शोथ

विकिशब्दकोशः तः
Jump to navigation Jump to search


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोथः, पुं, (शवतीति । शु गतौ + बाहुलकात् थन् । इत्युणादिवृत्तौ उज्ज्वलः । २ । ४ ।) रोगविशेषः । तत्पर्य्यायः । शोफः २ श्वयथुः ३ । इत्यमरः ॥ शोथकः ४ । इति शब्दरत्नावली ॥ अथ शोथाधिकारः । तत्र शोथस्य विप्रकृष्टं निदानमाह । “शुद्ध्यामयाभक्तकृशाबलानां क्षाराम्लतीक्ष्णोष्णगुरूपसेवा । दध्याममृच्छाकविरोधिपिष्ट- गरोपसृष्टान्ननिषेवणञ्च ॥ अर्शांस्यचेष्टा वपुषो ह्यशुद्धि- र्मर्म्मोपघातो विषमा प्रसूतिः । मिथ्योपचारः प्रतिकर्म्मणाञ्च निजस्य हेतुः श्वयथोः प्रदिष्टा ॥” शुद्धिर्वमनविरेकादि । आमयाः पाण्डुरोगा- दयः । अभक्तं अभोजनम् । आमः अपक्वो भुक्तस्य रसः । पिष्टगरोपसृष्टान्नं पिष्टो यो गरः संयोगजं विषं तेन उपसृष्टमन्नम् । वपुषो ह्यशुद्धिः शोधनार्हस्य वपुषोऽशोधनम् । मर्मोप- घातः दोषकृत एव ज्ञेयः । बाह्यहेतुकृतस्तु मर्मोपघातः आगन्तुजशोथहेतुरेव । विषमा प्रसूतिः आमगर्भपतनादिना । प्रतिकर्म्मणां वमनादीनां पञ्चकर्म्मणाम् । मिथ्योपचारः असम्यक्करणम् । श्वयथोः शोथस्य । निजस्य आत्मीयस्य । सन्निकृष्टस्य हेतोर्वातादेः । हेतुः रूक्षोष्णमधुरादि ॥ * ॥ सन्निकृष्टनिदानमाह । “दोषैः पुथक् द्वयैः सर्व्वैरभिघाताद्विषादपि । सर्व्वो हेतुविशेषैस्तु रूपभेदो नवात्मकः ॥” * ॥ संप्राप्तिपूर्व्वकं सामान्यं लक्षणमाह । “रक्तपित्तकफान् वायुर्दुष्टो दुष्टान् वहिःशिराः नीत्वा रुद्धगतिस्तैर्हि कुर्य्यात् त्वङ्मांससंश्रयम् उत्सेधं संहतं शोथं तमाहुर्निचयादतः ॥ सगौरवं स्यादनवस्थितत्वं सोत्सेधमुष्माथ शिराततत्वम् । सलोमहर्षञ्च विवर्णता च सामान्यलिङ्गं श्वयथोः प्रदिष्टम् ॥” उत्सेधः उन्नतत्वं किं विशिष्टमुत्सेधं अतः पूर्व्वोक्तान्निचयात् रक्तपित्तकफवातानां समु- दायात् । संहतं घनम् । तमुत्सेधं शोथमाहु- रित्यन्वयः ॥ * ॥ तस्य शोथस्य किं स्यादित्या- शुष्कमूलकतैलम् । इति शोथाधिकारः । इति भावप्रकाशः ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोथ पुं।

शोथः

समानार्थक:शोफ,श्वयथु,शोथ

2।6।52।2।3

स्त्री क्षुत्क्षुतं क्षवः पुंसि कासस्तु क्षवथुः पुमान्. शोफस्तु श्वयथुः शोथः पादस्फोटो विपादिका॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोथ¦ पु॰ शु--थन्। हस्तपादादेः स्फीतताकारके रोगभेदेतस्य लक्षणादिकं भावप्र॰ उक्तं यथा
“अथ शोथाधिकारः। तत्र शोथस्य विप्रकृष्टं निदान-माह
“शुद्ध्यामयाभक्तकृशाबलानां क्षाराम्लतीक्ष्णीष्णगुरुपसेवनात्। दध्याममृच्छाकविरोधिपिष्टगरोपसूष्टान्न-[Page5143-b+ 38] निषेवणाच्च। अर्शांस्यचेष्टा वपुषोह्यशुद्धिर्मर्माभिधातीविषमा प्रसूतिः। मिथ्योपचारः प्रतिकर्मणाञ्च निजस्यहेतुः श्वयथोः प्रदिष्टः”। शुद्धिर्वमनविकारेकादिः। आमयाः पाण्डुरोगादयः। अभक्तम् अगोजनम्। आमःअपक्वो भुक्तस्य रसः। पिष्टगरोपसृष्टान्नम् पिंष्टो योगरः संयोगजं विषं तेन संसृष्टमन्नम्। वपुषोह्यशुद्धिःशोधनार्हस्य वपुषोऽशोधनम्। मर्मोपधातः दीपकृतएव ज्ञेयः। वाह्यहेतुकृतस्तु मर्मोपघात आगन्तुजशोथहेतुरेव। विषमा प्रसूतिः आमगर्भपतनादिका। प्रति-कर्मणां वमनादिपञ्चकर्मणाम् निय्योपचारः अस-म्यक्करणम्। श्वयथोः शोथस्य निजस्य आत्मीषस्य सन्नि-कृष्टस्य हेतुर्घातात्मकस्योक्तः। अथ शोथव्य संप्राप्तिपूर्वकंसामान्यं लक्षणमाह
“रक्तपित्तकफान् वायुर्दुष्टो दुष्टान्बहिःसिराः। नीत्वा रुद्धमतिस्तैर्हि कुर्य्यात्त्वग्मांससंश्रयम्। उत्सेधं संहतं शोथं तमाहुर्निचयादतः। सगौरवं स्यादनवस्थितत्वं सोत्सेधमुष्माप्य सिरातनु-त्वम्। सलोमहर्षञ्च विवर्णता च सामान्यलिङ्गं श्वयथोःप्रदिष्टम्”। उत्सेधं उन्नतत्वम्। किंविशिष्टमुत्मेध-अतः पूर्वोक्तात् निचयात् रक्तपित्तकफवातानां समु-दायात् संहतम् घनम्। तमुत्सेधं शोथमाहुरित्य-वयः। तस्य शोथस्य किं स्यादित्याकाङ्क्ष याचाह। अनवस्थितत्वं स्यात् अनिषता स्थितिः स्वादित्यर्शःचिकित्साव्यतिरेकेणापि निवृत्तेः। तच्चानवस्थिवत्यंसगौरवं स्याद्गौरवमप्यनवस्थितं स्यात्। अथ च सोत्मेघस्यात्। उन्नतत्वमप्यनवस्थितं स्वादिव्यर्थः। वातिकंशोयमाह
“चरस्तनुत्वक्परुषोऽरुणोऽसिनः प्रलुप्तिडर्षा-र्त्तियुतो निमित्ततः। प्रशाम्यति प्रोन्नमति प्रपीडिगोदिवा वली स्यात्श्वयथुः समोरणात्”। चरः लजारी। प्रनुप्तिः स्पर्शाज्ञता! हर्पोऽत्र (फिनि फिनी) रोमाञ्चोवा। आर्त्तिः पीडा एतद्युतः दिवा बली विकृतिविषमसमप्रायारब्वत्वाद्। चतएबोक्तम्
“स्लेहोष्णवमनाद्यैर्यःप्रशाष्येत स वातिकः। यसाप्यरुपवणः स्याम्नापोनक्तं प्रशाम्यति”। अथ पैधिकमाह
“स्वदुः सगन्धो-ऽसितपीतरागवान् भ्रमज्वरस्वेदटषामदान्वितः। यउष्यते स्पर्शसहोऽक्षिरागमान् स वित्तशोथो भृण्टा-हपाकतान्”। उष्यते सन्तप्यते। भृशदाहभाकवान्भृशं पाकस्तद्युक्तः। श्लैष्मिकमाह
“पुरुः स्थिरः पाण्डुर-रोचकान्वितः प्रसेकनिद्रावमिवह्निमान्द्यकृस्। सकृ{??}-[Page5144-a+ 38] जन्मप्रशमो निपीडितो नचान्नमिड्रात्रिवली कका-त्मकः”। द्वन्द्वजमाह
“निदानाकृतिसंसर्गात् ज्ञेयः शोथोद्विदोषजः”। सान्निपातिकमाह
“सर्वाकृतिः सन्निपाता-च्छाथोव्यामिश्रलक्षणः”। व्यामिश्रलक्षण इत्युक्तेः सर्वा-कृतिरिति उक्तवातजादिशोथसकलसक्षणनियमार्थम्। अथाभिधातजमाह
“अभिघातेन शस्त्रादिच्छेदभेदक्षता-दिमिः। हिषानिलोदध्यनिलैर्मल्लातकपिकच्छजैः। रसै शूकैश्च संस्पर्शाच्छयथुः स्याद्विसर्पवान्। भृशोष्मलोहिताभास प्रायशः पित्तलक्षणः”। छेदः स्नड्गा-दिना भेदः पाषाणादिना। क्षतं शरादिबा नाडीव्र-णादि च। आदिशब्देन लगुडप्रहारादि गृह्यते। भल्लातजैः रसैः कपिकच्छुजैः शूकैः विसर्पवान् प्रसरणशालःपित्तलक्षणः पैत्तिकशोथलक्षणः। अथ विषजमाह
“विषजः सविषप्राणिपरिसर्पणमूत्रणात्। दंष्ट्रादन्तनखाधातादविषप्राणिनामपि। विण्मूत्रशुक्रोपहत-मलवद्वस्तुसङ्करात्। विषवृक्षानिलस्पर्शाद्गरयोगावधून-नात्। मृदुश्चलोऽवलम्बी च शीघ्रो बहुरुजाकरः”। परिसर्पणात् शरीरोपरि सञ्चरणात्। दंष्ट्रा द्विगुणीकृतादन्ताबलिः। (चोह) इति लोके। दन्वाः आस्ये भबाः। अविषप्राणिनामपीत्यनेन दंष्ट्रादन्तबखानां स्वभावादेवसविषत्वं किन्तु सर्षादिविषं मारकं भवति अविषप्रा-णिनां दष्ट्रादिविषं शोथव्यथादिकरं भवतीति वि-शेषः। विण्मुत्रेत्यादि। विडाद्युपहतं मलिनञ्च य-द्वस्तु तथा सङ्करः सन्मार्जनीभिः क्षिप्तो धूल्यादिःतेषां सम्पर्कात्। गरयोगावधूननात् गरः संयोगजंविषं तस्य योगा यस्य तेन वस्तुनाऽवधूननात्। अव-लम्बी लम्बमानः। अयमप्यागन्तुजस्तथापि सामान्यागन्तुजशोथचिकित्सातोऽस्य विशिष्टचिकित्साभिधा-नाय पृथक् पठितः। यत्र स्थिता दोषा यत्र शोथंकुर्वन्ति तदाह
“दोषाः श्वयथुमूर्द्ध्वं हि कुर्वन्त्यामाशयेस्थिताः। पित्ताशयस्था मध्ये तु वर्चःस्थानगतास्त्वधः। कृत्स्नं देहृमनुघ्राप्य कुर्युः सर्वसरं तथा। ऊर्द्धम्उरःप्रभृत्यूर्द्धम्। मध्ये उरःपक्काशयमध्ये। अधःपक्काशयादधः। उपद्रवानाह
“छर्दिश्वासोऽरुचिस्तृष्णाज्यरोऽतीसार एव च। सम्पाक आमटौर्बल्यं शोथएते उवद्रवाः”। तत्र शोथामाध्यत्वमाह
“श्वासः पिपासाछदिश्च दौर्बल्य ज्वर एव च। यस्य चान्ने रुचिर्ज्ञास्तिशाथिनन्तु विवर्जयेत्”। स्वार्थे क। तत्रार्थे शब्दच॰। [Page5144-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोथ¦ m. (-थः) Swelling, intumescence. E. शु to go, (to grow,) Una4di aff. थन्; also with कन् added, शोथक m. (-कः) |

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोथः [śōthḥ], [Uṇ.2.4] Swelling, intumescence. -Comp. -घ्न, -जित् a. removing swellings, discutient. -घ्नः, -घ्नी, -जित् Bœrhavia Procumbens (Mar. तांबडा पुनर्नवा).-जिह्मः hog-weed. -रोगः dropsy. -हृत् a. discutient. (-m.) the marking-nut plant.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोथ m. ( ifc. f( आ). ; fr. शू= श्वि)a swelling , tumour , morbid intumescence , dropsy Sus3r.

"https://sa.wiktionary.org/w/index.php?title=शोथ&oldid=346680" इत्यस्माद् प्रतिप्राप्तम्