षोडशर्त्विक्क्रतुः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षोडशर्त्विक्क्रतुः, पुं, (षोडश ऋत्विजो यत्र । तादृशः क्रतुः ।) षोडशपुरोहितसाध्ययाग- विशेषः । स तु ज्योतिष्टोमयागः । द्वादशाह- साध्यसत्रयागश्च । यथा । ज्योतिष्टोमे द्वादश- शतगोदक्षिणाविभागः षोडशर्त्विजां तद्विकृती- भूते सत्रात्मके द्वादशाहसाध्ये शतेनार्द्धिनो दीक्षयन्तीत्यादिदर्शनेन निर्णीयते । तत्र विभारं मनुरप्याह । “सर्व्वेषामर्द्धिनो मुख्यास्तदर्द्धेनार्द्धिनोऽपरे । तृतीयिनस्तृतीयांशाश्चतुर्थाश्चैकपादिनः ॥” दक्षिणा गोशतविभागाय श्रौतकात्यायनोऽपि । अथ द्वादश द्वादश आद्येभ्यः षट् षट् द्वितीयेभ्य- श्चतस्रश्चतस्रस्तृतीयेभ्यस्तिस्रस्तिस्र इतरेभ्यः । इत्यत्र षोडशर्त्विजां चतुरश्चतुरः कृत्वा चत्वारो वर्गाः । इति मलमासतत्त्वम् ॥ * ॥ एषां ऋत्विजां नामानि यथा ब्रह्मा १ ब्राह्म- णाच्छंसी २ आग्निध्रः ३ पोता ४ । एते सार्व्व- वेदीयाः । होता ५ मैत्रावरुणः ६ अच्छावाक् ७ ग्रावस्तोता ८ । एते ऋग्वेदिनः । अधर्य्युः ९ प्रतिप्रस्थाता १० नेष्टा ११ उन्वेता १२ । एते याजुषाः । उद्गाता १३ प्रस्तोता १४ प्रतिहर्त्ता १५ सुब्रह्मण्यः १६ । एते सामगाः । इति महा- भारते मोक्षधर्म्मे १०५ अध्याये नीलकण्ठटीका

"https://sa.wiktionary.org/w/index.php?title=षोडशर्त्विक्क्रतुः&oldid=173165" इत्यस्माद् प्रतिप्राप्तम्