षडाननः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षडाननः, पुं, (कृत्तिकादीनां षण्णां स्तनपानार्थे षट् आननानि यस्य ।) कार्त्तिकेयः । इत्यमरः ॥ (यथा, महाभारते । ३ । २३१ । २० । “स्तोष्यामि देवैरृषिभिश्च जुष्टं भक्त्या गुहं नामभिरप्रमेयम् । षडाननं शक्तिधरं सुवीरं निबोध चैतानि कुरुप्रवीर ! ॥”) तस्य कार्त्तिकेयनामकारणं यथा, -- “अग्निपुत्त्रः कुमारस्तु शरस्तम्बे व्यजायत । तस्य साखो विशाखश्च नैगमेयश्च पृष्ठजः ॥ अपत्यं कृत्तिकानाञ्च कार्त्तिकेयस्ततः स्मृतः ॥” इति मात्स्ये ५ अध्यायः ॥ (षट्सु वदनेषु, क्ली । यथा, रघः । १४ । २२ । “सर्व्वासु मातृष्वपि वत्सलत्वात् स निर्व्विशेषप्रतिपत्तिरासीत् । षडाननापीतपयोधरासु नेता चमूनामिव कृत्तिकासु ॥”)

"https://sa.wiktionary.org/w/index.php?title=षडाननः&oldid=173028" इत्यस्माद् प्रतिप्राप्तम्