शृङ्गार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शृङ्गारम्, क्ली, (शृङ्गं प्राधान्यं ऋच्छतीति । ऋ + अण् ।) लवङ्गम् । सिन्दूरम् । चूर्णम् । इति मेदिनी ॥ आर्द्रकम् । इति शब्दचन्द्रिका ॥ कालागुरुः । इति राजनिर्घण्टः ॥

शृङ्गारः, पुं, (शृङ्गं कामोद्रे कमृच्छतीति । ऋ गतौ + “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् । यद्वा, शॄ हिंसायाम् + “भृङ्गारशुङ्गारौ ।” उणा० ३ । १३६ । इति आरन्प्रत्ययेन साधुः ।) सुरतः । नाट्यरसः । गजभूषणम् । इति मेदिनी ॥ * ॥ नाट्यरसस्य लक्षणं यथा, -- “पुंसः स्त्रियां स्त्रियाः पुंसि संयोगं प्रति या स्पृहा । स शृङ्गार इति ख्यातो रतिक्रीडादिकारणम् ॥” इत्यमरटीकायां भरतः ॥ अपि च । “शृङ्गं हि मन्मथोद्भेदस्तदागमनहेतुकः । उत्तमप्रकृतिप्रायो रसः शृङ्गार इष्यते ॥ परोढां वर्जयित्वात्र वेश्याञ्चाननुरागिणीम् । आलम्बनं नायिकाः स्युर्दक्षिणाद्याश्च नायकाः ॥ चन्द्रचन्दनरोलम्बरुताद्युद्दीपनं मतम् । भ्रूविक्षेपकटाक्षादिरनुभावः प्रकीर्त्तितः ॥ त्यक्तोग्र्यमरणालस्यजुगुप्साव्यभिचारिणः । स्थायी भावो रतिः श्यामवर्णोऽयं विष्णुदैवतः ॥” स च द्विधा । विप्रलम्भः संभोगश्च । इति साहित्यदर्पणम् ॥ अन्यत् मैथुनशब्दे द्रष्ट- व्यम् ॥ * ॥ शृङ्गारादिभङ्गे नरको यथा, -- “शृङ्गाराहारनिद्राणां यश्च भङ्गं करोति च । स व्रजेत् कालसूत्रञ्च स्वामिनश्च विशेषतः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ४२ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शृङ्गार पुं।

नवरसेष्वेकः

समानार्थक:शृङ्गार,वीर,करुणा,अद्भुत,हास्य,भयानक,बीभत्स,रौद्र

1।7।17।1।1

शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः। बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

शृङ्गार पुं।

शृङ्गाररसः

समानार्थक:शृङ्गार,शुचि,उज्ज्वल

1।7।17।2।3

शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः। बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शृङ्गार¦ पु॰ शृङ्ग कामोद्रेकमृच्छत्यनेन ऋ--अण्।

१ रस-भेदे अमरः।

२ लवङ्गे

३ सिन्दूरे

४ चूर्णे च मेदि॰। शृङ्गं कारणत्वेन ऋच्छति अण्।

५ कालागुरुणि रा-जनि॰

६ आर्द्रके शब्दच॰। शृङ्गं प्राधान्यमृच्छत्यनेनअण्।

७ भूषणे

८ गजभूषणे च। स्वार्थे क। सिन्दूरे
“पुंसः स्त्रियां स्त्रियः पुंसि संयोगं प्रति या स्पृहा। सा शृङ्गार इति ख्याता रतिक्रीडादिकारणम्” इत्युक्ते

९ स्त्रीपुंसयोरन्योन्यसंयोगं प्रतीच्छाभेदे च रसभेदलक्षणा-दिकं सा॰ द॰ उक्तं यथा
“शृङ्गं हि मन्मथोद्भेदस्तदागमनहेतुकः। उत्तसप्रकृति-प्रायो रसः शृङ्गार इष्यते। परोढां वर्जयित्वात्रवेश्याञ्चाननुरागिणीम्। आलम्बनं नायिकाः स्युर्द-क्षिणाद्याश्च नायकाः। चन्द्रचन्दनरोलम्बरुताद्युद्दीपनंमतम्। भूविक्षेपकटाक्षादिरनुभावः प्रकीर्त्तितः। त्थ-क्त्वोग्र्यमरणालस्यजुगुप्सा व्यभिचारिणः। स्थायी भावोरतिः श्यामवर्णोऽयं विष्णुदैवतः”।
“शून्यं वासगृह-मित्यादि”। अत्र उक्तस्वरूपः पतिरुक्तस्वरूपा च बालाआलम्बनविभावौ। शून्यं वासगृहमुद्दीपनविभावः। चुम्बनमनुभावः। लज्जाहासौ व्यभिचारिणौ। एतै॰रभिव्यक्तः सहृदयरतिभावः शृङ्गाररूपतां भजते। तद्भे-दावाह। विप्रलम्भोऽथ सम्भोग इत्येष द्विविधोमतः”। तत्र विप्रलम्भो विप्रलम्भशब्दे उक्तः सम्भोगस्तु
“दर्शनस्पर्शनादीनि निषेवेते विलासिनौ। यत्रानुरक्ता-वन्योन्यं सम्भोगोऽयमुदाहृतः”। आदिशब्दादन्योन्या-धरपानचुम्बनादयः। यथा
“शून्यं वासगृहमित्यादि”।
“संख्यातुमशक्यतया चुम्बापरिरम्भणादिबहुभेदात्। अयमेक एव धीरैः कथितः सम्भोगशृङ्गारः। तत्रस्यादृतुषट्कं चन्द्रादित्यौ तथास्तमयः। जलकेलिवन-विहारप्रायमधुपानयामिनीप्रभृतिः। अनुलेपनभूषाद्यावाच्यं शुचि मेध्यमन्यच्च”। तथा च भरतः
“यत्किञ्चि-ल्लोके शुचि मेध्यमुज्ज्वलं दर्शनीयं वा तत्सर्वं शृङ्गारेणो-पनीयते उपयुज्यते”।{??}
“कथितश्चतुर्विधोऽसा॰वानन्तर्य्यात्तु पूर्बरानादेः”।{??}
“न विना वि प्र-[Page5139-a+ 38] लम्भेण सम्भोगः पुष्टिमश्नुते। कषायिते हि वस्त्रादौभूयान्रागो विवर्द्धते”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शृङ्गार¦ m. (-रः)
1. Love, the passion or sentiment as an object of poeti- cal description or dramatic representation.
2. Copulation, coition.
3. Marks made with red-lead on an elephant's head and trunk by way of ornament.
4. A dress suitable for amorous purposes. n. (-रं)
1. Cloves.
2. Red-lead.
3. Fragrant powder for the dress or person.
4. Ginger.
5. Agallochum. E. शृङ्ग eminence, dignity, ऋ to go to or obtain, and अण् aff.; being the chief of the poetical Rasas; or शॄ to hurt, आरन् Una4di aff., with नुम् and गुक् augments.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शृङ्गारः [śṛṅgārḥ], [शृङ्गं कामोद्रेकमृच्छत्यनेन ऋ-अण्]

The sentiment of love or sexual passion, the erotic sentiment (the first of the eight or nine sentiments in poetical compositions; it is of two kinds: संभोगशृङ्गार and विप्रलम्भशृङ्गार q. q. v. v.); शृङ्गारः सखि मूर्तिमानिव मधौ मुग्धो हरिः क्रीडति Gīt.1; (it is thus defined: पुंसः स्त्रियां स्त्रियाः पुंसि संभोगं प्रति या स्पृहा । स शृङ्गार इति ख्यातः क्रीडारत्यादिकारकः ॥ See S. D.21 also).

Love, passion, sexual love; शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः V.1.1.

A dress suited to amorous interviews, an elegant dress.

Coition, sextual union.

Marks made with redlead on the body of an elephant; वर्षन्तः शममानयन्नुपल- सच्छृङ्गारलेखायुधाः Śi.17.69.

A mark in general.

रम् Cloves.

Red-lead.

Undried ginger.

A fragrant powder for the dress or body.

Agallochum.-Comp. -चेष्टा an amorous or love-gesture; शृङ्गारचेष्टा विविधा बभूवुः R.6.12. -भाषितम् amorous talk. -भूषणम् red lead. -योनिः an epithet of the god of love. -रसः the sentiment of love. -लज्जा shame or modesty caused by love. -विधिः, -वेशः a dress suited to amorous interviews and other purposes. -सहायः an assistant in love-affairs, a confidant of the hero of a play; cf. नर्मसचिव.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शृङ्गार m. (prob. connected with शृङ्गas वृन्दारwith वृन्द)love (as " the horned " or " the strong one " ?) , sexual passion or desire or enjoyment Ka1v. Ra1jat. etc.

शृङ्गार m. (in rhet. )the erotic sentiment (one of the 8 or 10 रसs See. ; it has विष्णुfor its tutelary deity and black for its colour ; accord. to most authorities it is of two kinds , viz. सम्भोग, " mutual enjoyment " , and विप्रलम्भ, " deception , disappointment " , to which by some is added as third अ-योग, " separation ") Bhar. Das3ar. Sa1h. etc.

शृङ्गार m. a dress suitable for amorous purposes , elegant dress , line garments , finery Ka1v. Pan5cat. Katha1s. etc.

शृङ्गार m. the ornaments on an elephant ( esp. red marks on its head and trunk) L. (See. -धारिन्)

शृङ्गार m. any mark MW.

शृङ्गार m. (also with भट्ट)N. of various persons ( esp. of a poet) Ra1jat. Cat.

शृङ्गार n. (only L. )gold

शृङ्गार n. red-lead

शृङ्गार n. fragrant powder for the dress or person

शृङ्गार n. cloves

शृङ्गार n. undried ginger

शृङ्गार n. black aloe-wood

शृङ्गार mfn. handsome , pretty , dainty , fine MBh. R.

"https://sa.wiktionary.org/w/index.php?title=शृङ्गार&oldid=505014" इत्यस्माद् प्रतिप्राप्तम्