संसर्ग
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संसर्गः, पुं, (सं + सृज् + घञ् ।) सम्बन्धः । स च समवायादिः । इति न्यायशास्त्रम् ॥ * ॥ पापिष्ठान्त्यजादिसंसर्गप्रायश्चित्तम् । यथा, -- “स्तेयादिना पतिता इत्युपक्रम्य उक्तम् । अत्रा- ज्ञानतो वत्सरेण पातित्यम् । “संवत्सरेण पतति पतितेन सहाचरन् । याजनाध्यापनाद्नादकशय्यासनाशनात् ॥” इति हारीतवचनात् । ज्ञानतो वत्सरार्द्धेनेति । तदसंस्रष्टुस्तद्दोषाभाव एव । “बान्धवोऽपि पृथग्भृत्वा तत् पापं नाप्नुयात् क्वचित् ।” इति देवलवचनात् ॥ * ॥ “यस्तस्य भुङ्क्ते पक्वान्नं कृच्छ्रार्द्धं तस्य निर्दिशेत् । महापातकिनस्त्वेते यश्च तैः सह संवसेत् ॥ संवत्सरन्तु पतितैः संसर्गं कुरुते तु यः । यानशय्यासतैर्नित्यं जानन् स पतितो भवेत् ॥” ननु द्वितीयतृतीयसंर्गिणि प्रमाणं नास्ति अतएव वृद्धशातातपः । “अशुचिं संस्पृशेद्यस्तु एक एव स दुष्यति । तत्स्पृष्ट्यन्यो न दुष्येत सर्व्वद्रव्येष्वयं विधिः ॥” तथा । “संहतानान्तु पात्राणां यद्येकमुपहन्यते । तस्य तत् शोधनं प्रोक्तं न तु तत्स्पृष्टिनामपि ॥” उच्यते । यश्च येन पापात्मनेति यो येन संपिबे- दिर्ति संसर्गी येन संसर्गमिति विष्णुव्यास- जावालवचनैः सामान्येन पापिष्ठसंसर्गी पापी भवति इति प्रतिपादनात् संसर्गपापिष्ठस्यापि संसर्गी पापयुक्तो भवतीति एभिरेव प्रति- पादितम् ॥ * ॥ पतितोत्पन्नानां शुद्धिमिच्छतां पतितानां प्रायश्चित्तस्य तृतीयो भागस्तत्प्राय- श्चित्ते ज्ञेयम् । स्त्री च पतितोत्पन्ना तृतीय- भागस्य तृतीयभागं कुर्य्यात् । इति प्रायश्चित्त- विवेकः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संसर्ग¦ पु॰ सम् + सृज--घञ्।
१ सम्बब्धे विभागानन्तरं
“यत्तवधनं तन्मनेति” कृतसमयेन एकत्राबस्थानरूपे
२ धनसम्बन्धेच पापिष्ठसंसर्गस्य पापभदे कालभेदेन पातित्यादिजन-कत्वं प्र॰ वि॰ दर्शितं यथा(
“तत्र पातकिस अगस्य पापहेतुत्वमाह मनुः
“ब्रत-हत्या सुरापानं स्तेयं गुर्वङ्गनागमः। महान्ति पातका-न्याहुः संसर्गश्चापि तैः मह” इति। ननु तैः सहेति नि-र्देशात् मह्यपातकिसंसर्गस्थैव पापहेतुत्वं लभ्यते न तुपातक्यन्तरसंसर्गस्य प्रायश्चित्तमपि महापातकिसंसएव मनुना दर्शितं यथा मनुः
“एषां पापकृताम्भुक्तःचतुर्णासपि निष्कतिः। पतितैः सम्प्रयुक्त्रानामिमाःशृणुत निष्कृतीः। यो येन पतितेनैषां संसर्शं यातिसानवः। स तस्यव व्रतं कुयात् तत्संसर्गविशुद्धये” इति[Page5182-a+ 38] अत्र चतुर्णामित्यनेन ब्रह्महत्यादिमहापातकचतुष्टय-मुपसांहृत्य यो येन पतितेनेत्युक्तं महापातकपरमेव। उच्यते
“प्रायश्चित्तीयतां प्राप्य दैवात् पूर्वकृतेनं वा। न संसर्गं व्रजेत् सद्भिः पायश्चित्तेऽकृते द्विजः। एन-खिभिरनिर्णिक्तैर्नार्थं किञ्चित् समाचरेत्। कृतनिर्णेजनांश्चैव न जुगुपसेत कर्हिचित्” इति मनुना सामा-न्थतः पापिष्ठसं सगस्य निषिद्धत्वात् निषिद्धाचरणात् पा-पोत्पत्तिः पापिष्ठसंसर्ग एव दर्शिता प्रायश्चित्तमपि सा-मान्थेन दर्शितम्
“यो येन पतितेनैषां संसर्गम्” इतिनिर्देशात् चतुर्णामिति हिंसाऽभक्ष्यभक्षणतेयागम्या-गमनाख्यप्रकारचतुष्टयानां न तु ब्रह्महत्यादिविशेषार्थंलधीयसामपि हिसाभक्ष्यभक्षणस्तेयागम्यागमनादीनाम्मनुना पूर्वसुक्तत्वात अपि च संसर्गपापस्मृत्या श्रुतिःकल्यामाना पापिष्ठसंश्चगीं पापी भवतीति सामान्य{??}ति-रेव कल्पानीया लाघवात् होलाकाधिकरणन्याय एवात्रजागर्त्ति। विष्णुनापि सामान्येनैव स्मृते
“यश्च येन पापात्मना सह संसृजेत् स तस्यैव प्रायश्चित्तं कुर्य्यात्”। गोतमोऽप्याह
“ब्रह्महसुरापगुरुतल्पगमातृपितृयोनि-सम्बन्धागस्तेनाभक्ष्यभक्षकनास्तिकनिन्दितकर्माभ्यासपति-तात्यागाऽपतितत्यानिनः पतिताः पातकसंयोजकाश्चतैश्चाब्दं समाचरन्”। अत्र पतितात्यागेति सामान्थेनैवदर्शयति। तैश्चाव्दं समाचरन्निति द्वितीथसं सर्गिणो-ऽपि पतितत्वमुक्तम्। नन्वेकग्रामनिवासादिनापि पति-तेन संसर्निणः पतितत्वं स्यात् न संसर्गविशेषाणां नि-धेधात् निषिद्धपतितसं सर्नात् पततीति श्रुतिः कल्प्या। के ते संसर्गप्रकारा इत्याह वृहस्पतिः
“एकशय्यासनंषङ्क्तिर्भाण्डपक्वन्नमिश्रणम्। याजनाध्यापनं योनि-{??}था च सह भोजनम्। नवधा सङ्करः प्रोक्तो न कर्त्तव्यीधमैः सह। उत्तनीरुत्तमैनित्यं कर्त्तव्यस्तु समेन वा” एकशव्याशयनैकपीठाद्युपयेशनैकपङ्क्तिभोजनपक्वान्नादि-सम्यन्धिभाण्डमिश्रणपक्वन्नमिश्राख्याः पञ्च लघुसं-सर्गाः। तथा याजनं पतितेन ऋत्विजा यजनं यज-जानस्य, पतितयजमानार्त्विज्यकरणमृत्विजश्च। अध्या-यगं ओअतितमाणवकवेदाध्यापनमाचार्य्यस्य, पतिताचार्य्याद्वावेदाध्यबनं माणवकस्य। योनिः योनिसम्बन्धः स चपतितपुरुषसम्भागः स्त्रियाः, पतितस्त्रीसम्भोगो वा पुरु-तस्य, तथा पतितकन्यापरिणयनं वरस्य, पतितवरपरि-खयनं वा कन्यायाः। तथा च मनुः
“नैतैरपूतैर्विधि[Page5182-b+ 38] वदापद्यपि हि कर्हिचित्। ब्रह्म्यान् यौनांश्च सन्ध-न्धानाचरेत् ब्राह्मणः सह”। जिकनकल्पतरुकारादयस्तुपतितवराय कन्यादानं दातुः, पतिताद्दातुरादानं वाकन्याया वरस्य, सर्वत्र व्यवहितयीनिसम्बन्ध, योनि-सम्बन्धस्य स्त्रीपुरुषमात्रनिष्पाद्यत्वात् नात्र दातृवरयोःसाक्षात् योनिसभ्बन्धः दानपतिग्रहलक्षणिप्ययं स-म्बन्धो दातृसम्प्रदानयोर्योन्यन्तर्भावात् यौन इत्युच्यतेप्रायश्चित्तगौरवार्थः। किन्त्वयमनार्षः प्रायश्चित्तविशेषाश्रवणात् अनुपादेयश्च पतितजाता कन्या पतितैववक्ष्यते तत्परिणयनं पतितकन्यापरिणयनमेव नात्र व्यव-हितयोनिसम्बन्धः। सह भोजनं स्वस्यान्नस्य परस्यवा एकपात्रे भोजनं नोच्छिष्टभोजनम् उच्छिष्टेनसहोच्छिष्टभोजनात् तस्य लघुत्वात् एते चत्वारो गुरु-संसर्गाभवन्ति एवं मिलित्वा नव संसर्गाः। नन्वेकयानालापगात्रस्पर्शनिश्वासहाध्ययनादिकमपि संसर्गा-न्तरमस्ति तत्कथं नवविधत्यं यथा पराशरः
“आसना-च्छयनाद्यानात् भाषणात् सह भोजनात्। संक्रामन्तिहि पापानि तैलबिन्दुरिवाम्भसि”। भाषणमपि अन्यो-न्यसंकथनं सहभोजनमेकपङ्क्तिभोजनं लघुसंसर्गसा-हचर्य्यात्। तथा देवलः
“संलापस्पर्शनिश्वाससहशय्या-सनाशनात्। याजनाध्यापनात् यौनात् पापं संक्रमतेनृणाम्”। सहाशनमेकपङ्क्तिभोजजनम्। तथा छा{??}-लेयः
“आलापात् गात्रसंस्पर्शात् निश्वासात् सहभोज-नात्। सहशय्यासनाध्यायात् पापं संक्रमते नृणाम्”। सहाध्यायः पतितेन ब्रह्माचारिणा सहैकस्माद्गुरोरध्यय-नम्। सत्यं नवधेत्यत्र प्रकारवाचिना धाप्रत्ययेन प्रकारा-न्तरं सूचितम् अन्यथा नवेत्युक्तं स्यात्। तेन तदन्नभोजनतत्संस्पृष्टान्नभोजनतत्प्रतिग्रहादीनामुपसंग्रहः। नन्व-नेकवचनेषु पापसंक्रान्तिः श्रूयते पूर्वदेशत्यागेन देशा-न्तरसम्बन्धे संक्रान्तिशब्दस्य सुख्यत्वात् मूलपापकर्त्तुःपापषरिच्छेदे भूते किमर्थं प्रायश्चित्तामुष्ठानमिति। तथा हारीतः
“हन्यादशुद्धः शुद्धन्तु शुद्धोऽशुद्धन्तु शो-घयेत्। मशुद्मग्र तमोभूतः शुद्धवासेन शुद्ध्यति”। तथाच मनुः
“अद्धाद भ्रूष्णदा मार्ष्टि पत्यौ मार्य्यापचा-रिणी। गुरौ शिष्यश्च याज्यश्च स्तेनो राजनि किल्पि-षम्”। मार्ष्णीति प्रोञ्छयति संक्रामयतीत्यर्थः। तथायमः
“दुष्कृतं हि मनुष्याणामन्नमाश्रित्य तिष्ठति। यो यस्यान्नमिहाश्नाति श्च तस्काश्नाति किल्विषम्”। त{??}[Page5183-a+ 38] किल्विषम् अश्नाति इव्यनेनापि पापाभावो गम्यते। उच्यते न पूर्वपापव्यक्तेराश्रयत्यागेन आश्रयान्तरसम्बन्धःसम्भवति गुणस्य तद्रूपादर्शनेनायोग्यत्वात् किन्तु तत्तुल्य-व्यक्तिसम्बन्धे गौणोऽयं संक्रान्त्यादिशब्दः। तथा चदेबलः
“बान्धवोऽपि पृथग् भूत्वा तत्पापं नाप्नुयात्क्वचित्। पृथग्जनोऽपि संयोगात् भजते तुल्यदोष-ताम्”। तत्पापं तज्जातीयं पापमित्यर्थः। तुल्यदोषतांतत्समानपापतामित्यर्थः।
“शुद्धोऽशुद्धन्तु शोधयेदिति” यत्रब्राह्मणादिसम्पर्क एव पापक्षयहेतुस्तत्र वोद्धव्यम्। यथोशनाः
“कृतलक्षणैर्दर्शनस्पर्शनसम्भाषणानि वर्जयेत्” इत्युक्त्वा
“सम्भाषणे घ्राह्मणसम्भाषणमित्यादि”। कृत-लक्षणो स्तज्ञा कृतपापचिह्नः। कि{??} यदि पापिष्ठस्या-न्यसंसर्गः पापक्षयहेतुस्तदेतरप्रायश्चित्तवदिदमपि केनापिमुनिना प्रायश्चित्तरूपतया पठितः स्वात् प्रत्युत निषेधएव श्रूयते यथा मनुः
“प्रायश्चित्तीयतां प्राप्य दैवात्पूर्वकृतेन वा। न संसर्गं व्रजेत् सद्भिः प्रायश्चित्तेऽकृतेद्विजः” इति।{??}
“मिश्रितस्तेन सोऽव्दान्ते स्तयञ्चपतितो भवेदिति” ष्ठेबलवचने चशब्दान्मूलपापकर्तुरपिपापस्थितिरवगम्यते मूलुषापकर्त्ता पतितः स्वयमपि पततिइत्यर्थः। इदानीश्चा कियता कालेन कतमस्य संसर्गस्यपतितसाम्यापादनमिति निरूप्यते। तत्र देबलः
“पति-तेन सहोषित्वा जानन् संवत्सरं नरः। मिश्रितस्तेनसोऽव्दान्ते स्वयञ्च प्रतितो भवेत्। वाजनं योनिस-म्बन्धं स्वाध्यायं सहभोजनम्। कृत्वा सद्यः पतन्त्येतेपतितेन न संशयः”। यानादिलधुसंसर्गैः ज्ञानकतैः सं-वत्सरेण पतति याजनादिभिर्गुरुभिः सद्यः पत-तीत्यर्थः। तथा बौधायनः
“संवत्सरेण पततिपतितेन सहाचरन्। याजनाध्यापनाद् यौनात् सद्यो नशयनासनात्”। शयनादिना सद्यापातनिषेधात् सा-काङ्क्षस्य संवत्सुरेण पततीत्यस्य शयनादिना सम्बन्धः। याजनादिपदं सहनोजनमप्युपलक्षयति। विष्णुः।
“आसं वत्सरात् पतति पतितेन सहाचरन्। सहयानासनाभ्यां यौनात् जौवात् मौखात् सम्बन्धात्। सद्यएव”। यानासनाभ्यामिधि खसुसंसर्गोपलक्षणम्। यौनात् इत्याधि गुहभोजनो{??}खक्षणम्। कूर्मपुराणेश्चासः
“घ्रह्ममा मद्यापः स्तेनो गुरुतस्पग एव च। महापातकिन{??}ते तथा तैः सह संवसेत्। संवत्सरन्तुपतितैः संर्{??}गज्कुअरर्तेर् तुयः। यानशलासनैर्नित्यं जा-[Page5183-b+ 38] नन् वै पतितो भवेत्। एभिर्वचनैर्याजनादिना सद्यःपातो यानादिना ज्ञानतः संवत्सरेणेत्यवगम्यते। ननुयाजनादिना संवत्सरेण पतति न तु यानादिनेत्याहमनुर्बिष्णुश्च
“संवत्सरेण पतति पतितेन सहाचरन्। याजनाध्यापनाद् यौनात् न तु यानासनाशनात्”। या-नासनाशनादुत्पन्नसंयोगमाचरन्नित्यर्थः। तथा पैठोनसिः
“संवत्सरेण प्रतति पतितेन सहाचरन्। याजनाध्या-पनात् यौनात् नत्वेवं शयनासनात्”। अत्र मवदेवकल्प-तरुकारादयः देवलबौधायनादिवचनैर्याजनादीनां सद्यःपातहेतुत्वावगतेः मनुपैठीनसिवचनयोर्नत्विति मध्यपठि-तस्य पूर्वेण याजनादिना सम्बन्धो न तु परेण याना-दिना, याजनाध्यापनात् न तु संवत्सरेण पतति किन्तुयानादिभिरित्याहुः। तदसङ्गतम् सुमन्तुवचनविरो-धात् यथा पतितानभिधायाह सुमन्तुः
“यश्चैतैर्यौन-मौखस्रौवाणां सम्बन्धानामन्यतमेन सह संवत्सरं स-म्पर्कमियात् नस्याप्येतदेव प्रायश्चित्तं विदध्यात्” इयात्कुर्य्यात् एतदेव द्वादशवार्षिकव्रतम् इत्यर्थः। अत्र याजना-दीनामन्यतमेन संवत्सरेण पततीत्यवगम्यते। तथा हा-रीतः
“संवत्सरेण पतति पतितेन सहाचरन्। याञ्{??}नाध्यापनाद् यौनादेकशय्यैकभोजनात्”। एकभोजनमे-कपात्रे कालभेदेन भोजनं जलपानञ्च। तथा वृहस्पतिः
“षाण्मासिके तु संयोगे याजनाध्यापनादिना। एक-त्राशनशय्याभिः प्रायश्चित्तार्द्धमाचरेत्। तथा वत्सरसं-सर्गे योनियुक्ते विशेषतः। पूर्वोक्तेन विधानेन पतित-व्रतमाचरेत्”। अनेन याजनादिना षाण्मासिकसंसर्गेप्रायश्चित्तार्द्धं वदता वत्सरेण समूर्णप्रायश्चित्तमर्थादु-क्तम् उत्तरवचने पुनः स्फटीकृतम्। योनियुक्तपदेन याज-नादीनामप्यु पसंग्रहः। एकत्राशनशव्यादिरिति पाठो-ऽनाकारः राज्ञाऽलिखितत्वात्। जिकगादयस्तु यदिप्रत्येकं विभक्तिनिर्देशात् भोजनं कृत्वा पतति यो-निसम्बन्धं कृत्वा पततीति एवं सम्बन्धोऽभिधीयतेतदा कृत्वा पततीति पदथोरन्वयावृत्तितात्पर्य्यावृ-त्तिभ्याम् आस्तां वाक्यभेदः चत्वारि वाक्यानि स्थुः। अतः कृत्वेति पदेन तन्त्रेण वाजनादिकर्मचतुष्टमादायपततीति सम्बन्धे वोधिते न वाक्यमेदः संवत्सरपदेनपृथगुपद्वीतानामपि कृन्तेति पदेन तन्त्रेणोपनयनात्। दर्शपौर्णमासाभ्यां स्वर्गकामी यज्ञेतेत्याग्नेयादियाग{??}ट्-कानामिव। अत एकवाक्यानुरोधाद्याजनादीनां तन्त्रेण[Page5184-a+ 38] समुच्चितोपनीतानां पततीत्यनेन सम्बन्धे बोधिते याज-नादीनां समुच्चितानां सद्यः पातहेतुत्वं पूर्वोक्तसुमन्त्वा-दिवचनादेकैकेषां संवत्सरेणैव अत्रैवसंसर्गत्रय चतुमि-र्मासैः संसर्गद्वयेऽष्टभिर्मासैर्भागहारेण पातहेतुत्वमूह-नायम्। तन्न कृत्वेति पदस्य याजनादिकर्मत्वेऽशक्तत्वात्किन्त्वन्विताभिधानलभ्यं तत् तदा च निरपेक्षाणामेवा-न्विताभिधानप्राप्तत्वादनुषङ्गाधिकरणन्यायान्न तन्त्रतासत्यपि तन्त्रताभिधाने न समुच्चयः सर्वेभ्यो दर्शपौर्णमा-सावित्यत्रेव समुच्चयबोधकस्य द्वन्यसमासादेरभावात्। नवा तन्त्रतायां समुच्चयो नियतः गर्गाभैज्यन्तां सप्तदश-प्राजापत्यान् पशूनालभेदित्यत्र व्यभिचारात् पततीतिपाठस्य राज्ञाऽलिखितत्वाच्च कथं पततीति पदावृत्तिः। न च सुमन्तुवचने याजनादीनामन्यतमेन वत्सरेण पा-तावगमादर्थान्मिलितैः सद्यः पात इति कल्पनीयं निर-पेक्षश्रुतिविरोधात् वक्ष्यमाणप्रकारेण वचनद्वयसामञ्जस्यसम्भवात्। उच्यते। गुरुलघुभेदेन द्विविधं याजनादिकंभवति तत्र गुरुणा ज्ञानकृतेन याजनादिना एकैकेन सद्यःप्रातः तेनैवाज्ञानकृतेन वारद्वयाभ्यासात्। लघुयाजना-दावज्ञानकृते वत्सरेण पातः तस्मिन्नेव ज्ञानकृते वत्सरा-र्द्धेनेति व्यवस्था। तथा हि याजनं योनिसम्बन्धमित्यत्रदेवलवचने पतितेन सहोषित्वा पूर्ववचने जानन्नितिपटसम्बन्धाज्ज्ञानकृतत्वं दर्शितम्। गुरुत्वं च देवलवचने-नैव याजनाध्यापनयोरुपसंहाराद्दर्शितम्। यथा देवलः
“आचार्य्याद्व्रतनियमशुश्रूषादिभिस्त्रयीविद्योपादानसध्य-यनंतस्य चाचारान्वयः प्रक्रमसामर्थ्यभक्तिशीलशुश्रूषोप-नताय शिष्यय प्रदानसध्यापनम्। पशुक्षीराज्यपुरो-डाशसोमौषधिचरुप्रभृतिभिर्हविर्भिः खदिरपलाशाश्वत्थ-न्थग्रोधोडुम्बरप्रभृतिभिः समिद्भिः स्रुक्स्रुवोदूखलमुषल-कुठारखनित्रयूपदारुचमदर्भग्रावपवित्रपात्रभाजनादिभिर्द्र-ज्योपरणैरुद्गातृहोत्रध्वर्युब्रह्मादिभिरृत्विम्भिः काम्यनैमित्तिकानां पक्षादिपूर्वकाणां यथोक्तदक्षिणानां वज्ञानांसमापर्न यजनम् एतेन याजनं व्याख्यातग्”। प्रक्रमः वृ-द्यभः। अत उपनयनपूर्वकमध्यापनं ज्योतिष्टोमादियज्ञानांयाजनं च गुरु, तत्साहचर्य्याद्यौनं परिणयनरूपं गुरु म-न्त्रहोमादिमाध्यत्वात्, स्तेयादिना पतितान्यब्राह्नण्याग-मनं वा ब्राह्मणस्य, तदप्रेक्षया पतितस्वब्राह्मणीगमन-पतित शूद्रागमनयोर्लघुत्वात्। सह भोजनं पतितान्नस्यपतितेन सहैकपात्रे भोजनं गुरु। उपसयनं विना वेदा-[Page5184-b+ 38] ध्यनम्, अष्टकादियज्ञयाजनं पतितस्वब्राह्मणीगमनं अ-पतितान्नस्य पतितेन सहैकपात्रे भोजनं पतितोच्छिष्टभो-जनं वा पूर्वोक्तयाजनाद्यपेक्षयालघु। देवसवचने ज्ञानतोगुरुणा याजनादिना संबत्सरेण पतमिति गम्यते। ज्ञानतः सकृत्कृतेन येन पतनं तेनाज्ञानतो वारद्वया-भ्यासेन। अज्ञानतो वत्सरेण येन पतनं तेन चानतःषण्मासैरिति वचनद्वयसामञ्जस्यं तथा च लगुयाज-नविषये संवर्त्तः
“एभिः संसर्गमायाति यः कचित्काममोहितः। षणमासानव्ढमेकं वा ब्रह्महत्याव्रत-ञ्चरेत्”। कल्पतरुकारस्याप्येष स्वरसः। अतएव कूर्म-पुराणं
“याजनं योनिसम्बन्धं तथैवाध्यापनं द्विजः। कृत्वा सद्यःपतेत् जानन् सह भोजनमेव च। अज्ञाना-दथ वा मोहात् कुर्य्यादध्यापनं द्विजः। संवत्सरेण पततिसहाध्ययनमेव च”। अत्र पूर्ववचनं गुरुयाजनादिपरंद्वितीयवचनं लघुयाजनाद्यर्थम्। न च ज्ञानाज्ञानाभ्या॰मेव सद्योवचनसंवत्सरवनयोः सामञ्जस्त्यं भविष्यत्रकिं गुरुलघुव्यवस्थापनेनेति वाच्यं ज्ञानकृतादज्ञासकृत-स्यार्द्धम् अज्ञानकृताच्च ज्ञानकृतस्य द्वैगुण्यं युक्तं यतः
“स्यात्त्वकामकृते यत्तद्द्विगुणं बुद्धिपूर्वके” इति वचनात्अत्यन्तविप्रकर्षस्यादृष्टत्वाच्च। देवलेन याजनादिवचनस्यगुरुयाजनादावुपसं हृतत्वान्मनुवचने चार्थाल्लघुयाजनाद्य-वगतेस्तस्मादुक्तैव व्यवस्था। अथ गुरुसं सर्गकालं निरू-ष्याधुना लघुसंसर्गकालो निरूप्यते। तत्र भवदेवेनोक्तंयाजनादिम्यो लघूनां यानासनशयनैकपङ्क्तिभोस्वनानांचतुर्णां लघुतराणाञ्चालापस्पर्शनिश्वासानां मिलित्वा म-प्तानां ज्ञानती वत्सरेण पातहेतुत्वमज्ञानतो वत्सरद्वयेनेतितदेतत्प्रमाणशून्यं द्वन्द्वानर्देशादेरभावात्। जिकनस्तु
“आसंवत्सरात् पतति पतितेन सहाचरन्। सह यागा-सनाभ्यामिति” विष्णुवचने द्वयोर्द्वनिर्देशात् यानास-नादीनाञ्चतुर्णां मध्यादयेन केनचित् संसर्गद्वयेन वत्स-रेण पात एकैकशस्तु वत्सरद्वयेन एभ्योऽपि संलापादे-र्लघुस्रात् सहथानादेर्द्विगुणकालेन साम्यापादकत्वम्एतच्च ज्ञानतः
“जानन् संवत्सरं नर” इति वचनात्अज्ञानादेतद्द्विगुणकालेतेति। तन्न त्रयाणामपि द्वन्द्वनि-र्देशात्। यथा मनुः
“संवत्सरेण पतति पतितेन सहा-चरन्। याजनास्यापनाद् यौनात् न तु यनिशनासनात्”। यथा याजनादिना प्रत्येकमज्ञानाद्वत्सरेण पातः तथा नयानादिभिः एभिघ मिसितैर्ज्ञानादित्यर्धः। तथा स[Page5185-a+ 38] कूर्मपुराणे
“ब्रह्माह्वा मध्यपस्तेनो गुरुतल्पग एव च। महापातकिनस्त्वेते यश्च तैः सह संवसेत्। संवत्सरन्तुपतितैः ससंर्गं कुरुते तु यः। यानशय्यासनैर्नित्यं जा-नन् वै पतितो भवेत्”। तथा वृहस्पतिः
“षाण्मासिकेतु संयोगे याजनाध्यापनादिना। एकत्रासनशय्याभिःप्रायश्चित्तार्द्धमाचरेत्”। अत्रासनशय्यापदेन लघुसंसर्गा-न्तरे लक्ष्यते अन्यथा यहुवचनानुपपत्तेः। यथा प्रोद्गा-तृर्णा भक्ष्यः फलचमसः इत्यत्र प्रोद्गातृशब्दस्य प्रोद्गार्त्रप्रीद्गातृपरत्वमुक्तम्। यदा र्वेकत्रासनशय्यादिरितिपाठस्तदादिशब्दात संसर्गान्तरलाभः अयन्त्वपपाठः राज्ञाऽलिखितत्वात्। उच्यते। यानादीनां लघुसंसर्गाणांसमुच्चितानां पातजेतुत्वं द्वन्द्वनिर्देशात् त्रयाणां द्वन्वनिर्देशी वहुषु बचनेष्ववगम्यते। अत्र च यानादीनाम-नियतश्रवणात् लाघवात् एभिस्त्रिभिः लघुसंसर्गैर्वत्स-रेण पततीत्येकैव श्रुतिः कल्पनीया सह यानासनाभ्या-मित्यत्र महशब्दादेककालत्वमवगभ्यते एककाले चैकपी-ठाद्युपवेशनं स्पर्शनिश्वासालापलधुतरसंसर्गत्रयनियत-मतस्तदप्यर्थादेव गम्यते एभिस्त्रिभिर्लघुतरसंसर्गैरेको लघु-संसर्गः समानः अतस्तत्रापि लघुससर्गत्रयमेव मन्वादि-वचनेषु सहशब्दाभावात् कालपभेदेन सततपतितोप-भुक्तासनाद्युपवेशनं ग्राह्यमतस्त्रिभिलघुसंसर्गेर्वत्सरेण सा-म्यम् एतच्च ज्ञानतः
“जानन् संवत्सरम्” इति देबलवच-नात् अज्ञानतो वत्सरद्वयेन एकैकशो ज्ञानाद्वत्सरत्रयेणअज्ञानात् वत्सरषट्केन संलापादीनाम् एकैकयानादिसमा-नत्वात् ज्ञानती वत्सरत्रयेण पातः। अज्ञानतो वत्सरषट्-केन ज्ञानादेकैकशी वत्सरनवकेन। अज्ञानादेकैकशोऽष्टा-दशभिर्वत्सरैरित्यर्थः। ननु संलापादीनां कथं याना-दिभ्यो लघुत्वम्। उच्यते लघु प्रायश्चित्तश्रवणात् यथो-शना
“छतलक्षणकैर्दर्शनसम्भाषणादीनि वर्जयेत् दर्शनेज्योतिषां दर्शनं स्पर्शने हृदयालम्भनं सम्भाषणे ब्राह्मण-सम्भाषणमपां स्पर्शनञ्चोति” कृत्रलक्षणकैः पर्तितैः पदा-दिचिह्नितैः, दर्शनञ्च न संसर्गः प्रकरणेऽपाठात् पतितस्यर्शनमत्र परम्परया ग्राह्यं साक्षात् स्पर्शने स्नानश्रवणात्तथा मनुः
“दिवाकीर्त्तिमुदक्याञ्च पतितं सूतिकान्तथा। शवं तत्स्पृष्टिनं चेव स्पृष्ट्वा स्नानेन शुध्यति”। पतितान्न-भीजनपतितद्रव्यप्रतिग्रहयोश्च प्रत्यक ज्ञानतः षड्भि-र्मासैरज्ञानाद्वर्षेण पातिषापादकत्वं यथा पातितानमिधा-याह संवर्त्तः
“एभिः संसर्गमायाति यः कश्चित् काम-[Page5185-b+ 38] मोहितः। षण्मासानव्दमेकं वा ब्रह्महत्याव्रतञ्चरेत्”। न चास्य ज्ञानाज्ञानकृतयोनसंसर्गविषयत्वम् अविशेष-श्रुतेर्यौनतुल्यत्वादेतयोः तथा च पतितान्नभोजनस्य स-वत्सरेण पातहेतुत्वमाह देबलः
“स वत्सरेण पतति पति-तेन सहाचरन्। भीजनासनशय्यादि कुर्वाणः सार्वका-लिकम्”। भोजनं तदन्नभोजनं सार्वकालिकमनवच्छिन्नभोजने च तथा दर्शनात् प्रतिग्रहेऽपि तथात्वमूहनीयंतयोः समानत्वदर्शनात् साम्ये हेतुसाह वृहस्पतिः
“पतितानां गृहं गत्वा भुक्त्वा च प्रतिगृहा च। मासो-पवंसं कुर्वीत चान्द्रायणमथापि वा”। मासोपवासो ज्ञा-नाभ्यासे तत्र च पञ्चदश धेनवः। चान्द्रायणमज्ञानाभ्यासेतत्र सार्द्धसप्त धेमवः। गृहं गत्वेति अनेकसंवत्सरेणेति। तथा मनुः
“चाण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्यच। पतत्यज्ञानतो विप्रो ज्ञानात् साम्यन्तु गच्छति”। तथारजकादीनभिधायाह यमः
“भुक्त्वा चैषां स्त्रियो गत्वापीत्वापः प्रतिगृह्य च। कृच्छ्रमव्दं चरेज्ज्ञानादज्ञानादै-न्दवद्वयम्”। पतितान्नभक्षणप्रायश्चित्तात् पतितस्पृष्टा-न्नभक्षणप्रायश्चित्तार्द्धेन ह्रासदर्शनादत्रार्द्धहानिः तेनज्ञानतः पवितस्पृष्टान्नभोजने संवत्सरेण साम्यमज्ञानतीवत्सद्वयेनेति। तथा प्रचेताः
“प्रतितान्नन्तु यी भुड्क्तेसप्ताहसुदके वसेत्। पानीयपानतश्चै कुशवारि पिबे-त्त्र्यहम्”। सप्ताहोदकवासे धेनुद्वयं वक्ष्यते एतत् सकृ-दज्ञानविषयं सकृज्ज्ञानकृतपतितस्पृष्टान्नभक्षणे शङ्घः
“भुक्तोच्छिष्टोऽन्त्यजैः स्पृष्टः प्राजापत्यं समाचरेत्। अर्द्धो-च्छिष्टे स्मृतः पादः पाद आमाशने तथा”।
“अमेध्य-पतितचाण्डालपुक्कशरजस्वलाबधूतकुणिकुष्ठिकुनखिस्पृष्टा-न्नानि भुक्त्वा कृच्छ्रमाचरेत्”। पातकिस्पृष्टपाकान्नभो-जने तु संसर्गस्य किञ्चिद्व्यवधानात् पादहानिः तेन ज्ञा-नतः सपादवत्सरेणाज्ञानतः सार्द्धवत्सरद्वयेन साम्यम्। पातकिसकीर्णपाकान्नभोजने तु ततोऽपि व्यवहितत्वाद-परपादहानिः। तेनात्र ज्ञानकृते सार्द्धवत्सरेणाज्ञानतोवत्सरत्रयेण साम्यम्। पतितामान्नभक्षणे पतितसिद्धान्न-भक्षणस्य चतुर्थभागः एवं पतितपानीयपानेऽपि चा-ण्डालान्नभक्षणे तथा दर्शनात्।
“यथा विष्णुः चाण्डा-लान्नं भुक्त्वा त्रिरात्रमुपवहेत् सिद्धान्नं भुक्त्वा पराकः”। इति अत्रान्नमामान्नम् उत्तरत्र सिद्धान्नदर्शनात् पराके चद्वादशोपवासाः। तथा प्रचेताः:
“पतितान्नन्तु यो भुङ्क्तेगुप्ताहमुदके वसेत्। पानीयपानतश्चैव कुशवा{??}इ त्र्यहं[Page5186-a+ 38] पिवेत्”। त्रिरात्रोपवासे चतुर्विंशतिपणलभ्यं काञ्चनंदेयम्। एतदेव कुशवारिपाने किञ्चिदूनं देयम्। पतितो-च्छिष्टभक्षणे तु पतितान्नभक्षणाद्द्वैगुण्येन पापाधि-क्यम्। यथाङ्गिराः
“चाण्डालपाततादीनामुच्छिष्टान्नस्यमक्षने। द्विजः शुध्येत् पराकेण शूद्रः कृच्छ्रेण शु-ध्यति”। एतत् सकृदज्ञानविषयम्। पराके पञ्च धेनवः। सकृदज्ञानकृतपतितान्नभोजने धेनुद्वयं प्रचेतोवचनेव्याख्यातम्। तेन ज्ञानतः पतितोच्छिष्टान्नभक्षणे मास-त्रयेण पतितसाम्यम् अज्ञानतो मासषट्केन। उच्छिष्टान्न-भक्षणवदुच्छिष्टप्रोञ्छनेऽपि व्यवस्था
“उच्छिष्टभोजनञ्चैव तथा तस्य च मार्जनम्” इति देवलवचने साह-चर्य्यदर्शनादिति। अत्र कृतानेकपातकपुरुषसंसर्गादे-कैव पापव्यक्तिरुत्पद्यते न भिन्ना कल्पनागौरवापत्तेः। पुरुषापराधस्य च संसर्गलक्षणस्य निमित्तकारणस्य तद्वि-शिष्टात्मनःसंयोगस्यासमवायिकारणस्यैकत्वात्। प्राय-श्चित्तन्तु गुरुसंसर्गस्यैव करणीयं गुरुणा प्रायश्चित्तेनलघुनः पापस्य क्षयाभिधानात्। तथानेकमहापातकि-पुरुषसंसर्गपापव्यक्तिभेदेऽपि देशकालकर्त्रैक्ये तन्त्रतायाउक्तत्वात्तन्त्रेणैव प्रायश्चित्तम्। जिकनस्तु युगपदनेक-ब्राह्मणबधवद्युगपदनेकपातकिसंसर्ग एव तन्त्रता। क्र-मकृते तु ब्राह्मणबधवदावृत्तिरेव प्रायश्चित्तस्येति तन्नब्रह्मवधेऽपि क्रमकृते प्रायश्चित्ततन्त्रताया उक्तत्वात्। युग-पदनेकव्रह्मबध एव ज्ञानाज्ञानाभ्यां विशिष्टमरणयाव-ज्जीवव्रतसक्षणप्रायश्चित्तभेदेन तन्त्रताऽभावस्य श्रीभहा-देवपादैर्दर्शितत्वात्। इह तु तद्वत् प्रायश्चित्तवैशिष्ट्ये प्र-माणं नास्ति तथा शुद्धस्वेव महापातकिनोऽपि पातक्य-न्तरसंसर्गे पापसुत्पद्यते एव आवृत्तवह्मधवद्धेतोश्च सम-त्वात्। अत्यथा पातकिनश्चाण्डालान्नभक्षणेऽप्यदोषःस्यात्। तथा प्रतिक्षणं पूर्वपूर्वोत्पन्नपापव्यक्तिसहकृती-त्तरोत्तरसंसर्गादन्यान्या एव पापव्यक्तयो महत्य उत्पद्यत्तेपूर्वापूर्वा चोत्पद्यैव विनश्यति वत्सरेणैव मूलपापकर्तृपाप-सुमानदुरितापूर्वव्यक्तिरुत्पद्यते। सा च सम्पूर्णनरकं-फ{??}भा वत्सराभ्यन्तरेऽल्पाल्पनरकफलिका अतएवप्रायश्चित्त-वाक्यमप्येकम्। न तु भिन्नभिन्नाः समानाः पापघ्यक्तयःसमदायात् सम्पर्णनरकं फलम्। सम्पूर्णनरकफलस्यब्रह्मवथादावेकपापव्यक्तिफलत्वदशनादिति”। अत्रेदंयोध्यम्। महापातकिससर्गस्यैत् कलौ पापहंतुत्वंनान्यपासंसर्गस्य ययोक्त पराशरेण
“कृते सम्भा{??}-[Page5186-b+ 38] णात् पापं त्रैतायाञ्चैव स्पर्शनात्। द्वापरे चान्नमादायकलौ पतति कर्मणा”। कलौ सम्भाषणादिना न पातित्यकिन्तु कर्त्तुरेव कर्ममात्रेणैव पातित्यं न संस्पर्शनादिना।
“आलापात् गात्रसंस्पर्शादित्यादि” पराशरवचनं महापा-तकिविषयमिति पराशरभाष्ये माधवाचार्य्य आह स्म।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संसर्ग¦ m. (-र्गः)
1. Union, proximity, approximation, contact.
2. Ac- quaintance, familiarity, intercourse.
3. Co-existence, (in logic.)
4. Sensual attachment. E. सम् with, सृज् to go, aff. घञ् |
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संसर्गः [saṃsargḥ], 1 Commixture, junction, union.
Contact, company, association, society; न संसर्गं व्रजेत् सद्भिः प्राय- श्चित्ते$कृते द्विजः Ms.11.47; संसर्गमुक्तिः खलेषु Bh.2.62; Ś.1.3. Proximity, touch.
Intercourse, familiarity.
Copulation, sexual union; नानागन्धर्वमिथुनैः पानसंसर्गकर्कशैः Rām.4.67.45; प्रत्याहारेण संसर्गान् ध्यानेनानी- श्वरान् गुणान् Ms.6.72.
Co-existence, intimate relation.
Confusion.
A particular conjunction of celestial bodies.
A particular combination of two humours which produces diseases.
Point of intersection.
Duration; Mb.3. -Comp. -अभावः one of the two main kinds of non-existence, relative non-existence, which is of three kinds; प्रागभाव antecedent, प्रध्वंसाभाव emergent, and अन्यन्ताभाव absolute, non-existence. -दोषः the fault or evil consequences resulting from association, especially with bad people.
विद्या learning by social intercourse; Kau. A.1.12.
Social science.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संसर्ग/ सं-सर्ग सं-सर्जनetc. See. सं-सृज्, col. 3.
संसर्ग/ सं-सर्ग mfn. commingling , combining (intr.) Ka1tyS3r.
संसर्ग/ सं-सर्ग m. ( ifc. f( आ). )mixture or union together , commixture , blending , conjunction , connection , contact , association , society , sexual union , intercourse with( gen. instr. with and without सहloc. , or comp. ) S3rS. Pra1t. MBh. etc.
संसर्ग/ सं-सर्ग m. confusion , Ma1nGr2. Hariv.
संसर्ग/ सं-सर्ग m. indulging in , partaking of( comp. ) R. Das3. BhP.
संसर्ग/ सं-सर्ग m. sensual attachment Mn. vi , 72
संसर्ग/ सं-सर्ग m. a partic. conjunction of celestial bodies AV. Paris3.
संसर्ग/ सं-सर्ग m. a partic. combination of two humours which produces diseases(See. सं-निपात) Sus3r.
संसर्ग/ सं-सर्ग m. community of goods Da1yabh.
संसर्ग/ सं-सर्ग m. duration MBh. iii , 11 , 238
संसर्ग/ सं-सर्ग m. point of intersection S3ulbas.
संसर्ग/ सं-सर्ग m. acquaintance , familiarity W.
संसर्ग/ सं-सर्ग m. co-existence(= समवा-य) ib.
Vedic Rituals Hindi
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संसर्ग पु.
(सं + सृज् + घञ्) वह स्थान जहाँ दो रेखायें (एक दूसरे को) काटती हैं, बौ.शु.सू. 1.28।