श्लेष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्लेषः, पुं, (श्लिष + घञ् ।) संयोगः । तत्पर्य्यायः ॥ सन्धिः २ । इत्यमरः ॥ दाहः । आलिङ्गनम् । इति श्लिषधात्वर्थदर्शनात् ॥ * ॥ (यथा आर्य्या- सप्तसत्याम् । ३८८ । “पुलकितकठोरपीवरकुचकलशश्लेषवेदना- भिज्ञः । शम्भोरुपवीतफणी वाञ्छति मानग्रहं देव्याः ॥” * ॥ श्लिष्यतीति । श्लिष + “श्याद्व्यधास्रुसंस्र्विति ।” ३ । १ । १४१ । इति णः ।) शब्दालङ्कारविशेषः । तस्य लक्षणादिर्यथा, -- “वाच्यभेदेन भिन्ना यद्युगपद्भाषणस्पृशः । श्लिष्यन्ति शब्दाः श्लेशोऽसावक्षरादिभिरष्टधा ॥” अर्थभेदेन शब्दभेद इति दर्शने काव्यमार्गे स्वरो न गण्यते इति च न ये वाक्यभेदेन भिन्ना अपि शब्दा यद्युगपदुच्चारणेन श्लिष्यन्ति भिन्न- स्वरूपमपह्नुवते स श्लेषः ॥ * ॥ स च वर्णपद- लिङ्गभाषाप्रकृतिप्रत्ययविभक्तिवचनानां भेदा- दष्टधा । क्रमेणोदाहरणम् । यथा कमलमिव मुखं मनोज्ञमेतत् कचतितरा- मित्यादौ गुणसाम्ये क्रियासाम्ये उभयसाम्ये वा उपमा तथा सकलकलं पुरमेतज्जातं संप्रति च सितांशुविम्बमिवेत्यादौ शब्दमात्रसाम्ये- ऽपि युक्तैव तथा ह्युक्तं रुद्रटेन । स्फुटं अर्थालङ्कारावेतौ उपमासमुच्चयौ किन्तु । आश्रित्य शब्दमात्रं सामान्यमिहापि सम्भवत इति । न च कमलमिव मुख्यमित्यादि साधा- रणधर्म्मप्रयोगशून्य उपमाविषय इति वक्तुं युक्तं पूर्णोपमाया निर्विषयत्वापत्तेः । देवत्वमेव पातालमाशानां त्वं निबन्धनम् । त्वञ्चामरमरुद् भूमिरेको लोकत्रयात्मकः । इत्यादिश्लेषस्य चोपमाद्यलङ्कारविविक्तोऽस्ति विषयः । इति द्वयोर्योगे सङ्कर एव उपपत्तिपर्य्यालोचने तु उपमाया एवायं युक्तो विपयः अन्यथा विष- यापहार एव पूर्णोपमायाः स्यात् । न च अबिन्दुसुन्दरी नित्यं गलल्लावण्यविन्दुकेत्यादौ विरोधप्रतिभोत्पत्तिहेतुः श्लेषः । अपि तु श्लेष- प्रतिभोत्पत्तिहेतुर्विरोधः । न ह्यत्रार्थद्वयप्रति- पादकः शब्दः श्लेषः द्वितीयार्थस्य प्रतिभात- मात्रस्य प्ररोहाभावात् । न च विरोधाभारा इव विरोधः । श्लेषाभास इव श्लेषस्तस्मादेव- मादिषु वाक्येषु श्लेषप्रतिभोत्पत्तिहेतुरलङ्कारा- न्तरमेव साधीयः । तथा च सद्वं शमुक्तामणि- र्नान्यः कविरिव स्वल्पश्लोको देव महान् भवान् “अनुरागवती सन्ध्या दिवसस्तत्पुरःसरः । अहो दैवगतिश्चित्रा न तथापि समागमः ॥ आदाय चापमचलं कृत्वा हीनं गुणं विषम- दृष्टिः । यश्चित्रमच्यु तशरो लक्षमभाङ्क्षीन्नमस्तस्मै ॥” इत्यादावेकदेशविवर्त्तिरूपश्ले षव्यतिरेकसमासो क्तिविरोधत्वमुचितं न तु श्ले षत्वं शब्दश्ले ष इति चोच्यते । अर्थालङ्कारमध्ये च लक्षत इति कोऽयं नयः किन्तु वैचित्र्यमलङ्कारः इतियत्रैव कविप्रतिभासंरम्भगोचरस्तत्रैव विचित्रतेति सैवालङ्कारभूमिः । अर्थमुखमपेक्षित्वमेतेषां शब्दानामिति चेत् अनुप्रासादीनामपि तथैवेति तेऽप्यर्थालङ्काराः किं नोच्यन्ते रसादिव्यञ्जक- स्वरूपवाच्यविशेषव्यपेक्षेत्यनुप्रासादीनामल- ङ्कारताशब्दगुणदोषाणामप्यर्थापेक्षयैव गुणदो- षता । अर्थगुणदोषालङ्काराणां शब्दापेक्षयैव ष्यवस्थितिरिति तेऽपि शब्दगतत्वेनोच्यन्ताम् । विधौ वक्रे मूर्द्धि ख्यितवतीत्यादौ च वर्णादि- श्लेषे एकप्रयत्नोच्चार्य्यत्वेऽर्थश्लेषत्वं शब्दभेदेऽपि प्रसज्यतामित्येवमादि स्वयं विचार्य्यम् । इति काव्यप्रकाशे शब्दालङ्कारनिर्णया नाम ९ उल्लासः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्लेष पुं।

सन्धानम्

समानार्थक:सन्धि,श्लेष

3।2।11।1।4

उत्कर्षोऽतिशये सन्धिः श्लेषे विषय आश्रये। क्षिपायां क्षेपणं गीर्णिर्गिरौ गुरणमुद्यमे॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्लेष¦ पु॰ श्लिष--घञ्।

१ संसर्गे अमरः।

२ दाहे

३ आलिङ्गने

४ शब्दालङ्कारभेदे च अलङ्कारशब्दे

४०

५ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्लेष¦ m. (-षः)
1. Union, junction, the proximity of contact.
2. Associa- tion, society, presence.
3. Embracing, an embrace.
4. Adhering or clinging to, &c.
5. A figure of rhetoric, choice or connection of words so as to admit of a double interpretation, a species of paron- omasia or pun. E. श्लिष् to embrace, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्लेषः [ślēṣḥ], [श्लिष्-घञ्]

An embrace.

Clinging or adhering to.

Union, junction, contact; निरन्तरश्लेषघनाः K. (where it has the next sense also).

Pun, paronomasia, double entendre, susceptibility of a word or sentence to yield two or more interpretations (regarded as a figure of speech and very commonly used by poets; for def. see K. P. Kārikas 84 and 96); आश्लेषि न श्लेषकवेर्भवत्याः श्लोकद्वयार्थः सुधिया मया किम् N.3. 69); see शब्दश्लेष also.

Burning.

Sexual union; ततो गर्भः संभवति श्लेषात् स्त्रीपुंसयोर्नृप Mb.13.111.3.

A grammatical augment. -Comp. -अर्थः a pun, double entendre. -उपमा a comparison containing double meanings; शिशिरांशुप्रतिद्वन्द्वि श्रीम् सुरभिगन्धि च । अम्भोजमिव ते वक्त्रमिति श्लेषोपमा स्मृता ॥ Kāv.2.28. -भित्तिक a. trusting on (lit. having for its basis) a Śleṣa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्लेष m. burning MW.

श्लेष m. adhering or clinging to( loc. ) R.

श्लेष m. connection , junction , union (also applied to sexual union) MBh.

श्लेष m. embracing , an embrace Ka1v. Sa1h.

श्लेष m. (in rhet. )" connection " , " combination " (one of the ten गुणs or merits of composition , consisting either in a pleasing combination of words or of contrasted ideas , or of words having a double meaning) double meaning , equivoque , ambiguity , paranomasia , pun , hidden meaning Va1m. Ka1vya7d. Sa1h. etc.

श्लेष m. a grammatical augment Nya1yas.

"https://sa.wiktionary.org/w/index.php?title=श्लेष&oldid=505083" इत्यस्माद् प्रतिप्राप्तम्