शृङ्ग
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शृङ्गम्, क्ली, (शॄहिंसे + “शृणातेर्ह्रस्वश्च ।” उणा० १ । १२५ । इति गन् । धातोर्ह्रस्वत्व~ कित्त्वं नुट् च प्रत्ययस्य ।) पर्व्वतोपरिभागः । तत्प- र्य्यायः । कूटम् २ कूटः ३ शिखरम् ४ । इत्य- मरः ॥ दन्तः ५ प्राग्भारः ६ । इति जटाधरः ॥ शैलाग्रम् ७ । इति त्रिकाण्डशेषः ॥ (यथा, रघुः । १३ । २६ । एतद्गिरेर्माल्यवतः पुरस्ता- दाविर्भवत्यम्बरलेखि शृङ्गम् ॥”) सानुः । इति नानार्थे अमरः ॥ प्रभुत्वम् । चिह्नम् । क्रीडाजलयन्त्रम् । (यथा रघुः १६ । ७० । “वर्णोदकैः काञ्चनशृङ्गमुक्तै- स्तमायताक्ष्यः प्रणयादसिञ्चन् ॥”) विषाणम् । (यथा, रघुः । १६ । १२ । “वन्यैरिदानीं महिषैस्तदम्भः शृङ्गाहतं क्रोशति दीर्घिकाणाम् ॥”) उत्कर्षः । इति मेदिनी ॥ (यथा, रघुः । ९ । ६२ । “शृङ्गं स दृप्तविनयाधिकृतः परेषा मत्युच्छ्रितं न ममृषे न तु दीर्घमायुः ॥” ऊर्द्ध्वम् । (यथा, कुमारे । ७ । ४० । “विमानशृङ्गाण्यवगाहमानः शशंस देवावसरं सुरेभ्यः ॥”) तीक्ष्णम् । पङ्कजम् । इति शब्दरत्नावली ॥ (कोटिः । यथा, कुमारे । २ । ६४ । “अथ सललितयोषिद् भ्रूलताचारुशृङ्गं रतिवलयपदाङ्के चापमासज्य कण्ठे ॥” स्तनम् । यथा, भागवते । ५ । २ । ११ । “किं सम्भृतं रुचिरयोर्द्विज शृङ्गयोस्ते मध्ये कृशो वहसि तत्र दृशिः श्रिता मे ॥” “स्तनावालक्ष्याह । शृङ्गयोः स्तनयोः किं सम्भृतं किं पूर्णमस्ति मनोहरं किञ्चिदस्ति इत्ये तावत् जानामि ।” इति तट्टीकायां स्वामी ॥ * ॥) महिषादिशृङ्गनिर्म्मितवाद्यविशेषः । शिङ्ग इति भाषा । यथा, -- “क्वचिद्वनाशाय मनो दधद्व्रजात् प्रातः समुत्थाय वयस्यवत्सपान् । प्रबोधयन् शृङ्गरवेण चारुणा विनिर्गतो वत्सपुरःसरो हरिः ॥” इति श्रीभागवते १० स्कन्धे १२ अध्यायः ॥ कामोद्रेकः । यथा, साहित्यदर्पणे । ३ । २१० । “शृङ्गं हि मन्मथोद्भेदस्तदागमनहेतुकः । उत्तमप्रकृतिप्रायो रसः शृङ्गार इष्यते ॥” * ॥ गोशृङ्गभङ्गप्रायश्चित्तं यथा । भवदेवभट्टधृतं यमवचनम् । “अस्थिभङ्गं गवां कृत्वा लाङ्गुलच्छेदनं तथा । पाटने कर्णशृङ्गाणां मासार्द्धन्तु यवान् पिबेत् ॥” अङ्गिराः । “शृङ्गभङ्गेऽस्थिभङ्गे च चर्म्मनिर्म्मोचनेऽपि वा । दशरात्रं चरेद्वज्रं सुस्था सा यदि गौर्भवेत् ॥” भवदेवभट्टहरिनाथोपाध्यायधृतं संवर्त्तवचनम् । “शृङ्गभङ्गेऽस्थिभङ्गे च कटिभङ्गे तथैव च । यदि जीवति षण्मासान् प्रायश्चित्तं न विद्यते ॥” अत्र षण्मासोत्तरमरणे तद्दोषशमनाय प्राय- श्चित्तं नास्ति तदभ्यन्तरमरणे वधप्रायश्चित्तं भवति । एवञ्च शृङ्गभङ्गादिनिमित्तकपापे पृथक् प्रायश्चित्तं न कर्त्तव्यम् । वधप्रायश्चित्तेनैव गुरुणा प्रसङ्गात्तदपगमसिद्धेः । षण्मासोत्तरन्तु शृङ्गभङ्गादिनिमित्तकपूर्व्वोक्तमासार्द्धयावकपानं प्राजापत्यं वा कर्त्तव्यम् । इति प्रायश्चित्ततत्त्वम् ॥
शृङ्गः, पुं, (शॄ + गन् । उणा० १ । १२५ ।) कूर्च्च- शीर्षकवृक्षः । इति मेदिनी ॥ मुनिभेदः । इति शब्दरत्नावली ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शृङ्ग नपुं।
पर्वताग्रः
समानार्थक:कूट,शिखर,शृङ्ग
2।3।4।2।3
पाषाणप्रस्तरग्रावोपलाश्मानः शिला दृषत्. कूटोऽस्त्री शिखरं शृङ्गं प्रपातस्त्वतटो भृगुः॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्
शृङ्ग पुं।
जीवकः
समानार्थक:पीतसारक,सर्जक,असन,बन्धूकपुष्प,प्रियक,जीवक,कूर्चशीर्ष,मधुरक,शृङ्ग,ह्रस्वाङ्ग,जीवक
2।4।142।2।3
जीवन्ती जीवनी जीवा जीवनीया मधुस्रवा। कूर्चशीर्षो मधुरकः शृङ्गह्रस्वाङ्गजीवकाः॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः
शृङ्ग नपुं।
पर्वतसमभूभागः
समानार्थक:स्नु,प्रस्थ,सानु,शृङ्ग
3।3।26।1।1
शृङ्गं प्राधान्यसान्वोश्च वराङ्गं मूर्धगुह्ययोः। भगं श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्
शृङ्ग नपुं।
प्राधान्यम्
समानार्थक:शृङ्ग,ककुद,ललाम
3।3।26।1।1
शृङ्गं प्राधान्यसान्वोश्च वराङ्गं मूर्धगुह्ययोः। भगं श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु॥
पदार्थ-विभागः : , शेषः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शृङ्ग¦ न॰ शॄ--गन् पृषो॰ मुम् ह्रस्वश्च।
१ पर्वतोपरिभागेसातौ अमरः।
२ प्रभुत्वे
३ चिह्ने
४ जलक्रीडार्थयन्त्रभेदे(पिचकारी)
५ पश्वादीनां विषाणे (शिङा)
६ उत्कर्षे चमेदि॰।
७ ऊर्ये
८ तीक्ष्णे
९ पद्मे च शब्दर॰
१० महिष-[Page5138-a+ 38] शृङ्गनिर्मितवाद्यभेदे (शिङ्ग)
११ कामोद्रेके सा॰ द॰ शृङ्गा-रशब्दे दृश्यम्।
१२ कूर्चशीर्षकवृक्षे पु॰ मेदि॰
१३ मुनि-भेदे पु॰।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शृङ्ग¦ n. (-ङ्गं)
1. A horn.
2. A mark, a sign.
3. The top of a mountain.
4. The summit of a building.
5. Any point or projection.
6. A horn of the moon.
7. A horn used as a wind-instrument.
8. Sover- eignty, mastership.
9. Dignity, elevation.
10. A fountain, an artificial one or jet d'eau.
11. A lotus.
12. Very sharp.
13. Minutely fine.
14. Excess of love. m. (-ङ्गः)
1. A medicinal root, commonly Jivaka.
2. A Muni so named. f. (-ङ्गी)
1. Gold.
2. A fish, (Silurus Singio, HAM.)
3. A plant (Betula.)
4. Rishabha, a medicinal root, sharped like a bull's horn.
5. Another plant, a kind of Rhus, with an excrescence or gall in the bark, compared to a crab's horn. E. शॄ to injure, Una4di aff. गन्, and the vowel made short.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शृङ्गम् [śṛṅgam], [शॄ-गन् पृषो˚ मुम् ह्रस्वश्च Uṇ.1.123]
A horn; वन्यैरिदानीं महिषैस्तदम्भः शृङ्गाहतं क्रोशति दीर्घिकाणाम् R.16.13; गाहन्तां महिषां निपानसलिलं शृङ्गैर्मुहुस्ताडितम् Ś.2.6.
The top or summit of a mountain; अद्रेः शृङ्गं हरति पवनः किंस्विदित्युन्मुखीभिः Me.14,54.; Ki.5.42; R.13.26.
The top of a building, turret.
Elevation, height; रक्षो- लोकस्य सर्वस्य कः शृङ्गं छेत्तुमिच्छति Rām.3.31.43.
Lordship, sovereignty, supremacy, eminence; शृङ्गं स दृप्तविनयाधिकृतः परेषामत्युच्छ्रितं न ममृषे न तु दीर्धमायुः R.9.62 (where the word means a 'horn' also).
A cusp or horn of the moon.
Any peak, point or projection in general.
A horn (of a buffalo &c.) used for blowing.
A syringe; वर्णोदकैः काञ्चनशृङ्गमुक्तैः R.16.7.
Excess of love, rising of desire.
A mark, sign.
A lotus.
A fountain of water.
Pride, selfrespect; अवाप्य पृथिवीं कृत्स्नां न ते शृङ्गमवर्धत Mb.3.3.1 (com. शृङ्गं प्रभुत्वाभिमानः).
The stick (काण्ड) of an arrow with a horn-like knob; शृङ्गमग्निर्बभूवास्य भल्लः सोमो विशांपते Mb.8.34.18.
A particular military array; Mb.6.
The female breast. -Comp. -अन्तरम् space or interval between the horns (of a cow &c.). -उच्चयः a lofty summit. -कन्दः, -कन्दकः Trapa Bispinosa (Mar. शिंगाडा).
ग्राहिका direct manner.
(in logic) taking singly. -जः an arrow. (-जम्) aloe-wood.-प्रहारिन् a. butting. -प्रियः an epithet of Śiva. -मोहिन्m. the Champaka tree.
वेरम् N. of a town on the Ganges near the modern Mirzāpura; आससाद महाबाहुः शृङ्गवेरपुरं प्रति Rām.2.5.26; U.1.21 (v. l.)
ginger. -वेरकम् ginger.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शृङ्ग n. (perhaps connected with शिरस्, शीर्षन्; ifc. f( आor ई). )the horn of an animal , a horn used for various purposes (as in drinking , for blowing , drawing blood from the skin etc. ) RV. etc.
शृङ्ग n. the tusk of an elephant R. Ka1m.
शृङ्ग n. the top or summit of a mountain , a peak , crag MBh. Ka1v. etc.
शृङ्ग n. the summit of a building , pinnacle , turret ib.
शृङ्ग n. any peak or projection or lofty object , elevation , point , end , extremity AV. Kum. Gi1t.
शृङ्ग n. a cusp or horn of the moon R. Hariv. VarBr2S.
शृङ्ग n. highest point , acme , height or perfection of anything Hariv. 6424
शृङ्ग n. the horn as a symbol of self reliance or strength or haughtiness Ragh.
शृङ्ग n. the rising of desire , excess of love or passion(See. शृङ्गार) Sa1h.
शृङ्ग n. a partic. military array in the form of a horn or crescent MBh. vi , 2413
शृङ्ग n. a syringe , water-engine Ragh. S3is3.
शृङ्ग n. the female breast BhP.
शृङ्ग n. a lotus L.
शृङ्ग n. agallochum L.
शृङ्ग n. a mark , token , sign L.
शृङ्ग n. = शशशृङ्ग, " hare's horn " , anything impossible or extra ordinary Kusum.
शृङ्ग m. a kind of medicinal or poisonous plant L.
शृङ्ग m. N. of a मुनि(of whom , in some parts of India , on occasions of drought , earthen images are said to be made and worshipped for rain) MW.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--a Mt. three hillocks of jewels, gems and gold. M. ११३. ६८-9.
Purana Encyclopedia
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Śṛṅga, Śṛṅgavant, Śṛṅgin : m.: Name of a mountain.
A. Location: To the south of Śṛṅgin and to the north of Śveta lies the Varṣa called Hairaṇvata 6. 9. 5 (according to 6. 7. 35 Hairaṇyaka); beyond Śṛṅga and to its north and up to the coast of the ocean lies the Varṣa called Airāvata (uttareṇa tu śṛṅgasya samudrānte janādhipa/varṣam airāvataṁ nāma tasmāc chṛṅgavataḥ param) 6. 9. 10; 6. 7. 35.
B. Description: Beset with all kinds of minerals (sarvadhātuvinaddha) 6. 7. 3; Śṛṅgavant is one of the six mountains listed by Saṁjaya which are called mountains of precious stones (ṣaḍ ete ratnaparvatāḥ); all of them stretch toward the east and are merged at both ends in the eastern and western oceans (prāgāyatāḥ…avagāḍhā hy ubhayataḥ samudrau pūrvapaścimau) 6. 7. 2; all of them are visited by the Siddhas and Cāraṇas (siddhacāraṇasevitāḥ) 6. 7. 4; the distance between these mountains extends to thousands of yojanas (teṣām antaraviṣkambho yojanāni sahasraśaḥ) 6. 7. 4; (see also the next section).
C. Characteristics:
(1) There are only three peaks on this mountain; one of them is full of jewels, the other is golden and wonderful, and the third is full of all kinds of precious stones and is adorned with palatial mansions (śṛṅgāṇi vai śṛṅgavatas trīṇy eva manujādhipa/ekaṁ maṇimayaṁ tatra tathaikaṁ raukmam adbhutam//sarvaratnamayaṁ caikaṁ bhavanair upaśobhitam) 6. 9. 8-9;
(2) The goddess Śāṇḍilī, who is self-luminous, always lives there (tatra svayaṁprabhā devī nityaṁ vasati śāṇḍilī) 6. 9. 9;
(3) Manes haunt Śṛṅgavant (śṛṅgavāṁs tu mahārāja pitṝṇāṁ pratisaṁcaraḥ) 6. 7. 49.
D. Importance: Finds mention in the Daivata-Ṛṣi-Vaṁśa 13. 151. 26, 2.
_______________________________
*1st word in right half of page p458_mci (+offset) in original book.
previous page p457_mci .......... next page p459_mci
Mahabharata Cultural Index

Vedic Index of Names and Subjects
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Śṛṅga in the Rigveda[१] and later[२] denotes the ‘horn’ of any sort of animal. Hence the ‘barb’ of the arrow is called its horn in the Atharvaveda.[३]
- यन्त्रोपारोपितकोशांशः-कल्पद्रुमः
- यन्त्रोपारोपितकोशांशः-अमरकोशः
- यन्त्रोपारोपितकोशांशः-वाचस्पत्यम्
- यन्त्रोपारोपितकोशांशः-शब्दसागरः
- यन्त्रोपारोपितकोशांशः-Apte
- यन्त्रोपारोपितकोशांशः-Monier-Williams
- यन्त्रोपारोपितकोशांशः-Purana index
- संस्कतशब्दाः
- यन्त्रोपारोपितकोशांशः-Purana Encyclopedia
- यन्त्रोपारोपितकोशांशः-Mahabharata Cultural Index
- यन्त्रोपारोपितकोशांशः-Vedic Index of Names and Subjects