शिलाजतु
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शिलाजतु, क्ली, (शिलाया जतु ।) पर्वतजातो- पधातुविशेषः । शिलाजित् इति हिन्दीभाषा । तत्पर्य्यायः । गैरेयम् २ अर्घ्यम् ३ गिरिजम् ४ अश्मजम् ५ । इत्यमरः ॥ शिलाजम् ६ अगजम् ७ शैलम् ८ अद्रिजम् ९ । इति रत्नमामाला ॥ शैलेयम् १० शीतपुष्पकम् ११ । इति शब्द- चन्द्रिका ॥ शिलाव्याधिः १२ । इति त्रिकाण्ड- शेषः ॥ अश्मोत्थम् १३ अश्मलाक्षा १४ अश्म- जतुकम् १५ जत्वश्मकम् १६ । अस्य गुणाः । तिक्तत्वम् । कटुत्वम् । उष्णत्वम् । रसायनत्वम् । मेहोन्मादाश्मरीशोफकुष्ठापस्मरनाशित्वं च । इति राजनिर्घण्टः ॥ अपि च । शर्करासर्व- रोगहरत्वम् । योगवाहित्वम् । अत्युष्णशीत- कत्वञ्च । इति राजवल्लभः ॥ अस्योत्पत्तिनाम- लक्षणगुणाः । “निदाघे घर्म्मसन्तप्ता धातुसार धराधराः । निर्यासवत् प्रमुञ्चन्ति तच्छिलाजतु कीर्त्तितम् ॥ सौवर्णं राजतं ताम्रं आयसं तच्चतुर्बिधम् । शिलाजत्वद्रिजतु च शैलनिर्यास इत्यपि ॥ गैरेयमश्मजञ्चापि गिरिजं शैलधातुजम् । शिलाह्वं कटुतिक्तोष्णं कटुपाकं रसायनम् ॥ छेदि योगवहं हन्ति कफमेदाश्मशर्कराः । मूत्रकृच्छ्रं क्षयं श्वासं वातास्रार्शांसि पाण्डुताम् ॥ अपस्मारं तथोन्मादं शोथकूष्ठोदरक्रिमीन् । सौवर्णन्तु जवापुष्पवर्णं भवति तद्रसात् ॥ मधुरं कटुतिक्तन्तु शीतलं कटुपाकि च । राजतं पाण्डुरं शीतं कटुकं स्वादुपाकि च ॥ ताम्रम् मयूरकण्ठाभं तत्तिक्तं लवणं भवेत् । विपाके कटुकं शीतं सर्वश्रेष्ठमुदाहृतम् ॥” इति भावप्रकाशः ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शिलाजतु नपुं।
शिलाजतुः
समानार्थक:गैरेय,अर्थ्य,गिरिज,अश्मज,शिलाजतु
2।9।104।1।5
गैरेयमर्थ्यं गिरिजमश्मजं च शिलाजतु। वोलगन्धरसप्राणपिण्डगोपरसाः समाः॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, मूलकम्
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शिलाजतु¦ न॰ शिलाजातं जतु।
१ पर्वतजाते उपधातुभेदेअमरः। तदुत्पत्त्यादिकं भावप्र॰ उक्तं यथा
“निदाधे धर्मसन्तप्ता धातुसारन्धराधराः। निर्यास-वत् प्रमुञ्चन्ति तच्छिलाजतु कीर्त्तितम्। सौवर्णं राज-तन्ताम्रमायसन्तच्चतुर्विधम्। शिलाजत्वद्रिजतु च शैलनिर्य्यास इत्यपि। गैरेयमश्मजञ्चापि गिरिज शैलधातु-जम्। शिलाजं कटु तिक्तोष्णं कटुपाकं रसायनम्। छेदि योगवहं हन्ति कफमेदाश्मशकराः। मूत्रकृच्छ्रक्षयं श्वासं वाताशांसि च पाण्डुताम्। अपस्मारन्तथो-न्माद शोथकुष्ठोदरक्रमीन्। सौवर्णन्तु जवापुष्पवर्णंभवति तद्रसात्। मधुर टुतिक्तञ्च शीतलं कटुपाकिच। राजत पाण्डुरं शीतं कटुक स्वादुपाकि च। ताम्रंमयूरकण्ठाभं तीक्ष्णमुष्णञ्च जायते। लौहं जटायुपक्षाभंतत्तिक्तं लबणं मबेत्। विपाके कटुकं शीतं सर्वश्रेष्ठ-मुदाहृतम्”।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शिलाजतु¦ n. (-तुः)
1. Bitumen.
2. Red chalk. E. शिला a stone, and जतु lac; it is supposed to ooze from the stones of mountains in the hot weather.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शिलाजतु/ शिला--जतु n. " rock-exudation " , bitumen MBh. Sus3r. etc.
शिलाजतु/ शिला--जतु n. red chalk W.