शुद्ध

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुद्धम्, क्ली, (शुध + क्तः ।) सैन्धवम् । मरिचम् । इति राजनिर्घण्टः ॥ मरिचपर्य्याये मृषं यद्भि- खितं तदशुहम् ॥

शुद्धः, त्रि, (शुध + क्तः ।) केवलम् । (यथा, मनुः । ९ । २७९ । “तडागमेदकं हन्यादप्सु शुद्धवधेन वा । तद्वापि प्रतिसंकुर्य्यात् दाप्यस्तूत्तमसाहसम् ॥”) निर्द्दोषः । (यथा, बृहत्संहितायाम् । ४९ । ४ । “सर्व्वे च शुद्धकाञ्चनविनिर्म्मिताः श्रेयसो वृद्ध्यै ॥”) पवित्रः । इति मेदिनी ॥ (उज्ज्वलः । यथा, रघुः । १ । ४६ । “काप्यभिख्या तयोरासीत् व्रजतोः शुद्ध- वेशयोः ॥”) शुक्लः । इति धरणिः ॥ रागान्तरामिश्रित- रागः । इति संगीतशास्त्रम् ॥ * ॥ शरीरा- शुद्धताकारणं यथा, -- नारद उवाच । “मानवानां द्विजादीनां शरीरस्यापवित्रता । भवेत् केन प्रकारेण कथ्यतां तत् सदाशिव ॥ सर्व्ववेदपुराणादिशास्त्रज्ञानां द्विजन्मनाम् । जितेन्द्रियस्मृतिविदां तनोः कथय पूतताम् ॥ सदाशिव उवाच । यथा देहापवित्रत्वं विप्रादीनां यतो भवेत् । देवर्षे शृणु तत् सर्व्वं नराणामानुपूर्व्विकम् ॥ जातके मृतकेऽस्नाते जलौकोभिः क्षते तथा । अपवित्रो द्विजादीनां देहः सन्ध्यादिकर्म्मसु ॥ अपूततनुरुत्सर्गे नरो मूत्रपुरीषयोः । अस्पृश्यस्पर्शने नैव ब्रह्मयज्ञजपादिषु ॥ रक्तपाते नखशृङ्गदन्तखङ्गादिभिः क्षते । विप्रादेरशुचिः कायः शस्त्रास्त्रैः कण्टकादिभिः ॥ भुक्त्वा हस्ताननोच्छिष्टेऽपवित्रः कृतमैथुने । शयने ब्राह्मणादीनां शरीरं क्षुरकर्म्मणि ॥ ज्वरादिभिश्चतुःषष्टिरोगैर्युक्तद्विजन्मनाम् । वपुरप्रयतं पूजादानहोमजपादिषु ॥ धूमोद्गारे वमौ श्राद्धपतितान्नादिभोजनैः । तथा च रेतःस्खलने मर्त्यदेहापवित्रता ॥ अपवित्रं द्बिजादीनां वपुः स्याद्राहुदर्शने । गर्हितदानग्रहणे पतिते पातकादिभिः ॥ अशौचान्तेन शुद्धिः स्यात् जातके मृतकेऽपि च । सर्व्ववर्णाश्रमादीनां तनोः सन्ध्यादिकर्म्मसु ॥” इति पाद्मे उत्तरखण्डे १९ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुद्ध¦ न॰ शुध--क्त।

१ सैन्धवलवणे

२ मरिचे च राजनि॰।

३ केवले

४ निर्दोषे

५ पवित्रे मेदि॰।

६ शुभ्रे च त्रि॰। शुद्ध्यशुद्धी शास्त्रज्ञाप्ये संस्काररूपे यथोक्तं
“शुद्ध्यशुद्ध्योः संस्काररूपत्वेन एकपुरुषस्यैकदोभयस्थितिर्घटते। शुद्धेर्भावरूपत्वे अशुद्धेस्तदभावरूपत्वे नैतत्विरोधात्। अतएव शङ्खः
“ततः श्राद्धमशुद्धौ तु कुर्य्या-देकादशे तथा। कर्तुस्तात्कालिकी शुद्धिरशुद्धः पुनरेवसः” अशुद्धौ चतुर्थाहादौ। कथमशुद्धौ श्राद्धं? कालाशौ-चयोरधिकारिविशेषणत्वादत आह कर्तुस्तात्कालिकीशुद्धिरिति। श्राद्धविधानाक्षेपात् तन्मात्रनिष्ठा शुद्धिःकल्प्यते
“स पुनरशुद्धः कर्मान्तरे” श्रा॰ वि॰। शुद्धितत्त्वे च
“एवं शुद्धेर्भावरूपत्वे अशौचस्य तदभावरूपत्वे विरोधःतथात्वे अशौचसङ्करोऽपि न स्यात्। एकस्मिन् शुद्ध्य-भावरूपे अशौचे सत्यपरस्य तद्रूपस्य तदानीं तत्पुरुषी-यशुद्धिरूपप्रतियोग्यन्तराभावात् अनुपपत्तेः। तस्मात्शुद्ध्यशुद्ध्योर्भावरूपत्वम्। पद्मपु॰ उत्त॰ ख॰

१९ अ॰ कतिचिदशुद्धा उक्ताः। तद्भिन्न-स्यैव शुद्धता यथा(
“जातके मृतकेऽस्नाते जलौकोभिः क्षते तथा। अप-वित्रो द्विजातीनां देहः सन्ध्यादिकर्मसु। अपूततनु-रुत्सर्गे नरो मूत्रपुरीषयोः। अस्पृश्यस्पर्शने चैव ब्रह्म-यज्ञजपादिषु। रक्तपाते नखशृङ्गदन्तखङ्गादिभिः क्षते। विप्रादेरशुचिः कायः शस्त्रास्त्रैः कण्टकादिभिः। भुक्त्वाहस्ताननोच्छिष्टेऽपवित्रः कृतमैथुने। शयने ब्राह्मणादीनांशरीरं चुरकर्मणि। ज्वरादिभिश्चतुःषष्टिरोगैर्युक्त[Page5128-b+ 38] द्विजन्मनाम्। वघुरप्रयतं पूजादानहोमजपादिषु। धूमोद्गारे वमौ श्राद्धपतितान्नादिभोजनैः। तथा चरेतःस्खलने मर्त्यदेहाऽपवित्रता। अपवित्रं द्विजातीनांवपुः स्याद्राहुदर्शने। गर्हितदानग्रहणे पतिते पात-कादिभिः। अशौचान्तेन शुद्धिः स्यात् जातके मृतके-ऽपि च। सर्ववर्णाश्रमादीनां तनोः सन्ध्यादिकर्मसु”। मृतकादिभिन्ने स्नानापनेयतेति। अशौचशब्दे द्रव्यशुद्धि-शब्दे च दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुद्ध¦ mfn. (-द्धः-द्धा-द्धं)
1. Pure, purified, clean, cleansed.
2. Faultless, correct.
3. Alone, only, mere, simple.
4. White.
5. Whetted, sharp, (as an arrow.)
6. Authorised, admitted.
7. Innocent.
8. Acquitted.
9. Bright.
10. Honest, chaste. n. (-द्धं)
1. Pure spirit.
2. Rock-salt.
3. Black pepper. E. शुध् to be or make pure, &c., aff. क्त |

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुद्ध [śuddha], p. p. [शुध्-क्त]

Pure, clean, purified; अन्तः- शुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः Me.51.

Holy, undefiled, chaste, innocent; अन्वमीयत शुद्धेति शान्तेन वपुषैव सा R. 15.77;14.14.

White, bright.

Stainless, spotless.

Innocent, simple, guileness.

(a) Genuine, true. (b) Honest, upright.

Correct, faultless, upright.

Cleared, acquitted.

Mere only; शुद्धं हि दैवमेवेदं हठेनैवास्ति पौरुषम् Mb.12.177.12.

Simple, pure, unmixed (opp. मिश्र).

Unequalled.

Authorized.

Whetted, sharpened; जघान शुद्धेषुरमन्दकर्षी Bk.2.31.

Not nasal.

Unmitigated (as capital punishment); तडागभेदकं हन्यादप्सु शुद्धवधेन वा Ms.9.279.

Tried, examined.

द्धः An epithet of Śiva.

The bright fortnight.

द्धम् Anything pure.

The pure spirit.

Rock-salt.

Black pepper.

A house built generally of one material; namely wood, brick or stone etc.; द्रुमेणेष्टकया वापि दृशदाद्यैरथापि वा । एतेन सहितं गेहं शुद्धमित्यभिधीयते Kāmikāgama.45.21. -Comp. -अद्वैतम् the अद्वैत philosophy in which there is unity of जीव and ब्रह्म without माया (i. e. शुद्ध). -अन्तः a king's female apartments, harem, seraglio; शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य Ś.1.17; Ku.6.52.

a king's wife. ˚चारिन्m. an attendant in the harem, a chamberlain; U.1. ˚पालकः, ˚रक्षकः a guard of the harem. -अन्ता a king's wife, queen. -अनुमानम् a particular figure of rhetoric.-अपह्नुतिः a figure of speech; it is thus defined: शुद्धापह्नुतिरन्यस्यारोपार्थो धर्मनिह्नवः. -आत्मन् a. pure-minded, honest. (-m.)

the pure spirit.

N. of Śiva. -आभa. consisting of pure light; प्रशान्तमिव शुद्धाभं सत्त्वं तदुप- धारयेत् Ms.12.27. -ओदनः (शुद्धोदनः) N. of the father of the celebrated Buddha. ˚सुतः N. of the celebrated Buddha. -कर्मन् a. pure in deeds, holy. -कोटिः f. one of the sides of a right-angled triangle. -चैतन्यम् pure intelligence. -जङ्घः an ass. -जडः a quadruped.-धी, -भाव, -मति a. pure-minded, guileless, honest.-नेरिः a kind of dance. -पक्षः the light half of a month.-वटुकः (in music) a kind of drummer. -बोध a. (in Vedānta) possessed of pure intelligence. -भाव a. pure-minded. -वधः killing in a simple or ordinary way. -वंश्य a. born of a pure family; संततिः शुद्धवंश्या हि परत्रेह च शर्मणे R.1.69. -विष्कम्भकः (in drama.) a pure interlude (in which only speakers of संस्कृत take part). -शुक्रम् a morbid affection of the pupil of the eye.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुद्ध mfn. cleansed , cleared , clean , pure , clear , free from (with instr. ) , bright , white RV. etc.

शुद्ध mfn. cleared , acquitted , free from error , faultless , blameless , right , correct , accurate , exact , according to rule Ka1v. VarBr2S. Sus3r.

शुद्ध mfn. upright(See. comp. )

शुद्ध mfn. pure i.e. simple , mere , genuine , true , unmixed ( opp. to मिश्र) Mn. MBh. etc.

शुद्ध mfn. pure i.e. unmodified (as a vowel not nasalized) S3a1n3khBr. Pra1t.

शुद्ध mfn. complete , entire Ra1jat.

शुद्ध mfn. unqualified , unmitigated (as capital punishment) Mn. ix , 279

शुद्ध mfn. (in phil. ) veritable , unequalled(= द्वितीय-रहित) MW.

शुद्ध mfn. tried , examined Ka1m.

शुद्ध mfn. authorised , admitted W.

शुद्ध mfn. whetted , sharp (as an arrow) ib.

शुद्ध m. the bright fortnight (in which the moon increases) Inscr.

शुद्ध m. N. of शिवMBh.

शुद्ध m. of one of the seven sages under the 14th मनुBhP.

शुद्ध m. of a son of अनेनस्ib.

शुद्ध m. (with भिक्षु)of an author Cat.

शुद्ध m. of a bird Hariv.

शुद्ध m. ( pl. )of a partic. class of gods MBh.

शुद्ध n. anything pure etc.

शुद्ध n. pure spirit W.

शुद्ध n. rock-salt L.

शुद्ध n. black pepper L.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Anenas, and father of शुचि. भा. IX. १७. ११.
(II)--a son of Bhautya Manu. Br. IV. 1. ११४.
(III)--a son of कौशिक in previous birth, born as चक्रवाह in मानस. M. २०. १८.
(IV)--a pure man is rid of his bondage by satva; from the state of निरञ्जन or separation, looks upon all equally. वा. १०२. ६६, ८०, ११८.
(V)--a sage of the epoch of the fourteenth Manu. भा. VIII. १३. ३४.

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚUDDHA : A King of the Bhṛgu dynasty. Bhāgavata, 9th Skandha mentions that he was the son of Anenas and Sūci's father.


_______________________________
*5th word in right half of page 752 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुद्ध न
किया गया अथवा न तपाया गया (घृत), इससे यूप का अञ्जन (लेपन) किया जाता है, आप.श्रौ.सू. 7.1०.1।

"https://sa.wiktionary.org/w/index.php?title=शुद्ध&oldid=504973" इत्यस्माद् पुनः प्राप्तिः