शिशुः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिशुः, पुं, (श्यतीति । शो + “शः कित् सन्वच्च ।” उणा ० १ । २१ । इति उः ।) बालकः । तत्- पर्य्यायः । पोतः २ पाकः ३ अर्भकः ४ डिम्भः ५ पृथुकः ६ शावकः ७ । इत्यमरः ॥ शावः ८ । अर्भः ९ शिशुकः १० पोतकः ११ भिष्टकः १२ इति शब्दरत्नावली ॥ गर्भः १३ । इति जटा- धरः ॥ तस्य लक्षणादि यथा । वृद्धशातातपः । “शिशोरभ्युक्षणं प्रोक्तं बालस्याचमनं स्मृतम् । रजस्वलादि संस्पृश्य स्नातव्यन्तु कुमारकैः ॥ प्राक् चूडाकरणाद्बालः प्रागन्नप्राशनाच्छिशुः । कुमारस्तु स विज्ञेयो यावन्मौञ्जी न बन्धनम् ॥” इति गोपालन्यायपञ्चाननकृतस्मृतिनिर्णयः ॥ अपि च । “चतुर्थाद्वत्सरादूर्द्ध्वं यावदष्टौ समा वयः । शिशोर्व्रतं प्रकुर्व्वन्ति गुरुसम्बन्धिबान्धवाः ॥” इति ब्रह्मपुराणवचनम् ॥ “जातमात्रः शिशुस्तावत् यावदष्टौ समा वयः । स हि गर्भसमो ज्ञेयो व्यक्तिमात्रप्रदर्शकः ॥ भक्ष्याभक्ष्ये तथा पेये वाच्यावाच्ये तथानृते । तस्मिन् काले न दोषः स्यात् स यावन्नोपनी- यते ॥” इति मनुवचनम् ॥ * ॥ तस्याध्यापनक्रमो यथा, -- “प्राङ्मुखो गुरुरासीनो वरुणाभिमुखं शिशुम् अध्यापयेच्च प्रथमं द्विजाशीर्भिः प्रपूजितम् ॥” इति मलमासतत्त्वे बृहस्पतिवनम् ॥ * ॥ शिशुपुत्त्रं त्यक्त्वा प्रव्रज्याश्रमनिषेधो यथा, -- “मातरं पितरं वृद्धं भार्य्याञ्चैव पतिव्रताम् । शिशुञ्च तनयं हित्वा नावधूताश्रमं व्रजेत् ॥” इति महानिर्व्वाणतन्त्रम् ॥ अन्यद्बालशब्दे द्रष्टव्यम् ॥ * ॥ (कुमारः । कार्त्ति- केयः यथा, महाभारते । ३ । २३१ । ४ । “शिशुः शीघ्रः शुचिश्चण्डो दीप्तवर्णः शुभा- ननः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिशुः [śiśuḥ], [शो-कु सन्वद्भावः द्वित्वम् cf. Uṇ.1.2]

A child, an infant; शिशुर्वा शिष्या वा U.4.11.

The young of any animal (as a calf, puppy, fawn &c.); नष्टाशङ्का हरिणशिशवो मन्दमन्दं चरन्ति Ś.1.15;7.14,18.

A boy under eight or sixteen years of age.

A pupil, scholar.

An elephant in the sixth year; Mātaṅga L.5.8.-Comp. -कृच्छ्रम् a form of penance. -क्रन्दः, क्रन्दनम् the cry or weeping of a child. -क्रन्दीयः (i. e. ग्रन्थः) a work treating of the complaints of children; P.IV. 3.88. -गन्धा a kind of jasmine (double jasmine).-चान्द्रायणम् a lunar penance of children; चतुरः प्रातरश्नीयात् पिण्डान् विप्रः समाहितः । चतुरो$स्तमिते सूर्ये शिशुचान्द्रा- यणं स्मृतम् ॥ Ms.11.219.

नागः a young elephant.

a young snake. -नामन् m. a camel. -पालः N. of of a king of the Chedis and son of Damaghoṣa. [According to the Viṣṇu Purāṇa this monarch was, in a previous existence, the unrighteous Hiraṇyakaśipu, king of the Asuras who was killed by Viṣṇu in the form of Narasiṁha. He was next born as the ten-headed Rāvaṇa who was killed by Rāma. Then he was born as the son of Damaghoṣa, and continued his enmity to Kṛiṣṇa, the eighth incarnation of Viṣṇu, with even greater implacability; see Śi.1. He denounced Kṛiṣṇa when they met at the Rājasūya sacrifice of Yudhiṣṭhira, but his head was cut off by Kṛiṣṇa with his discus. His death forms the subject of a celebrated poem by Māgha.] ˚हन् m. an epithet of Kṛiṣṇa. -प्रियः treacle. (-यम्) the white water-lily.

मारः the Gangetic porpoise.

a collection of stars held to be a form of Viṣṇu. ˚शिरस् n. the north-east quarter; शिशुमार- शिरः प्राप्य न्यविशंस्ते स्म पार्थिवाः Mb.1.185.16. -वाहकः, -वाह्यकः a wild goat. -हत्या child-murder, infanticide.

"https://sa.wiktionary.org/w/index.php?title=शिशुः&oldid=333175" इत्यस्माद् प्रतिप्राप्तम्