सामग्री पर जाएँ

शिवरात्रि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिवरात्रिः, स्त्री, (शिवप्रिया रात्रिः ।) शिव- चतुर्द्दशी । यथा, कालमाधवीये स्कान्दे नागर- खण्डम् । “माघमासस्य शेषे या प्रथमे फाल्गुणस्य च । कृष्णा चतुर्द्दशी सा तु शिवरात्रिः प्रकीर्त्तिता ॥” अत्रैकस्यास्तिथेर्म्माघीयत्वफाल्गुनीयत्वे मुख्य- गौणवृत्तिभ्यां अविरुद्धे । ततस्तु माघ्यनन्तरा चतुर्द्दशी शिवरात्रिः तस्यामुपवासः प्रधानम् । “न स्नानेन न वस्त्रेन न धूपेन न चार्च्चया । तुष्यामि न तथा पुष्पैर्यथा तत्रोपवासतः ॥” इति शङ्करोक्तेः ॥ * ॥ स्कान्दे । “ततो रात्रौ प्रकर्त्तव्यं शिवप्रीणनतत्परः । प्रहरे प्रहरे स्नानं पूजाञ्चैव विशेषतः ॥” अत्र वीप्सया प्रहरचतुष्टयसाध्यं व्रतं प्रतीयते नरसिंहाचार्य्यधृतेश्वरसंहितायाम् । “शैवो वा वैष्णवो वापि यो वा स्यादन्यपूजकः । सर्व्वं पूजाफलं हन्ति शिवरात्रिबहिर्म्म खः ॥ * ॥ संवत्सरप्रदीपे । “दुग्धेन प्रथमं स्नानं दध्ना चैव द्वितीयके । तृतीये च तथाज्येन चतुर्थे मधुना तथा ॥” ईशानसंहितायाम् । “माघे कृष्णचतुर्द्दश्यां रविवारो यदा भवेत् । भौमो वापि भवेद्देवि कर्त्तव्यं व्रतमुत्तमम् ॥ शिवयोगस्य यौगेन तद्भवेदुत्तमोत्तमम् । शिवरात्रिव्रतं नाम सर्व्वपापप्रणाशनम् । आचाण्डालमनुष्याणां भुक्तिमुक्तिप्रदायकम् ॥” नागरखण्डे । “उपवासप्रभावेण बलादपि च जागरात् । शिवरात्रेस्तथा तस्य लिङ्गस्यापि प्रपूजया । अक्षयान्लभते लोकान् शिवसायुज्यमाप्नुयात् ॥” पाद्मे । “वर्षे वर्षे महादेवि नरो नारी पतिव्रता । शिवरात्रौ महादेवं कामं भक्त्या प्रपूजयेत् ॥” ईश्वानसंहितायाम् “एवमेव व्रतं कुर्य्यात् प्रति संवत्सरं व्रती । द्वादशाब्दिकमेतद्धि चतुर्व्विंशाब्दिकं तथा । सर्व्वान् कामानवाप्नोति प्रेत्यचेह च मानवः ॥” हेमाद्रिधृता स्मृतिः । “प्रदोषव्यापिनी ग्राह्या शिवरात्रिचतुर्द्दशी ॥” प्रदोषमाह वत्सः । “प्रदोषोऽस्तमयादूर्द्ध्वं घटिकाद्वयमिष्यते ॥” भोक्ष्येऽहं भुक्तिमुक्त्यर्थं शरणं मे भवेश्वर ॥ पञ्चगव्यामृतैः स्नात्वा अन्तकाले गुरुं श्रितः । ओ~ नमो नमः शिवाय गन्धाद्यैः पूजयेद्धरम् ॥ तिलतण्डुलव्रीहींश्च जुहुयात् स्वशृतं चरुम् । हुत्वा पूर्णाहुतिं दद्यात् शृणुयाद्गीतसत्कथाम् ॥ अर्द्धरात्रे त्रियामे च चतुर्थे च पुनर्यजेत् । मूलमन्त्रं तथा जप्त्वा प्रभाते च क्षमापयेत् ॥ अविघ्नेन व्रतं देव त्वत्प्रसादात् समर्पितम् । क्षमस्व जगतां नाथ त्रैलोक्याधिपते शिव ॥ यन्मयाद्य कृतं पुण्यं तच्छिवस्य निवेदितम् । त्वत्प्रसादान्मया देव व्रतमद्य समर्पितम् ॥ प्रसन्नो भव मे श्रीमन् मद्गृहं प्रतिगम्यताम् । तदालोकनमात्रेण पवित्रोऽस्मि न संशयः । भोजयेद्ध्याननिष्ठांश्च वस्त्रच्छत्रादिकं ददेत् ॥ देवादिदेव भूतेश लोकानुग्रहकारक । यन्मया श्रद्धया दत्तं प्रीयतां तेन मे प्रभुः ॥ इति क्षमाप्य च यतीन् कुर्य्यात् द्वादशवार्षिकम् कीर्त्तिश्रीपुत्त्रराज्यादि प्राप्य शैवं पुरं व्रजेत् ॥ द्वादशस्वपि मासेषु प्रकुर्य्यादिह जागरम् । यतीन् द्वादश संपूज्य दीपदः स्वर्गमाप्नुयात् ॥” इति गारुडे शिवरात्रिव्रतकथा १२४ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिवरात्रि¦ स्त्री शिवप्रिया तदुपासनार्था रात्रिः। माघातःपरस्यां कृष्णचतुर्दश्याम्। तद्रात्रौ हि शिव पूजनव्रता-दिकं क्रियते इति तस्या रात्रेस्तत्प्रियत्वम्।

२ तद्दिव-सकर्त्तव्येव्रते च। तद्विधानकालादि ति॰ त॰ उक्तं यथाकालमाधवीये स्कान्दे नागरखण्डम्
“माघमासस्यशेषे या प्रथमे फालगुनस्य च। कृष्णा चतुर्दशीसा तु शिवरात्रिः प्रकीर्त्तिता”। अत्रैकस्यास्तिथे-मांघीयत्वफाल्गुनीयत्वे मुख्यगौणवृत्तिभ्याम् अविरुद्धे। ततस्तु माघ्यनन्तरा चतुर्दशी शिवरात्रिः। अस्यामुप-वासः प्रधानम्
“न स्नानेन न वस्त्रेण न धूपनन चार्चया। तुष्यामि न तथा पुष्पैर्यथा तत्रोपवासतःइति शङ्करोक्तेः। स्कान्दे
“ततो रात्रौ प्रकत्तंव्यंशिवप्रोणनतत्परैः। प्रहरे प्रहरे स्नानं पूजा चैवविशेषतः”। अत्र वीप्सया प्रहरचतुष्टयसाध्यं प्रती-यते। नरसिंहाचार्य्यधृतेश्वरसहितायाम्
“शैवो वावैष्णवो वापि यो वा स्यादन्यपूजकः। सर्वं पूजाफलंहन्ति शिवरात्रिबहिर्मुखः”। संवत्सरपदीपे
“दु-ग्धेन प्रथमे स्नानं दघ्ना चैव द्वितीयके। तृतीये चतथाज्येन चतुर्थे मधुना तथा”। ईशानसंहितायाम्
“माघे कृष्णचतुर्दश्यां रविवारो यदा भवेत्। भौमोवापि भवेद् देवि! कर्त्तव्यं व्रतमुत्तमम्। शिवयोगस्ययोगेन तद्भवेदुत्तमोत्तमम्। शिवरात्रिव्रतं नाम सर्वषाप-प्रणाशनम्। आ चाण्डालात् मनुष्याणां भुक्तिमुक्तिप्रदाय-कम। नागरखण्डे
“उपवासप्रभावेण बलादपि चजागरात्। शिवरात्रेस्तथा तस्य लिङ्गस्यापि प्रपूजया। अक्षयान् लभते लोकान् शिवसायुज्यमाप्नुयात्”। पाद्मे
“वर्ष वर्षे महादेवि! नरी नारी पततिव्रता। शिव-रात्रौ महादेवं काम भक्त्या प्रपूजयेत्”। ईशानसंहि-तायाम्
“एवमेव व्रतं कुर्य्यात् प्रतिसंवत्सरं व्रती। द्वादशाव्दिकमेतद्धि चतुर्विंशाव्दिकं तथा सर्वान्कामानवाप्नाति प्रेत्य चेह च मानवः”। हेमा-द्रिधृता स्मृतिः
“प्रदोषव्यापिनी ग्राह्या शिवरात्रिचतु-र्दर्शी। प्रदोषमाह वत्सः
“प्रदोषोऽधग्रयादूर्द्ध्वं वदि-[Page5113-a+ 38] काद्वयसिष्यते”। ऊर्द्ध्वमनन्तरम्। वायुपुराणे
“त्रयोद-श्यस्तगे सूर्य्ये चतसृष्वपि नाडषु। भूतावद्धा तु यातत्र शिवरात्रिव्रतञ्चरेत्--”। ईशानसंहितायाम्
“माघेकृष्णचतुर्दश्यामादिदेवो महानिशि। शिवलिङ्गतयोद्भूतःकोटिसूर्य्यसमप्रभ। तत्कालव्यापिनी ग्राह्या शिवरात्रिप्रते तिथिः अर्द्धरात्रादधश्चोर्द्ध्वं युक्ता यत्र चतुर्दशी। व्याप्ता सा दृश्यते यस्यां तस्यां कुर्य्यात् व्रतं नरः”। अत्र
“महानिशा द्वे घटिके रात्रेर्मध्यमयामयोः” इतिदेवलोक्ता महानिशा ग्राह्या। घटिका एकदण्डः। एवञ्चयद्दिने प्रदोषनिशीथोभयव्यापिनी चतुर्दशी तद्दिने व्रतम्उभयव्याप्त्यनुराधात्। कालमाधवीयोऽप्येवम्। एतेनपरदिने उभयव्यापित्वेऽपि पूर्वदिवसीयरात्रिद्वितीययामप्रभृतिचतुर्दशीसत्त्व बहुप्रहरव्यापित्वेन पूर्वदिनएव व्रतभिति निरस्तम् यदा तु पूर्वद्युर्निशीथमात्रव्याप्तिः परेद्युः गदाषमात्रव्याप्तिस्तदा पूर्वेद्युर्व्रतं प्रधानःकालव्याप्त्यनुरोधात्।
“पूर्वेद्युरपरेद्युर्वा महानिशि च-तुर्दशी। व्याप्ता सा दृश्यते यस्यां तस्यां कुर्य्यात् व्रतनरः” इतीशानसंहितावचनाच्च। एतद्विषय एवभविष्यपु॰
“अर्द्धरात्रात् पुरस्तात्तु जयायोगा भवेद्यदि। पूर्वविद्धैव कर्त्तव्या शिरात्रिः शिवप्रियैः”। विष्णुधर्मोत्तरे
“जयन्ती शिवरात्रिश्च कार्य्य भद्रजयान्विते। -कृत्वोपवासं तिथ्यन्ते तदा कुर्य्याच्च पारणम्”। तिथ्यन्ते-पारण जयन्तीमात्रपरं तत्र चतुर्दश्यामेव तत्
“व्रह्माण्डोदरमध्ये तु यानि तीर्थानि सन्ति वै। पूजितानि-भवन्तीह भूतायां पारणे कृते” इति स्कान्दात्।
“दिनमानप्रमाणेन या तु रात्रौ चतुर्दशी। शिवरात्रिस्तुसा ज्ञेया चतुर्दश्यान्तु पारणम्” इति गौतमीयाच्च। यदा त पूर्वदिने न निशीथव्याप्तिः परदिने प्रदोषमात्रव्यापिनी तदा परा ग्राह्या प्रदोषव्यापिनीति प्रागुक्तत्वात्तिथेस्त्रिसन्ध्यव्यापित्वाच्च। एतद्विषय एव लिङ्गपुरा-णम्
“शिवरात्रिव्रते भूतां कामविद्धां विर्जयेत्। एकेनैवोपवासेन ब्रह्महत्यां व्यापोहति”। अत्रामावस्याया-मेव पारणम्
“शिवाऽघारा तथा पेता सावित्री च च-तुर्दशी। कुहूयुक्तैव कर्त्तव्या कुह्वामेव हि पारणम्”। इति वचनात्। तदयं संक्षेपः। यद्दिने प्रदोषनिथीथो-भयव्यापिनी चतुर्दशी तद्दिने व्रतम्। यदा तु पूर्वेद्युर्नि-शीथव्यापिनी परेद्युः प्रदोषमात्रव्यापिनी तदा पूर्वेद्यु-र्वतम्। यदा तु न पूर्वेद्युर्निशोघव्याप्तिः परदिने प्र-[Page5113-b+ 38] दोषव्यापिनी तदा परदिने। पारणन्तु परदिमे चतु-र्दशीलाभे चतुर्दश्यां, तदलाभे अमावास्यायाम्” ति॰ त॰ रघु॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिवरात्रि¦ f. (-त्रिः) A celebrated festival held in honour of S4IVA on the fourteenth of the moon's wane or dark-fortnight in Ma4gha. E. शिव, and रात्रि night.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिवरात्रि/ शिव--रात्रि f. " शिव's night " , N. of a popular fast and festival in honour of शिव(kept on the 14th of the dark half of the month माघor January-February with many solemn ceremonies , observed during the day and night See. शिव-चतुर्दशी) Ra1jat. RTL. 90 ; 428

शिवरात्रि/ शिव--रात्रि f. a form of दुर्गा(= महा-काली) Hcat.

"https://sa.wiktionary.org/w/index.php?title=शिवरात्रि&oldid=331997" इत्यस्माद् प्रतिप्राप्तम्