शिक्षा

विकिशब्दकोशः तः
Jump to navigation Jump to search

संस्कृतम्[सम्पाद्यताम्]

  • शिक्षा, विनीति, प्रज्ञप्ति, अनुषिष्टि, प्रकाशना, अभयासः।

नामः[सम्पाद्यताम्]

  • शिक्षा नाम अभ्यासः।

लिङ्गम[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिक्षा, स्त्री, (शिक्ष + “गुरोश्च हलः ।” ३ । ३ । १०३ । इत्यः । ततष्टाप् ।) शिक्षणम् । श्योनाकवृक्षः । इति शब्दमाला ॥ वेदाङ्गशास्त्रविशेषः । इत्य- मरः ॥ यथा, -- “शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषां गणः । छन्दोविचितिरित्येतैः षडङ्गो वेद उच्यते ॥” इति । तत्र अकारादिवर्णानां स्थलकरणप्रयत्नबोधिका अ-कु-ए-ह-विसर्ज्जनीयाः कण्ठ्या इत्यादिका शिक्षा । इति तट्टीकायां भरतः ॥ * ॥ * ॥ अथ शिक्षाशास्त्रं लिख्यते । “अथ शिक्षां प्रवक्ष्यामि पाणिनीयमतं यथा । शास्त्रानुपूर्व्वं तद्विद्याद्यथोक्तं लोकवेदयोः ॥ प्रसिद्धमपि शब्दार्थमविज्ञातमबुद्धिभिः । पुनर्व्यक्तीकरिष्यामि वाच उच्चारणे विधिम् ॥ त्रिषष्टिश्चतुःषष्टिर्वा वर्णाः शम्भुमते मताः । प्राकृते संस्कृते चापि स्वयं प्रोक्ताः स्वयम्भुवा ॥ स्वरा विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः । यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमाः स्मृताः ॥ अनुस्वारो विसर्गश्च ZकVपौ चापि पराश्रितौ । दुःस्पृष्टश्चेति विज्ञेयः ऌकारः प्लुत एव च ॥ आत्मा बुद्ध्या समेत्यार्थान्मनो युङ्क्ते विवक्षया । मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥ मारुतस्तूरसि चरन्मन्द्रं जनयति स्वरम् । प्रातःसवनयोगन्तं छन्दो गायत्त्रमाश्रितम् ॥ कण्ठे माध्यन्दिनयुतं मध्यमं त्रैष्टुभानुगम् । तारं तार्त्तीयसवनं शीर्षण्यं जागतानुगम् ॥ सोदीर्णो मूर्द्ध्न्यभिहतो वक्त्रमापद्य मारुतः । वर्णाञ्जनयते तेषां विभागः पञ्चधा स्मृतः ॥ स्वरतः कालतः स्थानात् प्रयत्नानुप्रदानतः । इति वर्णविदः प्राहुर्निपुणं तं निबोधत ॥ उदात्तश्चानुदात्तश्च स्वरितश्च स्वरास्त्रयः । ह्रस्वो दीर्घः प्लुत इति कालतो नियमा अचि ॥ उदात्ते निषादगन्धारावनुदात्ते ऋषभधैवतौ । स्वरितप्रभवा ह्येते षड्जमध्यमपञ्चमाः ॥ अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलञ्च दन्ताश्च नासिकौष्ठौ च तालु च ॥ ओभावश्च विवृत्तिश्च श-ष-सा रेफ एव च । जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः ॥ यद्योभावप्रसन्धानमुकारादिपरं पदम् । स्वरान्तं तादृशं विद्याद्यदन्यद्व्यक्तमुष्मणः ॥ हकारं पञ्चमैर्युक्तमन्तःस्थाभिश्च संयुतम् । औरस्यं तं विजानीयात् कण्ठ्यमाहुरसंयुतम् ॥ कण्ठ्यावहा वि-चु-य-शास्तालव्या ओष्ठजावुपू । स्युर्मूर्द्धन्या ऋ-टु-र-षा दन्त्या ऌ-तु-ल-साः स्मृताः ॥ जिह्वामूले तु कुः प्रोक्तो दन्त्योष्ठ्यो वः स्मृतो बुधैः । ए ऐ तु कण्ठतालव्या ओ औ कण्ठोष्ठजौ स्मृतौ ॥ अर्द्धमात्रा तु कण्ठ्या स्यादेकारैकारयोर्भवेत् ।

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिक्षा स्त्री।

वेदाङ्गम्

समानार्थक:शिक्षा

1।6।4।1।1

शिक्षेत्यादि श्रुतेरङ्गमोङ्कार प्रणवौ समौ। इतिहासः पुरावृत्तमुदात्ताद्यास्त्रयः स्वराः॥

सम्बन्धि1 : वेदः

पदार्थ-विभागः : , पौरुषेयः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिक्षा¦ स्त्री शिक्ष--भावे अ।

१ अभ्यासे

२ वर्णानामुच्चारणप्रदर्शकेवेदाङ्गे

३ ग्रन्थभेदे अमरः।

४ श्योनाकवृक्षे शब्दच॰।
“वर्णस्वराद्युच्चारणप्रकारो यत्रोपदिश्यते सा शिक्षातथा च तैत्तिरीया उपनिषदारम्भे समामनन्ति। शिक्षांव्याख्यास्यामः। वर्णः स्वरः मात्रा बलं साम सन्तान इ-त्युक्तं शिक्षाध्याय इति” ऋ॰ भा॰।
“अथ शिक्षां प्रवक्ष्यामिपाणिनीयमतं यथा। शास्त्रानुपूर्वं तद्विद्याद् यथोक्तंलोकवेदयोः। प्रसिद्धमपि शब्दार्थमविज्ञातमबुद्धिभिः। पुनर्व्यक्तीकरिष्यामि वाच उच्चारणे विधिम्। त्रिषष्टि-श्चतुःषष्टिर्वा वर्णाः सम्भवतो मताः। प्राकृते सस्कृतेचापि स्वयं प्रोक्ताः स्वयम्भुवा। स्वरा विंशतिरेकश्च स्प-र्शानां पञ्चविंशतिः। यादयश्च स्मृता ह्यष्टौ चत्वारश्चयमाः स्मृताः। अनुस्वारो विसर्गश्च + कुं पौ चापि प-राश्रितौ। दुःष्पृष्टश्चेति विज्ञेय ऌकारः प्लुत एव च। आत्मा बुद्ध्या समेत्यार्थान्मनो युङ्क्ते विवक्षया। मनःकायाग्निमाहन्ति स प्रेरयति मारुतम्। मारुतस्तू-रसि चरन्मन्त्रं जनयति स्वरम्। प्रातःसवनयोगन्तंछन्दोगायत्रभाश्रितम्। कण्ठे माध्यन्दिनयुतं मध्यमंत्रैष्टुभानुगम्। तारं तार्त्तीयसवनं शीर्षण्यं जागता-नुगम्। सोदीर्णो मूर्ध्न्यभिहतो वक्त्रमापद्य मारुतः। वर्णाञ्जनयते तेषां विभागः पञ्चधा स्मृतः। स्वरतःकालतः स्थानात् प्रयत्नानुप्रदानतः। इति वर्ण-विदः प्राहुर्निपुणास्तं निबोधत। उदात्तश्चानुदात्तश्चस्वरितश्च स्वरास्त्रयः। ह्रस्वो दीर्घः प्लत इति कालतोनियमा अचि। उदात्ते निषादगान्धारावनुदात्ते ऋषभधैवतौ। स्वरितप्रभवा ह्येते षड्जमध्यमपञ्चमाः। अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा। जिह्वा-मूलञ्च दन्ताश्च नासिकौष्ठौ च तालु च। ओभावश्चविवृत्तश्च स--ष--सारेफ एव च। जिह्वामूलमुपा-ध्मानं गतिरष्टविधोष्मणः। यद्योभागप्रसन्धानमुकारादिपरं पदम्। खरान्तं तादृशं विद्याद् यदन्यद्व्यक्तमूष्मणः। हकारं पञ्चमैर्युक्तभन्तःस्थाभिश्च संयुतम्। औरस्यं तं[Page5106-b+ 38] विजानीयात् कण्ठ्यमाहुरसंयुतम्। कण्ठ्यावहावि-चुयशास्तालव्या ओष्ठजावुपू। स्युर्मूर्द्धन्या ऋटुर-षा--दन्त्या ऌ--तु--ल--साः स्मृताः। जिह्वामूले तु कुःप्रोक्तो दन्त्यौष्ठ्यो वः स्मृतो बुधैः। एऐ तु कण्ठता-लव्यावोऔ कण्ठौष्ठजौ स्मृतौ। अर्द्धमात्रा तुकण्ठ्या स्यादेकारैकारयोर्भवेत्। ओकारौकारयो-र्मात्रा तयोर्विवृतसंवृतम्। संवृतं मात्रकं ज्ञेयं बिवृतन्तुद्विमात्रकम्। घोषा वा संवृताः सर्वे अघोषा विवृताःस्मृताः। स्वराणामूष्मणाञ्चैव विवृतं करणं स्मृतम्। तेभ्योऽपि विवृतावेङौ ताभ्यामैचौ तथैव च। अनुखार-यमानाञ्च नासिका स्थानमुच्यते। अयोगवाहा विज्ञेयाआश्रयस्थानभागिनः। अलावुवीणानिर्घोषो दन्त्यमूल-स्तराननु। अनुस्वारस्तु कर्त्तव्यो नित्यं ह्रोः शषसेषुच। अनुस्वारो विवृत्यस्तु विरामे चाक्षरद्वये। द्वि-रोष्ठ्यौ तु विगृह्णीयाद् यत्रैकारवकारयोः। व्याघ्री यथाहरेत् पुत्रान् दंष्ट्राभ्यां न च पीडयेत्। भीतापतनभे-दाभ्यां तद्वत् वर्णान् प्रयोजयेत्”।
“अचोऽस्पष्टायणस्त्वी-षन्नेमस्पृष्टाः शलस्तथा। शेषाः स्पृष्टाहलः प्रोक्तानिबोधानुप्रदानतः। यमोऽनुनासिका न ह्रौ नादिनोहऋषः स्मृताः”।
“ईषन्नादाय नञ्जश्च श्वासिनश्च कफादयः। ईषच्छ्वासां-श्चरो बिद्यात् गोर्द्धामैतत् प्रचक्षते। दाक्षीपुत्रपाणिनिनायेनेदं व्यापितं भुवि। छन्दःपादौ तु वेदस्य हस्तौकल्पोऽथ पठ्यते। ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते। शिक्षा घ्राणन्तु वेदस्य मुखं व्याकरणं स्मृतम्। तस्मात् साङ्गमंधोव्यैव ब्रह्मलोके महीयते”।
“मन्त्रोहीनःस्वरतो वर्णतो वा मिथ्या प्रयुक्तो न तमर्थमाह। स वा-ग्वज्रं यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात्।
“अनक्षरं हतायुष्यं विस्वरं व्याधिपीडितम्। अक्षता शस्त्ररूपेण वज्रं पतति मस्तके। हस्तहीनन्तुयोऽधीते स्वरवर्णविवर्जितम्। ऋग्यजुःसामभिर्द्दग्धोवियोनिमधिगच्छति” पाणिनिशिक्षा। नारदशिक्षाव्यासशिक्षादयो ग्रन्याः सन्ति विस्तरभयान्नोक्ताः।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिक्षा¦ f. (-क्षा)
1. One of the six Ve4da4ngas or sciences attached to the Ve4das: the proper pronunciation of the vocal sounds which occur in them, as explained by PA4N4INI.
2. A plant, (Bignonia Indica.)
3. Learning, study, the acquisition of knowledge.
4. Modesty, humility. E. शिक्ष् to learn, affs. अङ् and टाप् |

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिक्षा [śikṣā], [शिक्ष्-भावे अ]

Learning, study, acquisition of knowledge; पश्य मे हयसंयाने शिक्षां केशवनन्दन Mb.3.19.5; Ki.15.36; शिक्षाविशेषलघुहस्ततया निमेषात् R.9.63.

Desire of being able to do anything, wish to prevail; पाण्डवः परि- चक्राम शिक्षया रणशिक्षया Ki.15.37.

Teaching, instruction, training; काव्यज्ञशिक्षया$भ्यासः K. P.1; अभूच्च नम्रः प्रणिपात- शिक्षया R.3.25; M.4.9.

One of the six Vedāṅgas, the science which teaches the proper pronunciation of words and laws of euphony; वर्णस्वराद्युच्चारणप्रकारो यत्रोप- दिश्यते सा शिक्षा Ṛigvedabhāṣya.

Modesty, humility.

Science; रणशिक्षा 'military science'; Ki.15.37.

Giving, bestowing (Ved.).

Punishment. -Comp. -अक्षरम् a sound pronounced according to the rules of शिक्षा. -आचार a. conducting one's self according to precept.

करः a teacher, an instructor.

N. of Vyāsa-गुरुः a religious preceptor. -नरः an epithet of Indra.-रसः desire of acquiring skill (in). -शक्तिः f. skill.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिक्षा f. See. below.

शिक्षा f. desire of being able to effect anything , wish to accomplish Kir. xv , 37

शिक्षा f. learning study knowledge , art , skill in( loc. or comp. ; शिक्षयाor क्षाभिस्, " skilfully , artistically , correctly ") MBh. Ka1v. etc.

शिक्षा f. teaching , training (held by Buddhists to be of three kinds , viz. अधिचित्त-शिक्षा, training in the higher thought ; अधिशील-श्, -trtraining in the higher morality ; अधिप्रज्ञा-श्, -trtraining in the higher learning Dharmas. 140 ) , instruction , lesson , precept S3a1n3khBr. TUp. etc.

शिक्षा f. chastisement , punishment Nya1yam. Sch.

शिक्षा f. the science which teaches proper articulation and pronunciation of Vedic texts (one of the six वेदा-ङ्गs See. ) Pra1t. Mun2d2Up. etc.

शिक्षा f. modesty , humility , diffidence W.

शिक्षा f. (?) helping , bestowing , imparting(See. शिक्षा-नर)

शिक्षा f. the plant Bignonia Indica L.

"https://sa.wiktionary.org/w/index.php?title=शिक्षा&oldid=504902" इत्यस्माद् पुनः प्राप्तिः