शोभा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोभा, स्त्री, शोभन्तेऽनया । (शुभ + करणे घञ् । टाप् ।) दीप्तिः । तत्पर्य्यायः । कान्तिः २ द्युतिः ३ छविः ४ । इत्यमरः ॥ द्युती ५ छवी ६ इति तट्टीका ॥ अभिख्या ७ । इति जटाधरः ॥ शुभा ८ भाः ९ श्रीः १० भासा ११ भा १२ इति शब्दरत्नावलौ ॥ सुषमा १३ छाया १४ विभा १५ दृक्प्रिया १६ भानम् १७ भातिः १८ कमा १९ रमा २० । इति राजनिर्घण्टः ॥ तस्या लक्षणम् । “सा शोभा रूपभोगाद्यैर्यत् स्यादङ्गविभूषणम् । शोभैवकान्तिराख्याता मन्मथाप्यायनोज्ज्वला ॥” इत्युज्ज्वलनीलमणिः ॥ * ॥ गोपीविशेषः । यथा, -- “दृष्टस्त्वं शोभया गोप्या युक्तश्चन्दनकानने । सद्यो मच्छब्दमात्रेण तिरोधानं कृतं त्वया ॥ शोभा देहं परित्यज्य जगाम चन्द्रमण्डलम् । ततस्तस्याः शरीरञ्च स्निग्धं तेजो बभूव ह ॥ संविभज्य त्वया दत्तं हृदयेन विदूयता । रत्नाय किञ्चित् स्वर्णायकिञ्चिन्मणिवराय च ॥ किञ्चित् स्त्रीणां मुखाब्जेभ्यः किञ्चिदब्जाय किञ्चन । किञ्चित् किशलयेभ्यश्च पुष्पेभ्यश्चापि किञ्चन ॥ किञ्चिच्चन्दनपङ्के भ्यस्तोयेभ्यश्चापि किञ्चन । किञ्चित् फलेभ्यः शस्येभ्यः सुपक्के भ्यश्च किञ्चन । किञ्चिन्नूतनवस्त्रेभ्यो दुग्धे भ्यश्चापि किञ्चन ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ९ अध्यायः ॥ * ॥ हरिद्रा । गोरोचना । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोभा स्त्री।

शोभा

समानार्थक:शोभा,कान्ति,द्युति,छवि,अभिख्या,छाया,त्विष्,अर्चिस्

1।3।17।2।2

कलङ्काङ्कौ लाञ्छनं च चिह्नं लक्ष्म च लक्षणम्. सुषमा परमा शोभा शोभा कान्तिर्द्युतिश्छविः॥

 : परमा_शोभा, अलङ्काररचनादिकृतशोभा

पदार्थ-विभागः : , द्रव्यम्, तेजः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोभा¦ स्त्री शुभ--अ।

१ दीप्तौ
“सा शोभा रूपभोगाद्यैर्यत्स्यादङ्गविमूषणम्। शोभैव सान्तिराख्याता मन्मथा-प्यायनोज्ज्वला” उज्ज्वलमण्युक्तार्थे च

३ गोपीभेदे ब्रह्म-वै॰ प्र॰

९ अ॰।

४ हरिद्रायां

५ गोरोचनायां राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोभा¦ f. (-भा)
1. Light, lustre.
2. Beauty, grace, loveliness.
3. Grandeur.
4. Turmeric.
5. The Pigment called “गोरोचना।” E. शुभ्, अ aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोभा [śōbhā], [शुभ्-अ]

Light, lustre, brilliance, radiance.

(a) Splendour, beauty, elegance, grace, loveliness; वपुरभिनवमस्याः पुष्यति स्वां न शोभाम् Ś.1.19; Me.54,61 (v. l.) (b) Natural beauty, grandeur (as of a mountain); अद्रिशोभा R.2.27.

An ornament, graceful expression; शोभैव मन्दरक्षुब्धक्षुभिताम्भोधिवर्णना Śi.2.17.

Turmeric.

A kind of pigment (= गोरोचना q. v.).

Distinguished merit.

Colour, hue.

Wish, desire.-Comp. -अञ्जनः N. of a very useful tree (Mar. शेवगा).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोभा f. ( ifc. f( आ). )splendour , brilliance , lustre , beauty , grace , loveliness( का शोभाwith loc. , " what beauty is there [in that] " i.e. " it has no beauty " ; शोभां न-कृ, " to look bad or ugly " ; ifc. often = " splendid " , " excellent " e.g. शौर्य-शोभा, " splendid heroism " ; कर्म-शोभा, " a masterpiece ") TS. etc.

शोभा f. distinguished merit W.

शोभा f. colour , hue VarBr2S. Mudr.

शोभा f. wish , desire L.

शोभा f. a kind of metre Col.

शोभा f. turmeric L.

शोभा f. the yellow pigment गो-रोचनाL.

"https://sa.wiktionary.org/w/index.php?title=शोभा&oldid=505029" इत्यस्माद् प्रतिप्राप्तम्