षण्णाडीचक्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षण्णाडीचक्रम्, क्ली, (षड्विधं नाडीचक्रम् ।) नराणां जन्मादिषण्णक्षत्रघटितचक्रविशेषः । यथा, -- “जन्माद्यं कर्म्म ततोऽपि दशमं सांहातिकं षोडषभम् । समुदायमष्टादशभं विनाशसंज्ञं त्रयोविंशम् ॥ आद्यात्तु पञ्चविंशं मानसमेवं नरः षडृक्षः स्यात् ॥” * ॥ तेषां फलम् । “इहादेहार्थहानिः स्याज्जन्मर्क्ष उपतापिते । कर्म्मर्क्षे कर्म्मणां हानिः पीडा मनसि मानसे ॥ मूर्त्तिद्रविणबन्धूनां हानिः सांहातिके तथा ॥ सन्तप्ते सामुदयिके मित्रभृत्यार्थसङ्क्षयः । वैनासिके विनाशः स्याद्देहद्रविणसम्पदाम् ॥” इति ज्योतिस्तत्त्वम् ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षण्णाडीचक्र/ षण्--णाडीचक्र n. (in astrol. ) a partic. circular diagram L.

"https://sa.wiktionary.org/w/index.php?title=षण्णाडीचक्र&oldid=362274" इत्यस्माद् प्रतिप्राप्तम्