श्वित्र
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्वित्रम्, क्ली, (श्वेतते इति । श्वित शौक्ल्ये + “स्फायितञ्चिवञ्चीति ।” उणा० २ । १३ । इति रक् ।) श्वेतकुष्ठम् । तत्पर्य्यायः । कुष्ठम् २ । वत्यमरः ॥ श्वेतम् ३ श्वेत्रम् । इति तट्टीका ॥ (यथा, भागवते । ७ । १ । १८ । “शपतोरसकृद्विष्णुं यद्ब्रह्म परमव्ययम् । श्विनं न जातं जिहायां नान्धं विविशतुस्तमः ॥”) “काथः सवाकुचीचूर्णं धात्रीखदिरसारयोः । शङ्खेन्दुकुन्दधवलं श्वित्रं संसेवितो हन्ति ॥ ४ ॥ मथितेन पिबेच्चूर्णं काकोदुम्बरवल्गुर्जम् । तैलाक्तं घर्म्मसेवी स्यात्तक्राशी श्वित्रहृद्भवेत् ॥” मथितं निर्जलं विलोडितं दधि । तक्रं चतुर्थांश जलयुक्तं वस्त्रपुतं दधि ॥ ५ ॥ “खदिरस्य पलान्यष्टौ सोमराज्याः पलद्वयम् । त्रिफला पिचुमर्द्दश्च दारुदार्व्यथ पर्पटः ॥ पृथक् फलान् समुद्धृत्य सिंहिकायाः पलद्वयम् जलाढकद्वये साध्यं यावत् पादावशेषितम् ॥ क्वाथ्यमानञ्च मृद्वग्नौ घृतप्रस्थं विपाचयेत् । चतुःपलं सोमराज्याः खदिरस्य पलं तथा ॥ पटोलमूलत्रिफलात्रायमाणा दुरालभा । कषार्द्धं कटुकञ्चापि कार्षिकान् सूक्ष्मपेवितान् ॥ पलद्वयं कौषिकस्य शुद्धस्यात्र प्रदापयेत । सिद्धं सर्पिरिदं श्वित्रं हन्यादम्भ इवानलम् ॥ अष्टादशानां कुष्ठानां परमं वै तथौषधम् । सोमराजीघृतं नाम निर्म्मितं ब्रह्मणा पुरा ॥ लोकानामुपकाराय श्वित्रकुष्ठादिरोगिणाम् ॥” इति सोमराजीघृतम् ॥ ६ ॥ “महौषधं महामेदां निम्बपत्राणि सर्षपाः । मनःशिला च सिन्दूरं पद्मवारिण्यवल्गुजम् ॥ हरिद्रे हरितालञ्च त्रिफला पीतगन्धकान् । एतानि समभागानि विषार्द्धांशानि योजयेत् ॥ सर्पिषश्च पलान्य ष्टौ देवदारुरसं शुभम् । हिगुणं त्रिगुणं क्षीरं गोमूत्रञ्च चतुर्गुणम् ॥ ताम्रपात्रे तु संस्थाप्य शनैर्म्मृद्वग्निना पचेत् । चतुर्भागावशेषन्तु सकल्कमवतारयेत् ॥ अग्नौ क्षिप्तन्तु निःशब्दं जलमुक्तं विचक्षणः । अभ्यङ्गपानयोगात्तदाशु सर्व्वान् गदान् जयेत् अष्टादशानां कुष्ठानां दद्रूणां श्वित्रिणां तथा दुष्टनाडीषु मर्त्यानां स्राविणां कीटिनां तथा । असृक्सावपरीता ये ये च त्यक्तभिषक्क्रियाः सर्व्वग्रहवियुक्तानां शीर्णाङ्गानां विशेषवः ॥ सर्व्वधातुगते कुष्ठे पतितभ्रूशिरोरुहम् । घर्घराव्यक्तघोषाणां तथा सर्व्वाङ्गवातिनाम् ॥ पानेऽभ्यङ्गे तथा नस्ये वस्तिकर्म्मणि नित्यशः । सप्तरात्रप्रयागेण सर्व्वकुष्ठानि नाशयेत् ॥ द्विसप्ताहप्रयोगेण पूर्णचन्द्रनिभाननः । जातकेशनखश्मश्रुर्भाति षोडशवर्षवत् ॥ अनङ्गसहितं साक्षात् सर्व्वामयविनाशनः । एतद्घृतं महाश्रेष्ठं भार्गवेणावतारितम् ॥ मनुष्याणां हितार्थाय सर्व्वव्याधिहरं परम् । महामार्त्तण्डकमिदं घृतं सर्व्वामरार्च्चितम् ॥ ७ ॥ इति भावप्रकाशः ॥ अपि च । “धात्रीखदिरयोः क्वाथं पीत्वा च जम्बुसंयुतम् । शङ्केन्दुधवलश्वित्रं हन्ति तूर्णं न संशयः ॥” इति गारुडे १७५ अध्यायः ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्वित्र नपुं।
श्वेतकुष्ठः
समानार्थक:कुष्ठ,श्वित्र
2।6।54।2।4
व्रणोऽस्त्रियामीर्ममरुः क्लीबे नाडीव्रणः पुमान्. कोठो मण्डलकं कुष्ठश्वित्रे दुर्नामकार्शसी॥
पदार्थ-विभागः : , सामान्यम्, अवस्था
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्वित्र¦ न॰ श्वित--रक्। श्वेतकुष्ठभेदे (धवल) अमरः। तन्निदानादि भावप्र॰ उक्तं यथा
“कुष्ठैकमम्भनं श्चित्रं किलास चारुणं भवेत्। निर्दिष्ट-मपरिसांवि त्रिधातूद्भवसंश्रयम्”। कुष्ठैकसम्भवं कुष्ठेनसह सम्भवो निदानं यस्य तत्। अथ श्वित्रस्य भदमाहकिलासञ्चारुणं भवेत् श्वित्रमेव रक्तमांसाश्रयात्किलास-मरुणञ्च भवेदित्यर्थः। ननु कुष्ठात् श्वित्रस्य को भेद[Page5161-a+ 38] इत्यत आह निर्दिष्टमपरिस्रावीति श्वित्रमपरिस्रावि भ-वति कुष्ठन्तु स्रावि अथ च त्रिधातूद्भवसंश्रयमितिश्वित्रम त्रयोधातवो रक्तवांसमेदांसि सश्रयोऽधिष्ठानंयस्य तत्। कुष्ठन्तु सान्निपातिकं मर्वधातुगतं भवतीतिभदः। दोषभेदेव लक्षणभेदान्याह
“वाताद्रूक्षारुणंपित्तात् ताम्रं कमलपत्रव!। सदाहं रोमविध्वंसिकफात् श्वेतं घनं गुरु सकण्डूकं क्रमाद्रक्तमांसमेदःसुचादिशेत्। वर्णेनेवेदृगुभय कुष्ठं तच्चोत्तरोत्तरम्”। अरु-णमीषल्नोहितम्। कमलपत्त्रवदित्यनेन मध्ये श्वेतमन्तेलाहित बोधयति। घनं पुष्टम्। क्रमाद्रक्तमांसमेदःसुआदिशेत्। तथा च चरकः
“अरुणं रक्तगे वाते ताम्रंपित्ते पलङ्गते। श्वेतं श्लेष्मणि मेदःस्थे श्वित्रं कुष्ठं परं-परम्” इति। उभयं द्विविधमपि श्वित्रं वर्णेन ईदृगेव। अरुणं ताम्रं श्वेतञ्च दोषभेदात्। द्विविधं दोषजं व्रणजंच। तथा च भोजः
“श्वित्रं तु द्विविधं विद्याद्दोषजंव्रणजं तथा” इति। श्वित्रं साध्यमसाध्यञ्चाह
“अशुक्ल-रोमाबहलमसृग्युक्तमथो नबम्। अनग्निदग्धजं साध्यंश्वित्रं वर्ज्यमतोऽन्यथा”। अब्रहलं तनु। अन्यच्च
“गुह्यपाणितलाष्ठेषु जातमप्यचिरन्तनम्। वर्ज्जनीयंविशेषेण किलासं सिद्धिमिच्छता”। गुह्यं मेहनम् भगञ्चतलमत्र पदतलं सुश्रुतेनान्ते जातमिति सामान्यतोनिर्दिष्टत्वात्। अप्यचिरन्तनम् नवमपि”।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्वित्र¦ n. (-त्रं) Whiteness of the skin, vitiligo. E. श्वित् to be white, Una4di aff. रक् |
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्वित्रम् [śvitram], [श्वित्-रक् Uṇ.2.13]
White leprosy.
A leprous spot (on the skin); तदल्पमपि नोपेक्ष्यं काव्ये दुष्टं कथंचन । स्याद्वपुः सुन्दरमपि श्वित्रेणैकेन दुर्भगम् Kāv.1.7.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्वित्र mfn. whitish , white AV. TS.
श्वित्र mfn. having white leprosy Pan5cavBr.
श्वित्र m. a partic. -whwhite domestic animal or any -whwhite -ananimal VS.
श्वित्र m. n. morbid whiteness of the skin , white leprosy , vitiligo Sus3r. BhP.
श्वित्र m. = अन्तरिक्षSa1y. on RV. v , 19 , 3
Vedic Index of Names and Subjects
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
1. Śvitra (‘white’) is the name of a species of serpent in the Atharvaveda[१] and the later Saṃhitās.[२]
2. Śvitra is found as an adjective in the Pañcaviṃśa Brāhmaṇa (xii. 11, 11) in the sense of ‘afflicted with white leprosy.’
==Foot Notes==
- ↑ iii. 27, 6 (where there is a variant citra);
x. 4, 5, 13. - ↑ Taittirīya Saṃhitā, v. 5, 10, 2;
Maitrāyaṇī Saṃhitā, ii. 13, 21, has in the parallel passage citra, probably by error.
Cf. Zimmer, Altindisches Leben, 95;
Whitney, Translation of the Atharvaveda, 134. Perhaps Śvitra, in the lis of victims at the Aśvamedha (‘horse sacrifice’) in the Vājasaneyi Saṃhitā, xxiv. 39, has this sense;
but the St. Petersburg Dictionary explains it as ‘a certain domestic animal,’ or, generally ‘a white animal.’