संलापः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संलापः, पुं, (सं + लप + घञ् ।) परस्परभाष- णम् । इत्यमरः ॥ अन्योन्यं प्रीतिभाषणं संलापः । उक्तिप्रत्युक्तिभावेन विरोधरहित मन्योन्यभाषणं संलापः । इति परेऽपि । रहसि भाषणं संलापः । इति कौमुदी । मिथोऽन्योन्य रहस्यपि । इति वक्ष्यति । समन्ताल्लपनं संलाप प्रियादिकथा घञ् । यस्त्वालापः स तु केनापि क्रियते । इदन्तु परस्परभाषणमेवेति भेदः । इति भरतः ॥ “उक्तिप्रत्युक्तिमद्वाक्यं संलाप इति कीर्त्त्यते ।” इत्युज्ज्वलनीलमणिः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संलापः [saṃlāpḥ], 1 Conversation, chat, discourse.

Especially familiar or confidential talk, secret conversation.

(In dramas) A kind of dialogue; संलापः स्याद्गभीरो- क्तिर्नानाभावसमाश्रया S. D.6.131.

"https://sa.wiktionary.org/w/index.php?title=संलापः&oldid=375954" इत्यस्माद् प्रतिप्राप्तम्