शूक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूकः, पुं, क्ली, (शो तनूकरणे + “उलूकादयश्च ।” इति ऊकप्रत्ययेन साधुः ।) श्लक्ष्णतीक्ष्णाग्रम् । शु~या इति भाषा । तत्पर्य्यायः । किंशारुः २ । इत्यमरः ॥ शुङ्गा ३ कोशी ४ । इति हेमचन्द्रः ॥ दया । इति मेदिनी ॥ सविषाल्पडुण्डुभादिजल- मलोद्भवजन्तुः । शूकप्रधानलिङ्गवृद्धिकरयोगः । तद्विवरणं यथा । अथ शूकदोषाधिकारः । तत्र शूकदोषस्य निदानमाह । “अक्रमाच्छेफसो वृद्धिं योऽभिवाञ्छति मूढधीः व्याधयस्तस्य जायन्ते दश चाष्टौ च शूकजाः ॥” अक्रमात् अनुचितवृद्धिक्रमात् । अनुचिता च वृद्धिः भूरिविकारजनकस्य शूकस्य योगेन । शूकजाः । शूको जलशूकः सविषो जलजन्तु विशेषः । स तु जलमलोद्भवः । अल्पडुण्डुभ इत्यादिकः । तथा शूकप्रधानो लिङ्गवृद्धिकरो वात्स्यायनाद्युक्तो योगः शूक उच्यते । यथा, “भल्लातकास्थिजलशूकमथाब्जपत्र- मन्तर्विदह्य मतिमान् सह सैन्धवेन । एतद्विरूढबृहतीफलतोयपिष्ट- मालेपितं महिषविड्विमलीकृतेऽङ्गे ॥ स्थूलं महद्वरतुरङ्गमलिङ्गतुल्यं शेफः करोत्यभिमतं न हि संशयोऽस्ति ।” इत्यादि । यत्तु जलशूकरहितमश्वगन्धादितैलं तदुचितमेव लिङ्गवर्द्धनम् । लिङ्गं वासरुजश्चोग्रा ज्ञेयं तत् शोणितार्व्वुदम् ॥” वासरुजः स्फोटकाधिस्थाने वेदना ॥ * ॥ मांसा- र्वुदमाह । “मांसदुष्ट्या विजानीयादर्वुदं मांससम्भवम् ।” मांसपाकमाह । “शीर्य्यन्ते यस्य मांसानि यस्य सर्व्वाश्च वेदनाः विद्यात्तं मांसपाकन्तु सर्व्वदोषकृतं भिषक् ॥” शीर्य्यन्तेगलन्ति । सर्व्ववेदनाः वातपित्तकफजाः विद्रधिमाह । “विद्रधिं सन्निपातेन यथोक्तमभिनिर्दिशेत् । उक्तं सान्निपातिकविद्रधितुल्यं कथयेत् ॥ * ॥ तिलकालकमाह । “कृष्णानि चित्राण्यथवा शूकाणि सविषाणि तु पतितानि पचन्त्याशु मेढ्रं निरवशेषतः ॥ कलानि भूत्वा मांसानि शीर्य्यन्ते यस्य देहिनः । सन्निपातसमुत्थांश्च विद्यात्तां तिलकालकान् ॥” चित्राणि नानावर्णानि । शूकानि शूकव्रणानि । मञ्चाः क्रोशन्तीतिवत् । सविषाणि सविष- शूकाख्यजन्तुविशेषकृतानि । शीर्य्यन्ते गलन्ति कृष्णतिलतुल्यत्वात् तिलकालकाः ॥ * ॥ असाध्य माह । “तत्र मांसार्वुदं यच्च मांसपाकश्च यः स्मृतः । विद्रधिश्च न सिध्यन्ति ये च स्युस्तिलकालकाः ॥” अथ शूकदोषस्य चिकित्सा । “शूकदोषेषु सर्व्वेषु विषघ्नीं कारयेत् क्रियाम् । जलोकाभिर्हरेद्रक्तं रेचयेल्लघु भोजयेत् ॥ गुग्गुलुं पाचयेच्चापि त्रिफलाक्वाथसंयुताम् । क्षीरेण लेपसेकाच्च शीतानेव हि कारयेत् ॥ दार्व्वीसुरसयष्ट्याह्वैर्गृहधूमनिशायुतैः । सम्पक्वं तैलमभ्यङ्गान्मेद्ररोगं विनाशयेत् ॥” सुरसं तुलसी । दार्व्वीतैलम् । “रसाञ्जनं साह्वयमेकमेव प्रलेपमात्रेण नयेत् प्रशान्तिम् । सपूतिपूयव्रणशोथकण्डू- शूलान्वितं सर्व्वमनङ्गरोगम् ॥” साह्वयमित्यनङ्गरोगस्य विशेषणम् । अनङ्ग- रोगस्य नामापि दूरीकरोति । इति शूक- दोपाधिकारः । इति भावप्रकाशः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूक पुं-नपुं।

तीक्ष्णाग्रधान्यम्

समानार्थक:शूक

2।9।23।1।1

शूकोऽस्त्री श्लक्ष्णतीक्ष्णाग्रे शमी शिम्बा त्रिषूत्तरे। ऋद्धमावसितं धान्यं पूतं तु बहुलीकृतम्.।

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूक¦ पु॰ न॰ श्वि--कक् सम्प्र॰। (शुङ्गा)

१ तीक्ष्णाग्रे अमरः।

२ शिखायां

३ दयायां मेदि॰

३ सविषजलमलोद्भवे जन्तुभेदेभावप्र॰ तद्दोषाधिकारेण तज्जातरोगास्तत्र दर्शिता यथा
“अथ शूकदीषाधिकारः। तत्र शूकदोषस्व निदानमाह
“अक्रमाच्छेफसो वृद्धिं योऽमिवाञ्छति मूढधीः। व्याधयस्तस्य जायन्ते दश चाष्टौ च शूकजाः”। अक्रमात् अनुचितवृद्धिक्रमात्। अनुचिता च वृद्धिः भूरिवि-कारजनकस्व योगेन शूकजाः शूकोजलशूकः स-विषो जलजन्तुविशेषः स तु जलमलोद्भवः अल्पडुण्डुभइत्यादिकः। तथा शूकप्रधानो लिङ्गवृद्धिकरे वात्स्या-यनाद्युक्तो रोगः शूक उच्यत”। शूकदोषा दश चाष्टौच भवन्ति। तेष्वादौ सर्षपिकामाह
“गौरसर्षपसंस्थानाशूकदुर्भगहेतुका। पिडका श्लेष्मवाताभ्यां ज्ञेयासर्षपिकातु सा। शूकदुर्भगहेतुका शूकदुष्टयोनिनिमित्ता च। अथाष्टीलिकामाह
“कठिना विषमैर्भुग्नैर्वायुनाष्टीलिका

२ भवेत्”। अष्टीला लौहकारस्य भाण्डविशेषः (निहार)इति लोके। तथा कठिनेत्यष्टीलिका विषमैर्भुग्नैरितिवक्ष्यकाणणूकविशेषणम्। विषमैर्ह्रस्वदीर्घैः। भुग्नैःवक्रैः। ग्रथितमाह
“शूकैर्यत् पूरितं शश्वद्ग्रथितं

२ नाम तद्भवेत्”। यल्लिङ्गं सदा शूकैः पूरितं तद्ग्रथि-तत्वाद्ग्रथितम्। कुम्भिकामाह
“कुम्भिका

४ रक्तपि-त्तात् स्याज्जाम्बवास्थिनिभा सिता” कुम्भिका कुम्भीफल-तुल्यत्वात्। अलजीमाह
“अलजी

५ स्यात्तथा यादृक्-प्रमेहपिडका तथा। सा च रक्ताऽसिता स्फोटाचिताच कथिता बुधैः”। एषा रक्तपित्तनिमित्ता ज्ञेया। मृदितमाह
“मृदितं

६ पीडितं यत्तु संरब्धं वातकोपतः। [Page5131-a+ 38] शूकदोषे जाते पीडितं सद्यत् संरब्धम् सशोथं भवतितल्लिङ्गं मृदितमुच्यते। संमूढपिडकामाह
“पाणिभ्यांभृशसंमूढे समूढण्डिका

७ भवेत्”। शूकदोषे जाते पा-णिभ्यां मृशसंभूढे पिशिते लिङ्गे”। अत्रापि वातको-पत इत्यनुवर्त्तते। अथावमन्थमाह
“दीर्घा वह्व्यश्च पिडका दीर्य्यन्ते मध्यतस्तु याः। सोऽवमन्थः

८ कफासृग्भ्यांवेदना रोमहर्षकृत्”। दीर्घा दीर्घाङ्कराः। पुष्कारका-माह
“पिडका पिडकाव्याप्ता पित्तशोणितसम्भवा। पद्मकर्णिकसंस्थाना

९ ज्ञेया पुष्करिकेति सा”। पिडका-व्याप्ता पार्श्वतः क्षुद्रपिडकाव्याप्ता। अतएव पद्मकर्णिकसं-स्थाना। स्पर्शहानिमाह
“स्पर्शहानिन्तु

१० जनयेच्छोणितंशूकदूषितम्” अत्र स्पर्शासहत्वमेव लक्षणम्। उत्तमा-माह
“मुद्गमाषोपमा रक्ता रक्तपित्तोद्भवा च या। एषो-त्तमाख्या पिडला

११ शृकाजीर्णसमुद्भवा”। शतपोनकमाह
“छिद्रैरणुमुखैर्लिङ्गं चिरं यस्य समंन्ततः। वातशोणि-तजो व्याधिः विज्ञेयः शतपोनकः

१२ ”। शतपोनकश्चालनीतत्तुल्यत्वाच्छतपोनकः। त्वक्पाकमाह
“वातपित्तकृतोज्ञेयस्त्वक्षाको

१३ ज्वरदाहकृत्”। शोणितार्बुदमाह
“कृष्णैःस्फोटैः सरक्ताभिः पिडकाभिर्निपीडितम्। लिङ्गं वास्तु-रुजाश्चोग्रा ज्ञेयं तच्छोणितार्बुदम्

१४ ”। वास्तुरुजः स्फो-टपिडकाधिष्ठानयेदनाः। अथ मांसार्बुदमाह
“मांसदुष्टंविजग्नीयादर्बुदं मांससम्भवम्

१५ । मांसपाकमाह
“शीर्यन्तेयस्य मांसानि यस्य सर्वाश्च वेदनाः। विद्यात्तं मांसपा-कन्तु

१६ सर्वदोषकृतं भिषक्”। शीर्य्यन्ते गलन्ति। सर्वाश्चवेदनाः वातपित्तकफजाः। अथ विद्रधिमाह
“विद्रधिः

१७ सन्निपातेन यथोक्तमभिनिर्दिशेत्”। यथोक्तं सान्निपातिकंविद्रधितुल्यं कथयेत्। तिलकालकानाह
“कृष्णानि चि-त्राण्यथ वा शुक्लानि सविषाणि तु। पतन्ति पातयन्त्याशुमेढ्रं निरवशेषतः। कालानि भूत्वा मांसानि शीर्व्यन्तेयस्य देहिनः। सन्निपातसमुत्थांश्च तान् विद्यात्तिलका-लकान्

१८ ”। चित्राणि नानावर्णानि। शुक्लानि शुक्लव-र्णानि मञ्चाः क्रोशन्तीति वत्। सविषाणि सविष-शूकाख्यजन्तुविशेषकृतत्वात्। शीर्व्यन्ते गलन्ति। कृष्ण-तिलतुल्यत्वात्तिलकालकाः। अथासाध्यमाह
“तत्र मां-सार्बुदं यच्च मांसपाकश्च यः स्मृतः। विद्रधिश्च न सि-ध्यन्ति ये च स्युस्तिलकालकाः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूक¦ mn. (-कः-कं)
1. The awn of barley, &c.
2. A bristle, a spicula.
3. Compassion, clemency, tenderness.
4. Top, point.
5. A kind of poisonous insect. f. (-का) Cowach. E. शो to make sharp or thin, ऊक aff., deriv. irr.; or श्वि-कक्-सम्प्र० |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूकः [śūkḥ] कम् [kam], कम् 1 The awn of barley &c., beard.

A bristle; वृतं च खलु शूकैः Bv.1.24.

Point, tip, sharp end; शालिशूकनिभाभासं प्रासूतेमं तदाञ्जना Rām.7.35.21.

Tenderness, compassion.

A kind of poisonous insect.

The bristle or sharp hair of insects.

Ferment, yeast.

का A Mucuna Pruritus (Mar. कुहिली).

Grief; L. D. B. -Comp. -कीटः, -कीटकः a kind of insect or worm covered with bristles. -धान्यम् any awned grain (as barely). -पिण्डिः, -ण्डी, -शिखा the pointed beared of corn; निविशते यदि शूकशिखा पदे सृजति सा कयतीमिव न व्यथाम् N.4.11. -शिम्बा, -शिम्बिका, -शिम्बी cowach (कपिकञ्छु). Mucuna Pruritus (Mar. कुहिली).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूक mn. ( g. अर्धर्चा-दि; derivation doubtful) the awn of grain R. Sarvad. Ka1tyS3r. Sch.

शूक mn. a bristle , spicule , spike ( esp. the bristle or sharp hair of insects etc. ) W.

शूक mn. the sheath or calyx of a bud L.

शूक mn. pity , compassion (in निः-शूक) L.

शूक m. a species of grain(See. दीर्घ-श्) Sus3r. Bhpr.

शूक m. sorrow , grief. L.

शूक m. = अभि-षवL.

"https://sa.wiktionary.org/w/index.php?title=शूक&oldid=340731" इत्यस्माद् प्रतिप्राप्तम्