या हरेन्मेदः कुष्ठचित्रवमिकृमीन् Bhāva P.

The Aśoka tree; (ददर्श) क्षामां स्वविरहव्याधिं शिंशपामूल- मास्थिताम्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिंशपा f. (rarely and mc. शिंशप, m. ) the tree Dalbergia Sissoo AV. etc.

शिंशपा f. the अशोकtree W.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śiṃśapā is the name of a tree (Dalbergia Sisu) in the Rigveda[१] and later.[२] It is a sately and beautiful tree.

  1. iii. 53, 19 (with the Khadira).
  2. Av. xx. 129, 7. Cf. śāṃśapa in vi. 129, 1;
    Whiteny, Translation of the Atharvaveda, 378.

    Cf. Zimmer, Altindisches Leben, 61.
"https://sa.wiktionary.org/w/index.php?title=शिंशपा&oldid=474797" इत्यस्माद् प्रतिप्राप्तम्