षट्कूटा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्कूटा, स्त्री, भैरवीविशेषः । यथा, -- अथ षट्कूटा भैरवी । “डाकिनी राकिनी बीजे लाकिनी काकिनी- युगम् । साकिनो हाकिनी बीजे आहृत्य सुरसुन्दरि ॥ आद्यमैकारसंयुक्तमन्यदीकारमण्डितम् । शक्रस्वरान्वितं देवि तार्त्तीयं बीजमालिखेत् । बिन्दुनादकलाक्रान्तं त्रितयं शैलसम्भवे ॥” तृतीयबीजं सविसर्गं इत्यपि केचित् । तन्त्रा- न्तरे । “ऊरौ क्ष्मामादनं जीवं शिवमत्र त्रिधा लिखेत् अर्केण मायाशक्राभ्यां क्रमात्तं मण्डितं कुरु ॥ बिन्दुनादान्वितं चाद्यद्वयमन्त्यं विसर्गवत् । ध्यानमस्याः प्रवक्ष्यामि सर्व्वभूतनिकृन्तनम् ॥ बालसूर्य्यप्रभां देवीं जवाकुसुमसन्निभाम् । मुण्डमालावलीरम्यां बालसूर्य्यसमांशुकाम् ॥ सुवर्णकलसाकारपीनोन्नतपयोधराम् । पाशाङ्कुशौ पुस्तकञ्च तथा च जपमालिकाम् ॥” दधतीमिति शेषः । “द्विरावृत्त्या षडङ्गानि विधाय परमेश्वरि । यन्त्रमस्या वरारोहे त्रिकोणं तत्पुटं लिखेत् ॥ वहिरष्टदलं पद्मं रविपत्रं ततो लिखेत् । चतुरस्रं चतुर्द्द्वारमेवं मण्डलमालिखेत् ॥ षडङ्गावरणं देवि ! पूजयेत् पूर्व्ववच्छिवे । रत्यादि त्रितयं देवि त्रिकोणे परिपूजयेत् ॥ डाकिन्याद्याश्च षट्कोणे वसुपत्रे ततः परम् । ब्राह्म्यादि युगलं पश्चाद्रविपत्रे ततः परम् ॥ बालायाः पीठशक्तीस्तु वामाद्याः पूजयेत् क्रमात् । चतुरस्रे लोकपालान् सायुधान् परमेश्वरि । अनेनैव विधानेन नित्याख्यां भेरवीं यजेत् ॥” इति तन्त्रसारः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्कूटा¦ स्त्री भैरवीमेदे तन्त्रसा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्कूटा/ षट्--कूटा f. a form of भैरवीCat.

"https://sa.wiktionary.org/w/index.php?title=षट्कूटा&oldid=360556" इत्यस्माद् प्रतिप्राप्तम्