श्राद्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्राद्धम्, क्ली, (श्रद्धा प्रयोजनमस्य । श्रद्धा + “चूडा- दिभ्य उपसंख्यानम् ।” ५ । १ । ११० । इत्यस्य वार्त्तिकोक्त्या अण् ।) शास्त्रोक्तविधानेन पितृ- कर्म्म । इत्यमरः ॥ पित्रु द्देश्यकश्रद्धयान्नादि- दानम् । तस्य लक्षणम् । यथा, -- “संस्कृतव्यञ्जनाढ्यञ्च पयोदधिघृतान्वितम् । श्रद्धया दीयते यस्मात् श्राद्धं तेन निगद्यते ॥” इति पुलस्त्यवचनात् श्रद्धया अन्नादेर्दानं श्राद्धं इति वैदिकप्रयोगाधीनयौगिकम् । इति श्राद्ध- तत्त्वम् ॥ अपि च । सम्बोधनपदोपनीतान् पित्रादीन् चतुर्थ्य न्तपदेनोद्दिश्य हविस्त्यागः श्राद्धम् । तत्तु द्वादशविधं यथा । विश्वामित्रः । “नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धं सपिण्डनग् पार्व्वणञ्चेति विज्ञेयं गोष्ठ्यां शुद्ध्यर्थमष्टमम् ॥ कर्म्माङ्गं नवमं प्रोक्तं दैविकं दशमं स्मृतम् । यात्रार्थैकादशं प्रोक्तं पुष्ट्यर्थं द्वादशं स्मृतम् ॥” अथोपवासदिने श्राद्धनिषेधः । पाद्मे पुष्कर- खण्डम् । “एकादश्यां यदा राम श्राद्धं नैमित्तिकं भवेत् । तद्दिने तु परित्यज्य द्वादश्यां श्राद्धमाचरेत् ॥” तत्रैवोत्तरखण्डे । “एकादश्यान्तु प्राप्तायां मातापित्रोर्म्मृतेऽहनि द्वादश्यां तत् प्रदातव्यं नोपवासदिने क्वचित् ॥ गर्हितान्नं न चाश्नन्ति पितरश्च दिवौकसः ॥” स्कान्दे । “एकादशी यदा नित्या श्राद्धं नैमित्तिकं भवेत् उपवासं तदा कुर्य्यात् द्वादश्यां श्राद्धमाचरेत् ॥” ब्रह्मवैवर्त्ते । “ये कुर्व्वन्ति महीपाल श्राद्धं त्वेकादशीदिने । त्रयस्ते नरकं यान्ति दाता भोक्ता परेतकः ॥” इति श्रीहरिभक्तिविलासे १२ विलासः ॥

श्राद्धम्, त्रि, (श्रद्धा अस्त्यस्येति । श्रद्धा + “प्रज्ञा श्रद्धार्च्चावृत्तिभ्यो णः ।” ५ । २ । २०१ । इति णः ।) श्रद्धासमन्वितम् । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्राद्ध नपुं।

श्राद्धकर्मः

समानार्थक:श्राद्ध

2।7।31।1।3

पितृदानं निवापः स्याच्छ्राद्धं तत्कर्म शास्त्रतः। अन्वाहार्यं मासिकेंऽशोऽष्टमोऽह्नः कुतपोऽस्त्रियाम्.।

 : अमावास्याश्राद्धम्

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्राद्ध¦ न॰ श्रद्धा--हेतुत्वेनास्त्यस्य अण्।
“श्रद्धया दीयतेयस्मात् श्राद्धं तेन निगद्यते” इत्युक्ते पित्रादिभ्यः श्रद्धयादेपे

१ द्रव्ये। अस्त्यर्थे अण्।

२ श्रद्धायुक्ते त्रि॰। श्राद्धलक्षणं तत्प्रयोजनञ्च गयाश्राद्धादिपद्धतौ हेमाद्रिश्राद्धकल्पासुसारेणास्माभिः प्रदर्शितं यथा
“सम्बोधनपदोपनीतान् पित्रादीन् चतुर्थ्यन्तपदेनोद्दिश्यपुत्त्रादिभिर्मन्त्रद्वारा श्रद्धयान्नादेर्दानं श्राद्धम्
“अथैतन्मनुःआद्धशब्दं कर्म प्रोवाचेति” श्राद्धविवेकधृतापस्तम्बवच-नेन श्राद्धशब्दस्य कर्मसामान्यवचनतावगमात्
“सस्कृतंव्यञ्जलाढ्यं च पयोदधिघृतान्वितम्। श्रद्धया दीयतेयस्मात् तेन श्राद्धं निगद्यते” इति श्राद्धतत्त्वधृतपुलस्त्य-वचनेन श्रद्धाहेतुकदानरूपकर्मविशेषस्य श्राद्धपदार्थताव-नमाच्च। श्राद्धमिति शब्दो वाचको यस्य तत्कर्मेत्यर्थइति श्राद्धवियेकः। तस्मिंश्च कर्मणि यागादाविन्द्रादीनामिव पित्रादेर्देवतात्वं तदुद्देशेन मन्त्रद्वारा द्रव्यत्यागात्। तथा च यागादौ मन्त्राहूता इन्द्रादयः शक्तिमात्रेण तत्तत्स्थले आविर्भूता यजमानत्यक्तद्रव्यदर्शनेनतृप्यन्तस्तेषाममीष्टफलं यथा साधयन्ति तथा श्राद्धेऽपिमन्त्राहूताः पित्रादयः समागताः पुत्त्रादित्यक्तद्रव्यभोगेनतृप्यन्तो विशिष्टफलप्रदा इत्येव कल्पनीयम्। किन्तु सर्वोहि लोकः सफले कर्मण्येव प्रवर्त्तते नाफले। तत्रयज्ञादौ यथा देवानां फलदातृत्वमेवं श्राद्धदेवानां पित्रा-दोनां फलदातृत्वे सम्भवत्येव श्राद्धस्य सफलत्वं भवेत्त-देव नोपपद्यते। तथा हि इन्द्रादयो हि देवाश्चेतना[Page5150-b+ 38] विशिष्टज्ञानक्रियाशक्तिमन्तो मन्त्रमात्राहूताः शक्तिविशेषेण यज्ञदेशे आविर्भवितुं शक्नुवन्ति आविर्भूय चयज्ञदत्तद्रव्यदर्शनमात्रेण तृप्यन्तो विशिष्टफलदानाय स-मर्थाः। नैवं पित्रादयो भवितुमर्हन्ति। ते हि स्वस्व-कर्मानुमारेण नानायोनिततया अतिविप्रकृष्टदेशस्थिताःविशिष्टशक्तिरहिताश्च कथं मन्त्रमात्राहूताः श्राद्धदेशेआगच्छेयुः। आगता वा कुतो न दृश्येयुः देवाना-मिव तेषामतीन्द्रिय भावात् दर्शनमात्रेण तृप्तेरभा-वाच्च। भोजनेनैव तेषां तृप्तिसम्भवाच्च भोजनमन्तरेणकथं तृप्तेयुः। अतूप्ताश्च कृतो वा फलं दद्युः। पश्वा-दिगता वा कुतो विशिष्टफलप्रदाः स्युः। अपरञ्च इहदत्तस्य चान्नादेरचेतनतया नेतृपुरुषाभावेनान्यत्र गमना-सम्भवः। श्राद्धदत्तद्रव्यस्य यथापूर्वमवस्थानान्न भोक्तृ-देशगमनमित्यनुमीयते। एवमिह दत्तेनान्नेनान्यत्र स्थि-तानां भोगस्तु नैव सम्भवी। पात्रीयब्राह्मणेन श्राद्धा-न्नस्य भोजनान्न पित्रादितृप्तिसम्भवः भोगतृप्त्योः सामा-नाधिकरण्यनियमात्। किञ्च देवयोनिगतानाममृतान्धसांमानुषयोग्येनान्नेन कथं तृप्तिः कथं वा पशुयोनिगतानांतृणाहारयोग्यानां तेन तृप्तिः। तेषां पश्वादिभावमापे-दुषां फलदातृत्वासम्भवस्तु विशिष्टशक्तेरभावात् सर्वानु-भवसिद्धः। एतेन
“यथा गोषु प्रनष्टो वै वत्सो विन्दतिलातरम्। एवं श्राद्धेऽन्नमुद्दिष्टं मन्त्रः प्रापयते पितॄन्। नामगोत्रं पितॄणान्तु प्रापकं हव्यकव्ययोः। नाममन्त्रै-स्तथोद्देशो भवान्तरगतानपि। प्राणिनः प्रीणयन्त्येतेतदाहारत्वमागताः। देवो यदि पिता जातः शुभ-कर्मानुसारतः। श्राद्धान्नममृतं भूत्वा देवत्वेऽप्यनुगच्छति। दैत्यत्वे भोग्यरूपेण पशुत्वे च तृणं भवेत्। श्राद्धान्नंवायुरूपेण नागत्वेऽप्यनुगच्छति। पानं भवति यक्षत्वेगृध्रत्वे च तथामिषम्। दनुजत्वे तथा मांसं प्रेतत्वेरुधिरोदकम्। मानुषत्वेऽन्नपानादि नानाभोगरसंतथेति च” हेमाद्रिश्राद्धकल्पादिधृतमार्कण्डेयवचनैरिहदत्तान्नादेरेव मन्त्रशक्त्या विप्रकृष्टदेशनयनं पितृप्रा-प्तयोनियोग्यामृतादिरूपेण परिणामश्च कल्प्यते इ-त्यपि न विचारचारु अचेतनानामपि मन्त्राणां चेतन-धर्मकल्पनापि तदैव साधीयसी स्यात् यदि दत्तान्नादे-रिह यथापूर्वमवस्थितिर्न स्यात् स्याच्च पूर्वरूपान्यथा-भावः। तथा च एवमादिवचनानां स्तुत्यर्थवादपरतायाअग्रे दर्शयिष्यमाणत्वान्नाधिककल्पना। किञ्च पात्र-[Page5151-a+ 38] ध्रह्मणेन भोगादिना विनष्टस्य वस्तुनः कथं स्थानान्तर-नयनं कथं वा तत्तदाहारतारूपेण परिणामः धर्मिणिसत्येव स्थानान्तरगमनादिसम्भवो न विनष्टस्यातः श्रा-द्धस्य कथं प्रयोजनवत्त्वमित्येवं स्थिते। उच्यते। ब्रा-ह्मणादिसम्प्रदानक्रियाया इव श्राद्धकर्मण एव स्वजन्य-युण्यद्वारा विशिष्टफलजनकता तत्र च कालान्तरभावितत्-तत्फलदानाय तत्कर्मसाक्षिणः परमेश्वरस्यैव तत्साध॰नत्वम्। अतएव भगद्गीतायाम्
“यो यो यां यां तनुंभक्तः श्रद्धयार्चितुमिच्छति। तस्यतस्याचलां श्रद्धांतामेव विदधान्यहम्। स तया श्रद्धया युक्तस्तस्यारा-धनमीहते। लभते च ततः कामान् मयैव विहितान्हि तान्” इति भक्तानां तत्तदिष्टोत्पादनस्य स्वकर्त्तृकत्वंभगवतोक्तम्। युक्तञ्चैतत् श्रुतिस्मृत्योरोश्वरानुज्ञास्वरूप-तया तत्तदर्थानुष्ठानेन तदाज्ञाप्रतिपालने ईश्वरस्य स-म्माननारूपा तृप्तिस्ततश्चाभीष्टलाभः। तथैवोक्तं गीता-याम्
“स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते भरः। खकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु। यतःप्रवृत्तिर्भूतानां येन सर्वमिदं ततम्। खकर्मणा तम-भ्यर्च्य सिद्धिं विन्दति मानवः” इति। स्वकर्मणास्वस्ववर्णाश्रमविहितकर्मानुष्ठानेन, तम् परमेश्वरम्अभ्यर्च्य तदाज्ञाप्रतिपालनेन सम्मान्य तत्सम्मानेनच तत्कृतां सिद्धिम् तत्तदभीष्टसिद्धं लभते इतितदर्थः। अस्मिन् पक्षे च पित्रादीनां श्राद्धान्नादेर्वा नस्थानान्तरंगमनकल्पना। अथ वा देवदत्तादिशब्दस्य यथान केवलं देहमात्रं, न बा जीवमात्रमर्थः किन्तु तत्तद्दे-हाभिसानी जीव एवार्थः। तथा पित्रादिशब्दस्य उत्पा-दकदेहाभिमानी केवलं जीवोऽपि नार्थः किन्तु वसु-रुद्रादित्यदेवाधिष्ठितमादृशजीव एवार्थः,
“वसवः पिनरोज्ञेया रुद्रा ज्ञेयाः पितामहाः। प्रपितामहाश्चादित्याःश्रुतिरेषा सनातनी। प्रेतानुद्दिस्य यत् कर्म क्रियते मा-नुषैरिह। तुष्यन्ति देवतास्तेन न प्रेताः पितरः स्मृताः”। इति श्राद्धकल्पधृतदेवलवचने पित्रादिपदानां पारिभा-षिकत्वोक्तेः। प्रेताः मृताः न पितरः न केवलपितृपदाभिधेयाः किन्तु तदधिष्ठितवसव एव पितृपदा-भिधेयास्त एव तुष्यन्वीत्यर्यः। अतएव श्राद्धकाले पित्रा-दीनां तेन तेन रूपेण ध्येयताऽग्रेहभिधास्यमानोपप-द्यते। एवञ्च वस्वादिदेवानामिन्द्रादिवत् विशिष्टशक्तिज्ञानतम्पन्नतया सन्तमात्रावाहने यागादाविन्द्रादिवदाग-[Page5151-b+ 38] मनसम्भवाच्च त्यक्तद्रव्यदर्शनमात्रेण तृप्तिः,
“न वै देवाअश्नन्ति पिवन्ति एतदेवामृतं दृष्ट्वा तृप्यन्तीति” छान्दो-ग्यवाक्यात्। अतएव भगवद्गीतायाम्
“सह यज्ञाःप्रजाः सृष्टा पुरावाच प्रजापतिः। अनेन प्रसविष्य-ध्वमेष वोऽस्त्विष्टकामधक्। देवान् भावयतानेन तेदेवा भावयन्तु वः। परस्परं भावयन्तः श्रेयः परमवा-पस्यथेति” प्रजाकृतयज्ञेन तृप्तनां देवानां यजमान-फलदातृत्वम् प्रजाः प्रति प्रजापतिवचनत्वेनोक्तम्। अनेन यज्ञेन देवान् भावयत तर्पयत ते च यज्ञत-र्पिता देवाः वः युष्मान् भावयन्तु तर्पयन्त्वित्यर्थः। यज्ञपदञ्च कर्ममात्रोपलक्षणम्। एवञ्च यथा काचित्गर्भिणी सुहृदा दत्तं दोहदं भुञ्जाना स्वयं तृप्यति स्या-श्रयं गर्भञ्च तर्पयन्ती दोहददातारमप्युपकरोति तथावस्वादयोऽपि श्राद्धान्नदर्शनमात्रतृप्ताः स्वाधिष्ठितपित्रा-दिपुरुषान् तर्षयन्तः श्राद्धकर्त्तुरपीष्टदातारो भवन्ति। प्रागुक्तवचनजातेष्वपि मन्त्रशक्त्यान्नादेर्देशान्तरनयनकथ-नस्यापि स्वस्वकर्मानुसारेण पश्वादिभावापन्नपित्रादीनांतदुपभोगयोग्यान्नादितुल्यतृप्तिर्वस्वादिकृता तद्दिर्न भवती-त्येतत्परत्वश्राद्धप्रशसापरत्वयोः कल्पने न वैयर्थ्यम्। यत्र च काश्याविमरणेन पित्रादीनां मुक्तत्वम् तत्र वस्वा-दिमात्रस्यैव तृप्तिर्न विशिष्टस्य, विशेषणस्यासत्त्वे विशेष्य-स्यैव विशिष्टकारित्वात् कुण्डलविशिष्टस्य नरस्य कुण्ड-लापगमेऽपि मनुष्यकर्मकारित्वव्याहतिवत्। तथा चत एव तृप्ता विशिष्टफलं दद्युरिति सिद्धा श्राद्धस्यार्थवत्ता”। श्राद्धभेदाश्च विश्वामित्राद्युक्ताः प्रा॰ वि॰ दर्शिता यथा
“नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धं सपिण्डनम्। षार्वणञ्चेति विज्ञेयं गोष्ठ्यां शुद्ध्यर्थमष्टमम्। कर्माङ्गंनवम प्रोक्तं दैविकं दशमं स्मृतम्। यात्रास्वेकादशंप्रोक्तं पुष्ट्यर्थं द्वादशं स्मृतम्”। एतद्भविष्यपुराणे विवृ-तम्। यथा
“अहन्यहनि यत् श्राद्धं तन्नित्यमभिधी-यते। वैश्वदेवविहोनं तदशक्तावुदकेन तु। एकोद्दिष्टन्तुयत् श्राद्ध तन्नैमित्तिकमुच्यते। तदप्यदैवं कर्त्तव्यमयु-ग्मानाशयेद्द्विजान्। कामाय तु हितं काम्यमभिप्रे-तार्थसिद्धये। पार्वणेन विधानेन तदप्युक्तं खगाधिप!। वृद्धौ यत् क्रियते श्राद्धं वृद्धिश्राद्धं तदुच्यते। सर्वंप्रदक्षिणं कार्य्यं पूर्वाह्णे तूपवीतिना। गन्धोदकतिलै-र्युक्तं कुर्य्यात् पात्रचतुष्टयम्। अर्घ्यार्थं पितृपात्रेषुप्रेतपात्रं प्रसेचयेत्। ये समाना इति द्वाभ्यामेतजूज्ञेयं[Page5152-a+ 38] सपिण्डनम्। नित्येन तुल्यं शेषं स्यादेकोद्दिष्टं स्त्रियाअपि। अमावास्यां यत् क्रियते तत् पार्वणमुदाहृतम्। क्रियते पर्वणि यत्तत् पार्वणमिति च स्थितिः। गोष्ठ्यांयत् क्रियते श्राद्धं गोष्ठोश्राद्धं तदुच्यते। बहूनां विदुषांसम्पत्सुखार्थं पितृतृप्तये। क्रियते शुद्धये यत्तु ब्राह्म-णानान्तु भाजनम्। शुद्ध्यर्थमिति तत् प्रोक्तं वैनतेय!मनीषिमिः। निषेककाले सोमे च सीमन्तोन्नयने तथा। ज्ञेयं पुंसवने चैव श्राद्धं कर्माङ्गमेव च। देवानुद्दिश्य यत्श्राद्धं तद्दैविकमिहोच्यते। हविष्येण विशिष्टेनसप्तभ्यादिषु यत्नतः। गच्छन् देशान्तरं यत्तु श्राद्धंकुर्य्यात्तु सर्पिषा। यात्रार्थसिति तत् प्रोक्तं प्रवेशे चन संशयः। शरीरोपचये श्राद्धमन्नोपचय एव च। पुष्ट्यर्थमेतद्विज्ञेयमौपचारिकमुच्यते”। वृह॰
“नित्य नैमित्तिकं काम्यं वृद्धिश्राद्धं तथैव च। पार्वणञ्चेति मनुना श्राद्धं पञ्चविधं स्मृतम्”। कूर्मपुराणे
“अहन्यहनि नित्यं स्यात् काम्यं नैमित्तिकं पुनः। एकोद्दिष्टता विज्ञेयं वृद्धिश्राद्धञ्च पार्वणम्। एतत्पञ्चविञ्चं श्राद्धं मनुना परिकीर्त्तितम्”। स्वरूपतोद्दादशविधत्वेऽपि पञ्चविधविधानोपाधिभेदात् पञ्चथिधत्वंगोर्ष्ठाश्राद्धादीनां पार्वणकाम्यवृद्धिश्राद्धैरपृथग्विधानात्एतेष्ववान्तर्भाव इत्यभिप्रायः। सपिण्डीकरणस्याप्यं शतःपार्वणविधानादंशतएकोद्दिष्टविधेरुभयात्मकत्वात् न पृ-थक्त्वं नित्यपार्वणात् काम्यस्य देवताभेदात् पृथ-ग्विधानम्। वस्तुतः प्रपञ्चार्थमेव द्वादशविधत्वम्। युगा-द्यादिश्राद्धानामपि सत्त्वात्। यत्तु मत्स्यपुराणे
“नित्यंनैमित्तिकं काम्यं त्रिविधं श्राद्धमुच्यते”। इति तत्रनित्यपदमुक्तार्थमेव नैमित्तिकपदमागन्तुकनिमित्तोत्पन्नत्वेनपार्वणैकोद्दिष्टयोः परिग्रहार्थम्। काम्यपदं दृष्टफलत्वेनतिथिश्राद्धादीनामभ्युदयस्य च ग्रहणार्थमित्यविरोधः। विष्णुना तु नित्यकाम्यरूपतया द्वैविध्यं वक्ष्यते तत्र नित्य-पदमावश्यकतया पार्वणैकोद्दिष्टयोरपि परिग्रहार्थम्। काम्यपदमनावश्यकार्थं सर्वमिदमुपाधिभेदादविरुद्धम्”। श्राद्धे विहिता देशाः प्रा॰ वि॰ दर्शिता यथातत्र विष्णुः
“पुष्करेष्वक्षयं श्राद्धं जपहोमतपांसि च”।
“पुष्करे स्नातमात्रस्तु सर्वपापेभ्यः पूतो भवति” इत्यभि-धाय
“ग्रचमयेषुतीर्थेषु सरिद्वरासु सङ्गमेषु प्रभवेषु पुलि-नेषु निकुञ्जेषु प्रस्रवणेषु उपवनेषु गोमययेनोपलिप्तेषुगृहेषु मनोज्ञेषु च” आहस्य। प्रभवोऽत्र नदीनामुत्-[Page5152-b+ 38] पत्तिदेशः सरिद्वरासु सङ्गमेषु चेति प्रस्तुत्य प्रभवेष्वित्यभि-धानात्। पुलिनं नदीतोयोत्थितप्रदेशः। निकुञ्जोलता-दिवेष्टितप्रदेशः प्रस्रवणं निर्झरः। उपवनं गृहवाटिकामनोज्ञं रमणीयम्। देबलः
“श्राद्धस्य पूजितो देशोगया गङ्गा सरस्वती। कुरुक्षेत्रं प्रयागश्च निमिष पुष्क-राणि च। नदीतटेषु तीर्थेषु शैलेषु पुलिनेषु च। विविक्तेषु च तुष्यन्ति दत्तेनेह पितामहाः”। विविक्तंविजनम्। वृहस्पतिः
“काङ्क्षन्ति पितरः पुत्रान्नरकापात-भीरवः। गयां यास्यति यः कश्चित् सोऽस्मान् सन्तार-थिष्यति। करिष्यति वृषोत्सर्गमिष्टापूर्त्तं तथैव च। प्रालयिष्यति वार्द्धक्ये श्राद्धं दास्यति चान्वहम्। गयायांधर्मपृष्ठे च सरसि ब्रह्मणस्तथा। गयाशीर्षेऽक्षयवटेपितृणां दत्तमक्षयम। धर्मारण्यं धर्मपृष्ठं धेनुकारण्य-मेव च। दृष्ट्वैतानि पितॄंश्चार्च्य वंशान् विंशतिमुद्धरेत्”। गयामुपादाय गयास्थानविशेषोपन्यासोऽधिकफलार्थः। इहश्राद्धदेशत्वेन कथिता नानादेशीयतीर्थविशेषस्वरूपवि-शेषास्तत्तद्देनिवासिभ्योऽवगन्तव्या अत्र पुष्करेष्यक्षयंश्राद्धमित्यादिविष्ण्वादिवाक्यैः सामान्यतस्तीर्थप्राप्तिनिमि-त्तेऽमावास्यादिश्राद्धे च प्राप्ते पुष्करादिदेशाख्यगुणफल-श्राद्धविधिः
“गोदोहेनापः प्रणयेत् पशुकामस्येति” वत् न तुविशिष्टश्राद्धान्तरविधानं विधिगौरवापत्तेः अगत्या तु
“मोमेन यजेतेत्यादौ” तथा। तथा मनुः
“शुचिं देशं वि-विक्तञ्च गोमयेनोपलेपयेत्। दक्षिणाप्लवनञ्चैव प्रयत्ननोप-पादयेत्। अवकाशेषु चोक्षेषु नदीतीरेषु चैव हि। विवि-क्तेषु च तुष्यन्ति द्रत्तेन पितरः सदा”। अशुचिमवि-विक्तमदक्षिणाप्लवनं यत्रतः शुचित्वादिना उपपादयेत्। विविक्तं विजनं चोक्षेषु मनोज्ञेषु विविक्तेषु वनादिषु। यमः
“दक्षिणाप्लवनं स्निग्धं विविक्तं शुभलक्षणम्। शुचिदेशं प्ररीक्ष्याशु गोमयेनोपलेपयेत्। आगारेषु विवि-क्तेषु तीर्थेषु च नदीष च। विविक्तेषु च तुष्यन्ति देशेषुपितरः सदा। पारक्ये भूमिभागे तु पितॄणां निर्वपेत्तुयः। तद्भूमिस्वामिपितृभिः श्राद्धकर्म विहन्यते। त-स्मात् श्राद्धानि देयानि पुण्येष्वायतनेषु च। नदीतीरेषुतीर्थेषु स्वभूमौ तु प्रयत्नतः। उपह्वरनितम्बेषु तथापर्वतसानुषु। गोमयेनोपलिप्तेषु विविक्तेषु गृहेषु च”। स्निग्धं स्तिमितं विविक्तेषु देशेषु स्वभावतो वनादिषु। उपह्वरमत्र पर्वतान्तिकम्”। श्राद्धनिन्दितदेशास्तत्रोक्ता यथा विष्णु
“न मृएच्छविषये[Page5153-a+ 38] श्राद्धं कुर्य्यान्न च गच्छेत्तथा। चातुर्वर्ण्यव्यवस्थानं यस्मिन्देशे न विद्यते। तं म्लेच्छदेशं जानीयादार्य्यावर्त्तमतः-परम्”। वायुपुराणे
“त्रिशङ्कोर्वर्जयेद्देशं सर्वं द्वादशयो-जनम्। उत्तरेण महानद्या दक्षिणेन तु कीकदात्। देशस्त्रैशङ्कवोनाम श्राद्धकर्मणि गर्हितः। पारस्कराःकलिङाश्च सिन्धोरुत्तरमेव च। प्रनष्टाश्रमधर्माश्चदेशावज्योः प्रयत्नतः”। पारस्कारादेशविशेषाः। कीक-टोमगधः। सिन्धुर्नदीविशेषः। व्रह्मपुराणे
“परकाय-गृहे यस्तु स्वान् पितॄस्तर्पयेज्जडः। तद्भूमिस्वाभिन-स्तस्य हरन्ति पितरो बलात्। अग्रभागन्ततस्तेभ्यो दद्या-स्मूल्यञ्च जीवताम्”। गृह इति भूभागमात्रोपलक्षणं
“पारक्ये भूमिसागे च” इति यमवचनात् स्वभूम्यभावेकथं श्राद्धमित्याह अग्रभागमिति श्राद्धीयद्रव्यस्येतितेभ्यस्तद्भूमिस्वामिपितृभ्य उत्सृज्य देयं जीवतां स्वा-मिनां मूल्यं वा देयम। यमः
“अटव्यः पर्वताःपुण्या नद्यस्तीर्थानि यानि{??}। सर्वाण्यस्वामिकान्या-हुन हि तेषु पुरिग्रहः”। स्वाम्यमावे हेतुमाह न हितेखिति। परिग्रहो दानविक्रयणादियथेष्टविनिया-गलट्यणः। तथा
“रूक्षं कृमियुत क्लिन्नं संकीर्णांनिष्ट-गब्धिकम। देशन्त्वनिष्टशब्दञ्च वर्जयेत् श्राद्धकर्मणि”। रूक्षं धूलियुत क्तिञ्च पङ्किलम अनिष्टगन्धम् अस्{??}भि-गन्धम् अनिष्टशब्दं प्रतिकूलशब्दम्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्राद्ध¦ mfn. (-द्धः-द्धा-द्धं) Faithful, believing. n. (-द्धं) A funeral ceremony observed at various fixed periods and for different purposes, con- sisting of offerings with water and fire to the gods and manes, and gifts and food to the relations present and assisting Bra4h- mans; it is especially performed for a present recently deceased, or for three paternal ancestors or for all ancestors collectively, and is supposed necessary to secure the ascent and residence of the souls of the deceased in a world appropriated to the manes, The following distributions of this ceremony are specified: the पार्व्वणं in honour of three ancestors, एकोद्दिष्टं of one, नित्यं regular, नैमित्तिकं occasionally, काम्यं for the attainment of some particular object, आह्निकं daily, वृद्धिः for the obtaining of increase of pros- perity, and सपिण्डनं in which the balls of meat offered to the deceased individually and collectively are blended together. There are many other kinds: those for a person recently decea- sed are one on the day after mourning expires, and twelve others in twelve successive months; one at the end of the third fort- night, one in the sixth month, and one in the twelfth, concluding with a Sapin4dan4a, on the anniversary of the person's death; in general they are all performed in the course of the two or three first days, and the S4hra4dd'ha for the deceased is only annually repeated. There is also a short of S4hra4dd'ha performed daily during the days of mourning, usually ten, on which a funeral cake is presented, increasing one or more each day till ten cakes are offered. E. श्रद्धा faith, अण् or ण aff. of possession or relation, as the abandonment or presentation of meat, &c., through faith of its efficacy, in behalf of the souls of the deceased.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्राद्ध [śrāddha], a. [श्रद्धा हेतुत्वेनास्त्यस्य अण्] Faithful, believing.

द्धम् A funeral rite or ceremony performed in honour of the departed spirits of dead relatives; श्रद्धया दीयते यस्मात्तस्माच्छ्राद्धं निगद्यते; it is of three kinds: नित्य, नैमित्तिक, and काम्य; यः संगतानि कुरुते मोहाच्छ्राद्धेन मानवः Ms.3. 14.

An obsequial oblation, a gift or offering at a Śrāddha; विहाय शोकं धर्मात्मा ददौ श्राद्धमनुत्तमम् Mb.14.62. 1; सर्वं श्रद्धया दत्तं श्राद्धम् Pratimā 5. -Comp. -कर्मन् n.,-क्रिया a funeral ceremony. -कृत् m. the performer of a funeral rite. -दः the offerer of a Śrāddha or funeral oblation. -दिनः, -नम् the aniversary of the death of a relative in whose honour a Śrāddha is performed.

देवः, देवता a deity presiding over funeral rites.

an epithet of Yama.

a Viśvadeva q. v.

a Pitṛi or progenitor. -भुज् a. eating food prepared at a श्राद्ध; श्राद्धभुग्वृषलीतल्पं तदहर्यो$धिगच्छति Ms.3.25. -भुज्, -भोक्तृ m. a deceased ancestor. -मित्रः making friends through a श्राद्ध; cf. श्राद्धम् (1) above; स स्वर्गाच्च्यवते लोकाच्छ्राद्धमित्रो द्विजाधमः Ms.3.14.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्राद्ध mf( ई)n. (fr. श्रद्-धा)faithful , true , loyal , believing HParis3. SaddhP. (See. Pa1n2. 5-2 , 101 )

श्राद्ध mf( ई)n. relating to a श्राद्धceremony Cat.

श्राद्ध n. a ceremony in honour and for the benefit of dead relatives observed with great strictness at various fixed periods and on occasions of rejoicing as well as mourning by the surviving relatives (these ceremonies are performed by the daily offering of water and on stated occasions by the offering of पिण्डs or balls of rice and meal [see पिण्ड] to three paternal and three maternal forefathers i.e. to father , grandfather , and great grandfather ; it should be borne in mind that a श्राद्धis not a funeral ceremony [ अन्त्ये-ष्टि] but a supplement to such a ceremony ; it is an act of reverential homage to a deceased person performed by relatives , and is moreover supposed to supply the dead with strengthening nutriment after the performance of the previous funeral ceremonies has endowed them with ethereal bodies ; indeed until those अन्त्ये-ष्टि, or " funeral rites " have been performed , and until the succeeding first श्राद्धhas been celebrated the deceased relative is a प्रे-तor restless , wandering ghost , and has no real body [only a लिङ्ग-शरीरSee. ] ; it is not until the first श्राद्धhas taken place that he attains a position among the पितृs or Divine Fathers in their blissful abode called पितृ-लोक, and the -S3r श्राद्धis most desirable and efficacious when performed by a son ; for a full description of the श्राद्धceremonies See. RTL. 276 , 304 etc. ) Gr2S3rS. Mn. MBh. etc.

श्राद्ध n. gifts or offerings at a श्राद्धMW.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of शत्रुघ्न, the son of अनाधृष्ठि. M. ४६. २४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚRĀDDHA : The offering given to Pitṛs. According to the Purāṇas Śrāddha is a very important ceremony. Here, “Pitṛs” does not mean “the souls of the dead”. Pitṛs belong to a special class of gods.


_______________________________
*10th word in right half of page 734 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=श्राद्ध&oldid=439081" इत्यस्माद् प्रतिप्राप्तम्