षड्भुजा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्भुजा, स्त्री, (षट् भुजा इव रेखा यस्याम् ।) फललताविशेषः । खरवुजा इति भाषा । (अस्मि- न्नर्थे क्लीवलिङ्गेऽपि दृश्यते ॥) तत्पर्य्यायः । मधु फला २ षड्रेखा ३ वृत्तकर्कटी ४ तिक्ता ५ तिक्तफला ६ मधुपाका ७ वृत्तेर्व्वारुः ८ षण्मुखा ९ । अस्याः फलगुणाः । “तिक्तं बाल्ये तदनु मधुरं किञ्चिदम्लञ्च पाके निष्पक्वञ्चेत् तदमृतसमं तर्पणं पुष्टिदायि । वृष्यं दाहश्रमविशमनं मूत्रशुद्धं विधत्ते पित्तोन्मादापहरकफदं षड्भुजं वीर्य्यकारि ॥” इति राजनिर्घण्टः ॥ * ॥ चण्डिका । यथा । पूर्व्वदले चण्डिकां पीन- वक्षःस्थलरुहां अग्निप्रभां षड्भुजां दक्षिणे गदाभयवज्रधरां वामे शक्तिशूलपरशुधरां देवी- मिती ॥ * ॥ रुद्रचण्डा । यथा । दक्षिणदले रुद्र- चण्डां कृष्णवर्णां दिव्याभरणभूषितां प्रसन्नवदनां षड्भुजा दक्षिणे वज्रशूलपरशुधरां वामे पाशा- ङ्कुशकेशधरां देवीमिति ॥ * ॥ चण्डवती । यथा । वायुदले चण्डवतीं धूम्रवर्णां प्रसन्नवदनां सर्व्वा- लङ्कारभूषितां षड्भुजां दक्षिणे अङ्कुशपाशाक्ष- सूत्रधरां वामे दण्डशूलडमरुधरां देवीमिति ॥ इति बृहन्नन्दिकेश्वरपुराणोक्तदुर्गापूजापद्धतिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्भुजा¦ स्त्री षट् भुजा इव यस्याः। (खरमुज) फललता-भेदे राजनि॰।

२ षढस्तयुक्ते त्रि॰।

३ रौद्रे ज्वरे पु॰
“श्रीमांस्त्रिपादस्त्रिशिराः षड्भुजो नवलोचनः” ब्रह्मवै॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्भुजा/ षड्--भुजा f. N. of दुर्गाL.

"https://sa.wiktionary.org/w/index.php?title=षड्भुजा&oldid=361870" इत्यस्माद् प्रतिप्राप्तम्