शुण्ठी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुण्ठी, स्त्री, (शुण्ठि + वा ङीष् ।) शुष्कार्द्रकम् । शुंट् इति भाषा ॥ तत्पर्य्यायः । महौषधम् २ विश्वम् ३ नागरम् ४ विश्वभेषजम् ५ । इत्य- मरः ॥ शुण्ठिः ६ विश्वा ७ महौषधी ८ । इति तट्टीका ॥ इन्द्रभेषजम् ९ भेषजम् १० । इति शब्दरत्नावली ॥ विश्वौषधम् ११ कटुग्रन्थिः १२ कटुभद्रम् १३ कटूष्णम् १४ सौपर्णम् १५ शृङ्गवेरम् १६ कफारि १७ चान्द्रकम् १८ शोषणम् १९ नागराह्वम् २० । अस्या गुणाः । कटुत्वम् । उष्णत्वम् । स्निग्धत्वम् । कफशोफा- निलशूलबन्धोदराध्मानश्वासश्लीपदनाशित्वञ्च । इति राजनिर्घण्टः ॥ * ॥ अपि च । “शुण्ठी रुच्यामवातघ्नी पाचनी कटका लघुः । स्निग्धोष्णा मधुरा पाके कफवातविबन्धनुत् ॥ वृष्या स्वर्य्या च निःश्वासशूलकासहृदामयान् । हन्ति श्लीपदशोथार्श-आनाहोदरमारुतान् ॥ आग्नेयगुणभूष्ठिं तोयांशं परिशोषयेत् । संगृह्णन्ति मलं तत्तु ग्राहि शुण्ठ्यादयो यथा ॥ विबन्धभेदिनी या तुसा कथं ग्राहिणी भवेत् । शक्तिर्व्विबन्धभेदे स्याद्यतो न मलपातने ॥” इति भावप्रकाशः ॥ अन्यच्च । “शुण्ठी तु कफवातघ्नी सस्नेहा लघुदीपनी । विपाके मधुरा वृष्या हृद्योष्णा कटुरोचनी ॥” इति राजवल्लभः ॥ शुण्ठ्यं, क्ली, शुण्ठी । इति शब्दचन्द्रिका ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुण्ठी स्त्री।

शुण्ठी

समानार्थक:शुण्ठी,महौषध,विश्व,नागर,विश्वभेषज

2।9।38।1।3

कुस्तुम्बुरु च धान्याकमथ शुण्ठी महौषधम्. स्त्रीनपुंसकयोर्विश्वं नागरं विश्वभेषजम्.।

पदार्थ-विभागः : पक्वम्

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुण्ठी f. See. next.

शुण्ठी f. dry ginger Ka1v. VarBr2S. Sus3r. etc.

"https://sa.wiktionary.org/w/index.php?title=शुण्ठी&oldid=337939" इत्यस्माद् प्रतिप्राप्तम्