श्रेय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रेयः, [स] क्ली, (इदमनयोरतिशयेन प्रशस्यम् । प्रशस्य + ईयसुन् । “प्रशस्यस्य श्रः ।” ५ । ३ । ६० । इति श्रः ।) धर्म्मम् । मुक्तिः । इत्यमरः ॥ (चतुर्व्वर्ग एव श्रेयः । यथा, मनुः । २ । २२४ । “धर्म्मार्थावुच्यते श्रेयः कामार्थो धर्म्म एव च ॥ अर्थ एवेह वाश्रेयस्त्रिवर्ग इति तु स्थितिः ॥” “धर्म्मार्थकामात्मकः परप्सराविरुद्धस्त्रिवर्ग एव पुरुषार्थतया श्रेय इति विनिश्चयः । एवञ्च बुभुक्षून् प्रत्युपदेशो न मुमुक्षून् । मुमुक्षूणान्तु मोक्ष एव श्रेयः इति षष्ठे वक्ष्यते ।” इति तट्टीकायां कुल्लूकः ॥) शुभम् । इति मेदिनी ॥ (यथा, रघुः । १ । ७९ । “प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः ॥”)

"https://sa.wiktionary.org/w/index.php?title=श्रेय&oldid=172631" इत्यस्माद् प्रतिप्राप्तम्