शिशुमार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शिशुमारः, पुं, (शिशून् मारयतीति । मृ + णिच् + अण् ।) जलजन्तुभेदः । शो~ष इति शुशुक् इति च ख्यातः । इत्यमरभरतौ ॥ (यथा, वाजसनेयसंहितायाम् । २४ । ३० । “नीलङ्गोः कृमिः समुद्राय शिशुमारो हिमवते हस्ती ॥” * ॥) अस्य पर्य्यायः शिशुकशब्दे द्रष्टव्यः । अस्य गणना गुणाश्च पादिशब्दे द्रष्टव्याः ॥ तारात्मकाच्युतः । इति मेदिनी ॥ तद्विवरणं यथा, -- “शिशुमारस्तु यः प्रोक्तः स ध्रुवो यत्र तिष्ठति । सन्निवेशञ्च तस्यापि शृणुष्व मुनिसत्तम ॥ यदह्ना कुरुते पापं दृष्ट्वा तन्निशि मुच्यते । तावत्यश्चै व तारास्ताः शिशुमाराश्रिता दिवि ॥ तावन्त्येव तु वर्षाणि जीवन्त्यभ्यधिकानि तु । उत्तानपादस्तस्याथ विज्ञेयोऽप्युत्तरो हनुः ॥ यक्षोऽधरश्च विज्ञेयो धर्म्मो मूर्द्धानमाश्रितः । हृदि नारायणश्चास्ते अश्विनौ पूर्व्वपादयोः ॥ वरुणश्चार्य्यमा चैव पश्चिमे तस्य सक्थिनी । शिश्नं संवत्सरस्तस्य मित्रोऽपानं समाश्रितः ॥ पुच्छेऽग्निश्च महेन्द्रश्च कश्यपोऽथ ततो ध्रुवः । तारका शिशुमारस्य नास्तमेति चतुष्टयम् ॥ इत्येष सन्निवेशोऽयं पृथिव्यां ज्योतिषां तथा । द्वीपानामुदधीनाञ्च पर्व्वतानाञ्च कीर्त्तितः ॥ वर्षाणाञ्च नदीनाञ्च ये च तेषु वसन्ति वै । तैषां स्वरूपमाख्यातं संक्षेपः श्रूयतां पुनः ॥ पदन्तु वैष्णवः कायस्ततो विप्र वसुन्धरा । पद्माकारा समुद्भूता पर्व्वताब्ध्यादिसंयुता ॥ ज्योतींषि विष्णुर्भुवनानि विष्णु- र्वनानि विष्णुर्विदिशो दिशश्च । नद्यः समुद्राश्च स एव सर्व्वं यदस्ति यन्नास्ति च विप्रवर्य्य ॥ ज्ञानस्वरूपो भगवान् यतोऽसा वशेषमूर्त्तिर्न तु वस्तुभूतः । ततो हि शैलाब्धिधरादिभेदान् जानीहि विज्ञानविज्म्भितानि ॥ यदा हि शुद्धं निजरूपसर्व्वं कर्म्मक्षये ज्ञानमयास्तदोषम् । तदा हि सङ्कल्पतरोः फलानि भवन्ति नो वस्तुषु वस्तुभेदाः ॥ महोघटत्वं घटतः कपालिका कपालिकाचूर्णरजस्ततोऽप्यनुः । जनैः स्वकर्म्मस्तिमितात्मनिश्चयै- सलक्ष्यते वस्तु किमत्र वस्तु ॥” इति विष्णुपुराणे २ अंशे १२ अध्यायः ॥ * ॥ अपि च । “केचिदेतज्ज्योतिरनीकं शिशुमार- संस्थानेन भगवतो वासुदेवस्य योगधारणाया- मनुवर्णयन्ति । यस्य पुच्छाग्रेऽवाक्शिरसः कुण्डलीभूतदेहस्य घ्रुव उपकॢप्तः । तस्य लाङ्गूले प्रजापतिः अग्निरिन्द्रो धर्म्म इति पुच्छमूले धाता विधाता च कट्यां सप्तर्षयः ॥ तस्य दक्षिणावर्त्तकुण्डलीभूतशरीरस्य यान्यु- दगयनानि दक्षिणपार्श्वे नक्षत्राणि उपकल्प- यन्ति । दक्षिणायनानि तु सव्ये यथा शिशु- मारस्य कुण्डलाभोगसन्निवेशस्य पार्श्वयोरुभयो- रप्यवयवाः समसंख्या भवन्ति । पृष्ठे त्वजवीथी आंकाशगङ्गा चोदरतः । पुनर्व्वसुपुष्यौ दक्षिण- वामयोः श्रोण्योराद्राश्लेषा च दक्षिणवामयोः पादयोरभिजिदुत्तराषाढे दक्षिणवामयोर्नासि- कयोर्ययासंख्यं श्रवणपूर्वाषाढे दक्षिणवामयो- र्लोचनयोर्धनिष्ठामूलञ्च दक्षिणवामयोः कर्णयो र्मघादीन्यष्टनक्षत्राणि दक्षिणायनानि वाम- पार्श्ववध्निषु युञ्जीत । वध्निषु अस्थिषु । तथैव मृगशीर्षादीन्युदगयनानि दक्षिणपार्श्वेषु प्राति लोम्येन युञ्जीत । शतभिषा ज्येष्ठे स्कन्धयो- र्दक्षिणवामयोर्न्यसेत् । उत्तराहनावगस्त्यः अध- राहनौ यमः मुखे चाङ्गारकः शनैश्चर उपस्थे बृहस्पतिः ककुदि वक्षस्यादित्यो हृदये नारा- यणो मनसि चन्द्रो नाभ्यामुशनास्तनयोरश्विनौ बुधः प्राणापानयो राहुर्गले केतवः सर्व्वाङ्गेषु रामसु सर्व्वे तारागणाः । एतदुहैव भगवतो विष्णोः सर्व्वदेवतामयं रूपमहरहः सन्ध्यायां प्रयतो वाग्यतो निरीक्षमाण उपतिष्ठेत नमो नमो ज्योतिर्लोकाय कालायनायानिमिषां पतये महापुरुषायाभिधीमहीति । ग्रहर्क्षतारामयमाधिदैविकं पापापहं मन्त्रकृतां त्रिकालम् । नमस्यतः स्मरतो वा त्रिकालं नश्येत तत्कालजमाशु पापम् ॥” इति श्राभागवते ५ स्कन्धे शिशुमारसंस्थानम् २३ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शिशुमार पुं।

जलजन्तुविशेषः

समानार्थक:शिशुमार,उद्र,शङ्कु,मकर

1।10।20।2।1

तिमिङ्गलादयश्चाथ यादांसि जलजन्तवः। तद्भेदाः शिशुमारोद्रशङ्कवो मकरादयः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, जलीयः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शिशुमार¦ पुंस्त्री॰ शिशुं मारयति मृ--णिच।

१ जलजन्तुभेदेअमरः स्त्रियां ङीष्। गगनस्थे

२ ताराचक्रभेदे च
“शिशुमारस्तु यः प्रोक्तः स ध्रुवो यत्र तिष्ठति। सन्निवेशञ्च तस्यापि शृणुष्व मुनिसत्तम!। यदह्ना कुरुते पापंदृष्ट्वा तन्निशि मुच्यते। तावत्यश्चैव तारास्ताः शिशुमारा-श्रिता दिवि। तावन्त्येव तु वर्षाणि जीवन्यभ्यधिकानितु। उत्तानपादस्तस्याथ विज्ञेयोऽप्युत्तरी हलः। यज्ञो-[Page5121-a+ 38] ऽधरश्च विज्ञेयो धर्मो मुर्द्धानमाश्रितः। हृदि नारायण-श्चास्ते अश्विनौ पूर्वपादयोः। वरुणश्चार्य्यमा चैवपश्चिमे तस्य सक्थिनी। शिश्नं संवत्सरस्तस्य मित्रो-ऽपानं समाश्रितः। पुच्छेऽग्निश्च महेन्द्रश्च कश्यपोऽथततो ध्रुवः। तारकाः शिशुमारस्य नास्तमेति चतुष्टयम्” विष्णुपु॰

२ अं

१२ अ॰। भाग॰

२३ अ॰ अन्यथोक्तं यथा
“केचिदेतत् ज्योतिरनीकं शिशुमारसंस्थानेन भगवतोवासुदेवस्य योगधारणायामनुवणयन्ति। यस्य पुच्छाग्रे-ऽवाक्शिरसः कुण्डलीभूतदेहस्य ध्रुव उपकल्पितः तस्यलाङ्गूले प्रजापतिरग्निरिन्द्रो धर्म इति। पुच्छमूलेधाता विधाता च कट्यां सप्तर्षयः यस्य दक्षिणावर्त्त-कुण्डलीभूतशरीरस्य यान्युद्गमनानि दक्षिणपार्श्वे नक्ष-त्राणि उपकल्पयन्ति। दक्षिणानि तु सव्ये यथा शिशु-मारस्य कुण्डलाभोगसन्निवेशस्य पार्श्वयोरुभयोरप्यव-यवाः समसंख्या भवन्ति। पृष्ठे त्वजवीथी आकाशगङ्गा चोदरतः। पुनर्वसुपुष्यौ दक्षिणवामयोः श्रोण्यो-रार्द्राश्लेषा च दक्षिणवामयोः पादयोरभिजिदुत्तरा-षाढे दक्षिणवामपार्श्वबध्रिषु युञ्जीत। तथैव भृगशीर्षा-दीन्युद्गमनानि दक्षिपार्श्वे प्रातिलोम्येन प्रतियुञ्जीत। शतभिषाज्येष्ठे स्कन्घयोर्दक्षिणवामयोर्न्यसेत्। उत्तरा-हनावगस्त्यः अधराहनौ यमः मुख्ये चाङ्गारकः शनै-श्वर उपस्थे वृहस्पतिः ककुदि वक्षस्यादित्यो हृदये नारा-यणो मनसि चन्द्रोनाभ्यामुशनास्तनयोरश्विनौ बुधःप्राणापानयो राहुर्गले केतवः सर्वाङ्गेषु रोमसु सर्वेतारागणाः। एतदुहैव भगवतो विष्णोः सर्वदेवतामयंरूपम् अहरहः सन्ध्यायां प्रयतो वाग्यतोनिरोक्षमाणउपतिष्ठेर्त”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शिशुमार¦ m. (-रः)
1. The Gangetic porpoise, (Delphinus gangeticus.)
2. The heavenly porpoise, or collection of the stars and planets.
3. A name or form of VISHN4U. E. शिशु child, and मार what kills.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शिशुमार/ शिशु--मार m. " child-killer " , the Gangetic porpoise or dolphin , Delphinus Gangeticus VS. etc.

शिशुमार/ शिशु--मार m. an alligator Sus3r.

शिशुमार/ शिशु--मार m. a collection of stars supposed to resemble a dolphin (and held to be a form of विष्णु; also personified as a son of दोषand शर्वरी, or as father of भ्रमि, wife of ध्रुव) MBh. Pur.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

(I)--a प्रजापति; father of Bhrami and father-in-law of Dhruva. भा. IV. १०. ११.
(II)--the form of the system of heavenly bodies supposed to be yoga power of Hari. At the end of the tail is Dhruva and on the tail are other gods like Indra, Agni, कश्यप; on its back lies the अजवीथि and on the stomach the Ganges. Similarly all constellations and planets are seen on the different limbs of its body; फलकम्:F1:  भा. II. 2. २४; V. २३. 4-8; VI. 6. १४; Br. I. 1. ८५. II. २३. ९९; M. १२५. 5-9; १२७. १९; वा. 1. १०१; Vi. II. १२. २९, ३४.फलकम्:/F described. फलकम्:F2:  M. १२८. १९-25.फलकम्:/F
(III)--is तारामय; the eternal deity; उत्ता- नपाद is the upper jaw, यज्ञ is the lower lip, Dharma is the head, heart is नारायण, साध्य and अश्विन्स् front feet, वरुण and Aryama is the hind feet, the samvatsara, child; Mitra is अपान; tail is Agni, Mahendra, मरीचि and कश्यप and Dhruva; all the planets are centred in Dhruva. वा. ५२. ९०-9; Vi. II. 9. २३-4. [page३-434+ २८]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

Śiśumāra  : m.: Designation of a group of stars (having the shape of a dolphin), occurs in the name of a town (?), a direction (?)

The kings and the Brāhmaṇas who came to attend the svayaṁvara of Draupadī went to Śiśumārapura and took residence there (brāhmaṇāś ca mahābhāgāḥ…śiśumārapuraṁ prāpya nyaviśaṁs te ca pārthivāḥ) 1. 176. 14-15 (Nī., who reads śiśumāraśiraḥ prāpya observes on Bom. Ed. 1. 185. 16: śiśumāro jalajantuḥ tadākāras tārāsamūhātmako viṣṇuḥ tasya śiraḥpradeśe aiśānyāṁ diśi).

_______________________________
*1st word in right half of page p271_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

1. Śiśumāra. See Śiṃśumāra.
==Foot Notes==

2. Śiśumāra is a term applied to Śarkara in the Pañcaviṃśa Brāhmaṇa (xiv. 5, 15), where he is called a Śiśumārarṣi, explained by the commentator to mean a Ṛṣi in the form of a Siśumāra.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=शिशुमार&oldid=474819" इत्यस्माद् प्रतिप्राप्तम्