सामग्री पर जाएँ

शुकः

विकिशब्दकोशः तः

संस्कृतम्

[सम्पाद्यताम्]
शुकः
  • शुकः, कीरः, किंकिरातः, कुमारः, प्रियदर्शनः, श्रीमत्, फलदान, फलशन।


  • शुकः नाम पक्षिः।

अनुवादाः

[सम्पाद्यताम्]

उदाहरणानि

[सम्पाद्यताम्]
  • शुकः फलं खादति।
  • शुकः संभाषणं करोति।
  • शुकः गीतं श्रावयति।

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुकः, पुं, (शुभ दीप्तौ + कप्रत्ययेन साधुः । उणा० ३ । ४२ ।) पक्षिविशेषः । शुया इति वङ्ग- भाषा । शुगा इति हिन्दी भाषा । तत्पर्य्यायः । कीरः २ । इत्यमरः ॥ वक्रतुण्डः ३ । मेधावी ४ तस्माच्छुकः समुद्भूतो व्यासाकृतिमनोहरः ॥ विस्मयं जनयन् बालः संजातस्तदरण्यजः । यथाध्वरे समिद्धोऽग्निर्भाति हव्येन दीप्तिमान् ॥ व्यासस्तु सुतमालोक्य विस्मयं परमङ्गतः । किमेतदिति सञ्चिन्त्य वरदानाच्छिवस्य वै ॥ तेजोरूपी शुको जातोऽप्यरणीगर्भसम्भवः । द्वितीयोऽग्निरिवात्यर्थं दीप्यमानः स्वतेजसा ॥ विलोकयामास तदा व्यासस्तु मुदितं सुतम् । दिव्येन तेजसा युक्तं गार्हपत्यमिवापरम् ॥ गङ्गाम्भः स्नापयामास समागत्य गिरेस्तदा । पुष्पवृष्टिस्तु खाज्जाता शिशोरुपरि तापसाः ! ॥ जातकर्म्मादिकं चक्रे व्यासस्तस्य महात्मनः । देवदुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः ॥ जगुर्गन्धर्व्वपतयो मुदितास्ते दिदृक्षवः । विश्वावसुर्नारदश्च तुम्बुरुः शुकसम्भवे ॥ तुष्टुवुर्मुदिताः सर्व्वे देवा विद्याधरास्तथा । दृष्ट्वा व्याससुतं दिव्यमरणीगर्भसम्भवम् ॥ अन्तरीक्षात् पपातोर्व्यां दण्डः कृष्णाजिनं शभम् कमण्डलुस्तथा दिव्यः शुकस्यार्थे द्विजोत्तमाः ॥ सद्यः स ववृधे बालो जातमात्रोऽतिदीप्तिमान् । तस्योपनयनं चक्रे व्यासो विद्याविधानवित् ॥ उत्पन्नमात्रं तं वेदाः सरहस्याः ससंग्रहाः । उपतस्थुर्महात्मानं यथास्य पितरन्तथा ॥ यतो दृष्टं शुकीरूपं घृताच्या सम्भवे तदा । शुकेति नाम पुत्त्रस्य चकार मुनिसत्तमाः ! ॥ बृहस्पतिमुपाध्यायं कृत्वा व्याससुतस्तदा । व्रतानि ब्रह्मचर्य्यस्य चकार विधिपूर्व्वकम् ॥ सोऽधीत्य निखिलान् वेदान् सरहस्यान् ससं- ग्रहान् । धर्म्मशास्त्राणि सर्व्वाणि कृत्वा गुरुकुले शुकः ॥ गुरवे दक्षिणां दत्त्वा समावृत्तो मुनिस्तदा । आजगाम पितुः पार्श्वे कृष्णद्वैपायनस्य च ॥” अस्य दारपरिग्रहादिवृत्तान्तस्तु तत्रैव विशे- षतो द्रष्टव्यः ॥ * ॥) स च श्रीकृष्णस्य क्रीडार्थं वृन्दावने उपनन्दस्य कन्या अभूत् । इति पाद्मे पातालखण्डम् ॥ * ॥ रावणमन्त्री । शिरीष- वृक्षः । इति मेदिनी ॥ वृक्षविशेषः । इति रत्न- माला ॥ शेयालका~टा इति भाषा ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुकः [śukḥ], [शुक्-क]

A parrot; आत्मनो मुखदोषेण बध्यन्ते शुकसारिकाः Subhāṣ तुण्डैराताम्रकुटिलैः पक्षैर्हरितकोमलैः । त्रिवर्ण- राजिभिः कण्ठैरेते मञ्जुगिरः शुकाः ॥ Kāv.2.9.

The Śirīṣa tree.

N. of a son of Vyāsa. (He is said to have been born from the seed of Vyāsa. which fell at the sight of the heavenly nymph Ghṛitāchī while roaming over the earth in the form of a female parrot. Śuka was a born philosopher, and by his moral eloquence successfully resisted all the attempts of the nymph Rambhā to win him over to the path of love. He is said to have narrated the Bhāgavata Purāṇa to king Parīkṣit. His name has become proverbial for the most rigid observer of continence.]

कम् Cloth, clothes.

A helmet.

A turban.

The end or hem of a garment.-Comp. -अदनः the pomegranate tree. -कूटः a garland fixed over two pillars. -तरुः, -द्रुमः the Śirīṣa tree.-तुण्डः a particular position of hands. -तुण्डकम् a kind of cinnabar. -देवः N. of Śuka. -नास a. having an aquiline nose.

(सः) N. of the minister of Tārāpīḍa.

a particular ornament on a house.

N. of several plants. -नासिका an aquiline nose. -पुच्छः sulphur.-पुष्पः, -प्रियः the Śirīṣa tree. (-या) the rose-apple.-वल्लभः the pomegranate. -वाहः an epithet of Cupid.-सप्ततिः N. of 7 stories related by a parrot.

"https://sa.wiktionary.org/w/index.php?title=शुकः&oldid=507002" इत्यस्माद् प्रतिप्राप्तम्