संस्कार
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]संस्कारः, पुं, (सं + कृ + घञ् ।)
प्रतियत्नः । अनुभवः । मानसकर्म्म इति मेदिनी ॥
न्याय-मते गुणविशेषः । स च त्रिविधः । १ वेगाख्य- संस्कारः - अयं मूर्त्तपदार्थस्थायी । क्वचिद्वेग- जन्यः क्कचित्कर्म्मजन्यश्च । २ स्थितिस्थापक- संस्कारः - अयं पृथिवीगुणः केषाञ्चिन्मते पृथि- व्यादिचतुःपदार्थगुणः । अयं अतिन्द्रियः स्पन्दनकारणञ्च । ३ भावनाख्यसंस्कारः - अयं आत्मनः अतीन्द्रियगुणः । उपेक्षानात्मक- निश्चयजन्यः । अयं स्मरणप्रत्यभिक्षयोः कार- णञ्च ॥ * ॥ अस्य प्रमाणम् । “संस्कारभेदो वेगोऽथ स्थितिस्थापकभावने । मूर्त्तमात्रे तु वेगः स्यात् कर्म्मजो वेगजः क्वचित् ॥ स्थितिस्थापकमंस्कारः क्षितौ केचिच्चतुर्ष्वपि । अतीन्द्रियः स विज्ञेयः क्वचित् स्पन्देऽपि कारणम् ॥ भावनाख्यस्तु संस्कारो जीववृत्तिरतीन्द्रियः । उपेक्षानात्मकस्तस्य निश्चयः कारणं भवेत् ॥ स्मरणे प्रत्यभिज्ञायामप्यसौ हेतुरुच्यते ॥” इति भाषापरिच्छेदः ॥ * ॥ शुद्धिः अदृष्टविशेषजनककर्म्म । यथा । यद्यग्नि- स्थापनान्तरं कर्म्मकाले वृष्ट्यादिशङ्कया संस्फृ- ताग्निरन्यत्रानीयते तदा पुनर्भूसंस्ककारः कर्त्तव्यः । संमुह्य उपलिप्य उल्लिख्य उद्धृत्य अभ्युक्षयेत् एष संस्कारोऽनुगतोऽग्नौ भूयः । इति गृह्यान्तरात् । इति संस्कारतत्त्वम् ॥ * ॥
दशविधसंस्कारा यथा । विवाहः १ गर्मा- धानम् २ पुसवनम् ३ सीमन्तोन्नयनम् ४ जातकर्म्म ५ नामकरणम् ६ अन्नप्राशनम् ७ चूडाकरणम् ८ उपनयनम् ९ समावर्त्तनम् १० । यथा हारीतः । गर्भाधानवदुपेतो ब्रह्मगर्भं सन्दधाति पुंसवनात् पुंसीकरोति फलस्थापनात् मातापितृज पाप्मानमपोहति रेतोरक्तगर्भो- पघातः पञ्चगुणो जातकर्म्मणा प्रथममपोहति नामकरणेन द्वितीयं प्राशनेन तृतीयं चूडा- करणेन चतुर्थं स्नापनेन पञ्चमं एतैरष्टाभिः संस्कारैर्गर्भोपघातात् पूतो भवतीति । स्नान- मत्र समावर्त्तनरूपमिति कल्पतरुः । इति संस्कारतत्त्वम् ॥ * ॥
याज्ञवल्क्यः । “गर्भाधानमृतौ पुंसः सवनं स्पन्दनात् पुरा । षष्ठेऽष्टमे वा सीमन्तः प्रसवे जातकर्म्म च ॥ अहन्येकादशे नाम चतुर्थे मासि निष्क्रमः । षष्ठेऽन्नपाशनं माभि चूडा कार्य्या यथाकुलम् ॥ एवमेनः शमं याति बीजगर्भसमुद्भवम् ॥” इति मलमासतत्त्वम् ॥ * ॥
संस्कृतानामधिकारमाह याज्ञवल्क्यः । “असस्कृतास्तु संस्कार्य्या भ्रातृभिः पूर्व्वसंस्कृतैः भगिन्यश्च निजादंशाद्दत्त्वांशन्तु तुरीयकम् ॥” असंस्कृता भ्रातरो भगिन्यश्च पूर्वसंस्कृतैरुप- नीतैः । अन्यथा मन्त्रपाठानधिकारापत्तेःइत्यु- द्बाहतत्त्वम् ॥ एषां विवरणं तत्तच्छब्दे द्रष्टव्यम् । गरुडपुराणोक्तसंस्कारास्तत्रैव ९३ । ९४ । ९५ अध्यायेषु द्रष्टव्याः ॥ * ॥
अथ जीर्णदेवगृहादिसंस्कारफलम् । “अथ चेज्जीर्णसंस्कारविधिः पुण्यो महामुने ! देवतादिषु कर्त्तव्यो महाभोगफलेप्सुभिः ॥ मूलादष्टगुणं पुण्यं जीर्णसंस्कारतो भवेत् । तस्मादनाथजीर्णेषु कार्य्यं संस्करणं मुने ! । स्वकीयं परकीयं वा यथाविभवविस्तरैः ॥ स्वतो वा परतो वाद्य यस्तु संस्कुरुते सुरान् । स यावच्चन्द्रसूर्य्यौ गौस्तावत्कालं सुखी- भवेत् ॥ लोकेषु तेषु देवानां विरजस्केषु हृष्टधीः । यथा गोमेधयज्ञेषु पशुरोमसमाः समाः ॥ वसते दिवि हृष्टात्मा जीर्णसंस्कारकारकः । अनाथा वा सनाथा वा पूजनीयाः सदा सुराः ॥ इति देवीपुराणे पूजाविधिनामाध्यायः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संस्कार¦ पु॰ सम् + कृ--सुट् च। सतोगुणान्तराधानरूपे
१ प्र-तियत्ने यथा अलङ्कारादेरस्त्रादेर्वस्त्रादेश्च उद्दीपनलिशा-नमार्जनादयः, दर्पणादेर्निर्मलीकरणादिः ब्राह्मादेश्चयज्ञाङ्गतासम्पदानाय वैदिकमार्गेण प्रोक्षणादिः। स च
“संस्कारः पुंस एवेष्टः प्रोक्षभ्य क्षणादिषु” कुसुमा॰उक्तेः पुरुषस्यैव धर्मः” न्यायभतम्। प्रोक्षिताएव ब्रीहयः पुरोडाशाय कल्पन्ते नाप्रोक्षिता इतिप्रोक्षणादिजन्यसंस्कारोयज्ञाङ्गपुरडाशेष्विति द्रव्यधर्मः मी-मांसकाः। एवं स्नालाचमनादिजन्याः संस्कारा देहेउत्पद्यमाना अपि” तदभैमा{??}जीवे कल्प्यन्ते इतिवेदान्तिनः।
२ स्मृतिहेतौ अनुभवजत्ये आत्मवृत्तिगुणभेदेपृथिव्यादिचतुष्टयस्थे
३ वेगाख्ये गुणे, यथावस्थिततया-स्थापनप्रयोजफे स्थितिस्थापनाख्ये
४ गुणभेदे च(
“संस्कारभेदो वेगोऽथ स्थितिस्थापकभावने। मूर्त्त-मात्रे तु वेगः स्यात् कर्मजो वेगजः क्वचित्। स्थिति-स्थापकसंस्कारः क्षितौ केचिच्चतुर्प्वपि। अतीन्द्रियः सविज्ञेवः क्वचित् स्मन्देऽपि कारणम्। भावनाख्यस्तुसंस्कारो जोववृत्तिरतीन्द्रियः। उपेक्षानात्मकस्तस्यनिश्चपः कारणं भवेत्। स्मरणे प्रत्यनिज्ञायामप्यसौ हेतु-रुच्यत” भाषा॰
“नित्यः संस्कारो नास्ति वेगस्तु द्विविधःकर्मजवेगजभेदात् तत्र शरादौ नोदनजनितेन कर्मणावेगो जन्यते तेग च पूर्वकर्मनाशादुत्तरं कर्म एवमुत्तरो-त्तरमपि कर्म जायते। वेगं विना कर्मणः कर्मान्तरा-जनकत्वात्
“षूर्वकर्मनाशे उत्तरकर्मोत्पत्तिश्च न स्यात्। यत्र वेगवता कपालेन जनिते घटे वेगो जन्यते तत्र[Page5189-a+ 38] वेगजो वेगः। स्थितिस्थापकसंस्कारश्चातीन्द्रियः आ-कृष्टशाखादीनां परित्यागे यत् पूर्वदेशगमनं तत्र स्थिति-स्थापकोहेतुः। उपेक्षानात्मकानश्चयेन भावनाख्यसंस्कारोजन्यते स च स्मरणे प्रत्यभिज्ञायां च हेतुः जीववृत्तिःरतीन्द्रियश्च स च चरमफलनाश्यः क्वचित्ंरोगादिनाश्यःक्वचित् कालनाश्यः” सि॰ मु॰ अन्ये तु समानविषयकंस्मरणमेव संस्कारनाशकम् अतएव
“जायते च पुनः-पुनःस्मरणाददृढतमसंस्कारः” इति दीधिकृत् इत्याहुः। ( संस्कारत्वं तु न जातिरिति चषकादौ व्यवस्थापितम्।
५ शास्त्राभ्यासजन्यव्युत्पत्तौ, व्याकरणोक्तदिशा शब्दानां
६ साधनप्रकारे, विप्रादीनां वैदिककर्मार्हत्वप्रयोजके
७ गर्भा-धानादौ क्रियाकलापे
८ पाके च। विप्रादीनां देहसं-स्काराश्च अष्टाचत्वारिंशत् तच्छब्दे
५१
० पृ॰ दर्शिताः। हूदानीन्तनानां तु गर्भाधानाद्याविवाहान्ताः दशविधाःप्रसिद्धाः। तेषां च देह दोषनाशकता यथोक्तं हारीतेन
“गर्भाधानवदुपेतो ब्रह्मगर्भं संदंदाति पुंसवनात् पुंसी-करोति फलस्थापनात् मातापितृजपाष्मानमपोहतिरेतोरक्तमर्भोपघातः पञ्चगुणो जातकर्मणा प्रथममपो-हति नामकरणेन द्वितीयं प्राशनेन तृतीयं चूडाकर-णेन चतुर्थं स्नापनेन पञ्चममेतैरष्टाभिः संस्कारैर्गर्भा-पष्ठातात् पूतो भवति”।
“स्नापनं समावर्त्तनम्” उप-तयनस्य वेदग्रहणार्थत्वम् विवाहस्याग्निसाध्यस्मार्त्त-कार्यार्थत्वमितिविषेकः अतो दशविधाः।
“गर्भाधानमृतौपुंसः करणं स्पन्दनात् पुरा। षष्ठेऽष्टमे वा सीमन्तःप्रसवे जातकर्म च। अहन्येकादशे नाम चतुर्थे मासिनिष्कमः। षष्ठेऽन्नप्राशनं मासि चूडा कार्य्यायथाकु-लम्। एवमेनः शमं यति वीजगर्भसमुद्भम्” याज्ञ॰। अत्र जातकर्मनिष्क्रामावधिकौ संस्कारौ बीजादिदोषनि-वारकतयोक्तौ। अग्निस्थापनार्थश्च पञ्चविधः भूसस्कारःगृह्ये दर्शितः ते च समूहनमुपलेपनमुल्लेस्यनं सिकतो-द्धरणमभ्युक्षणञ्चेति। दीक्षणीयतान्त्रिकमन्त्रसंस्काराश्चद्रशविधाः दीक्षा॰ त॰ दर्शिता यथाशारदायाम्
“मन्त्राणां दश कथ्यन्ते संस्काराः सिद्धि-दायिनः। जननं जीवन पश्चात्ताडनं बोधनं तथा। अथाभिषेको विमलीकरणाप्यायने तथा। तर्पणं दीपनंगुप्तिर्दशैता मन्त्रसंस्क्रवाः मन्त्राणां, मा{??}कायन्त्रादु-द्धारो जननं स्मृतम् प्रणवान्तरितान् कृत्वा मन्त्रवर्णान्जपेत् सुधीः। एताग्नओ{??} मित्याहुमन्त्रतन्त्रविशारदाः। [Page5189-b+ 38] मन्त्रवर्णान् समालिख्य ताडयेच्चन्दनाम्भसा। प्रत्येकंवायुना मन्त्री ताडन
३ तदुदाहृतम्”। वायुना वायु-वीजन
“यमित्यनेन तं मन्त्री प्रसूनै करवीरजैः। तन्मन्त्राक्षरसंख्यातैहन्याद् यान्तेन बोधनम्
४ ”। यान्ते नरमिमनन इति
“स्वतन्त्रोक्तविधानेन मन्त्रो मन्त्रार्ण-संख्यया। असत्थपल्लवैर्मन्त्रमभिषिञ्चेद्विशुद्धय। स्वतन्त्रोविधानेन मूर्ध्नि तोयेन देशिकः। नमोऽन्तं मन्त्रमुच्चार्य्यतदन्ते देवताभिधाम्। द्वितीयान्तामहं पश्चादभिषिञ्चा-म्यनेन तु। तौयैरञ्जलिबद्धैश्चाप्यनिषिञ्चेत् स्वमुर्द्धनि
५ ”। स्वतन्त्रोक्तविधानेन पुरश्चर्य्याप्रकरणोक्तविहिताञ्जलिनाइत्यभिहितेन
“सभिन्त्य मनसा मन्त्रं ज्योतिर्मन्त्रेणनिर्दहेत्। मन्त्रे मलत्रयं मन्त्री विमलीकरण
६ न्त्विदम्”। मलत्रयं मायिकं कार्मिणं मानसरूपम्
“तारव्योमाग्नि-मनुयुग्दन्तो ज्योतिर्मनुर्मतः”। तारः प्रणवः व्योम ह-कारः अग्नीरेफः मनुरीकारः तद्युक्तोदन्तोऽनुस्वारः। तेन ओम् ह्रौं इतिमन्त्रः।
“कुशोदकेन मन्त्रेण प्रत्यर्णप्रोक्षणं मनोः”। प्रत्यर्णं प्रत्यक्षरम
“तेन मन्त्रेण विधि-वदेतदाप्यायन
७ मतम्। मन्त्रेण वारिणा मन्त्रतर्पणंतर्पणं
८ मतम्”। मन्त्रेण मूलमन्त्रेण।
“मूलमन्त्रं स-मुच्चार्य्य तदन्ते देवताभिधाम्। द्वितीयान्तामहं पश्चात्तर्पयामि नमोऽन्तकम्”। इति पुरश्चर्य्योक्षक्रमेण लिखितम-न्त्राधाररूपयन्त्रे।
“तारमायारमायोगोमनोर्दीपन
९ मु-च्यते”। तारः ओम् माया ह्रीं रमा श्रीम्
“जप्यमा-नस्य मन्त्रस्य गोपन
१० न्त्ववकाशनम्। संस्कारा दश-संख्याताः मर्वतन्त्रेषु गोपिताः। यान् कृभा सम्प्र-दायालं मन्त्री वाञ्छितमश्नुते”। देवप्रतिष्ठाङ्गसंस्काराश्च देवताप्रतिष्ठाशब्द
३७
२३ पृ॰ दृश्याः। अन्येऽपि तत्तत्क्रत्वङ्गसंस्कारास्तत्तद्ग्रन्थे दृश्याः।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संस्कार¦ m. (-रः)
1. Completing, accomplishing, finishing, perfecting.
2. Apprehension, conception.
3. The power of memory, the faculty of recollection.
4. Faculty in general, one of the twenty-four qualities enumerated by logicians.
5. An essential and purificatory rite or ceremony amongst the Hindus; as those of the three first classes, commencing with conception and ending with marriage; or गर्भाधानं sacrifice on conception; पुंसवनं on vitality in the fœtus; सीमन्तोन्नयनं in the fourth, sixth, or eight month; जातकर्म्म giving the infant clarified butter out of a golden spoon to taste, before divi- ding the navel string; नामकरणं naming the child on the tenth, eleventh, twelfth, or hundred and first day: निष्क्रमणं carrying him out to see the moon on the third lunar day of the third light fortnight, or to see the sun in the third or fourth month; अन्नप्राशनं feeding him with rice in the sixth or eighth month, or when he has cut teeth; चूडाकार्य्यं tonsure in the second or third year; उपनयनं investiture with the string in the fifth, eight, or sixteenth year; विवाहः or marriage is the tenth and last Sanska4ra.
5. Embellish- ment, decoration, elegance.
6. Purity, perfection.
7. Preparing as an article of medicine or food, cooking, dressing, compounding, &c.
8. Purification, consecration.
9. Impression, form, mould. E. सम् implying perfection, कृ to make, अण् aff. and सुट् augment. [Page747-a+ 60]
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संस्कारः [saṃskārḥ], 1 Making perfect, refining, polishing; (मणिः) प्रयुक्तसंस्कार इवाधिकं बभौ R.3.18.
Refinement, perfection, grammatical purity (as of words); संस्कार- वत्येव गिरा मनीषी Ku.1.28 (where Malli, renders the word by व्याकरणजन्या शुद्धिः); R.15.76.
Education, cultivation, training (as of the mind); निसर्ग- संस्कारविनीत इत्यसौ नृपेण चक्रे युवराजशब्दभाक् R.3.35; Ku. 7.1.
Making ready, preparation.
Cooking, dressing (as of food &c.).
Embellishment, decoration, ornament; स्वभावसुन्दरं वस्तु न संस्कारमपेक्षते Dṛi. Ś. 49; Ś.7.23; Mu.2.1.
Consecration, sanctification, hallowing; संस्कारो नाम स भवति यस्मिञ्जाते पदार्थो भवति योग्यः कस्यचिदर्थस्य ŚB. on MS.3.1.3.
Impression, form, mould, operation, influence; यन्नवे भोजने लग्नः संस्कारो नान्यथा भवेत् H. Pr.8; Bh.3.84.
Idea, notion, conception.
Any faculty or capacity.
Effect of work, merit of action; फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव R.1.2.
The self-reproductive quality, faculty of impression; one of the 24 qualities or guṇas recognised by the Vaiśeṣikas; it is of three kinds: भावना, वेग, and स्थितिस्थापकता q .q. v. v.
The faculty of recollection, impression on the memory; संस्कारमात्रजन्यं ज्ञानं स्मृतिः T. S.
A purificatory rite, a sacred rite or ceremony; संस्कारार्थं शरीरस्य Ms.2.66; R.1.78; (Manu mentions 12 such Saṃskāras viz. 1. गर्भाधान, 2. पुंसवन, 3. सीमन्तोन्नयन, 4. जातकर्मन्, 5. नामकर्मन्, 6. निष्क्रमण, 7. अन्नप्राशन, 8. चूडाकर्मन्, 9. उपनयन, 1. केशान्त, 11. समावर्तन, and 12. विवाह; see Ms.2.26 &c.; some writers increase the number to sixteen).
Purification, purity.
A rite or ceremony in general.
Investiture with the sacred thread; मांसं मूत्रं पुरीषं च प्राश्य संस्कारमर्हति Mb.12.165.76.
Obsequial ceremonies.
A polishing stone; संस्कारोल्लिखितो महामणिरिव क्षीणो$पि नालक्ष्यते Ś.6.5 (where संस्कार may mean 'polishing' also). -Comp. -पूत a.
purified by sacred rites.
purified by refinement or education. -भूषणम् (speech) adorned by correctness. -रहित, -वर्जित, -हीन a. (a person of one of the three higher castes) over whom the purificatory ceremonies, particularly the threadceremony, have not been performed and who therefore becomes a Vrātya or outcast; cf. व्रात्य. -शब्दः a word which gains its currency owing to संस्कार; संस्कारशब्दा एते आहवनीयादयः ŚB. on MS.5.3.21.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संस्कार/ सं-स्कार m. ( ifc. f( आ). )putting together , forming well , making perfect , accomplishment , embellishment adornment , purification , cleansing , making ready , preparation , dressing (of food) , refining (of metals) , polishing (of gems) , rearing (of animals or plants) Gr2S3rS. MBh. Ka1v. , etc.
संस्कार/ सं-स्कार m. cleansing the body , toilet , attire Hariv.
संस्कार/ सं-स्कार m. forming the mind , training , education R. Ragh.
संस्कार/ सं-स्कार m. correction (also in an astronomical sense Su1ryas. ), correct formation or use of a word Nir. Sarvad.
संस्कार/ सं-स्कार m. correctness , purity ( esp. of pronunciation or expression) MBh. R. etc.
संस्कार/ सं-स्कार m. making sacred , hallowing , consecration Mn. MBh. etc.
संस्कार/ सं-स्कार m. a sacred or sanctifying ceremony , one which purifies from the taint of sin contracted in the , womb and leading to regeneration (12 such ceremonies are enjoined on the first three or twice-born classes in Mn. ii , 27 , viz. 1. गर्भा-धान, 2. पुं-सवन, 3. सीमन्तो-न्नयन, 4. जात-कर्मन्, 5. नामकर्मन्, 6. निष्क्रमण, 7. अन्न-प्रा-शन, 8. चूडा-कर्मन्, 9. उपनयन, 10. केशा-न्त, 11. समावर्तन, 12. विवाह, qq. vv. ; accord. to Gaut. viii , 8 etc. there are 40 संस्कारs) Gr2S. Mn. MBh. etc. ( IW. 188 ; 192 etc. RTL. 353 )
संस्कार/ सं-स्कार m. the ceremony performed on a dead body( i.e. cremation) R.
संस्कार/ सं-स्कार m. any purificatory ceremony W.
संस्कार/ सं-स्कार m. the faculty of memory , mental impression or recollection , impression on the mind of acts done in a former state of existence (one of the 24 qualities of the वैशेषिकs , including भावना, " the faculty of reproductive imagination ") Kan2. Sarvad. ( IW. 69 )
संस्कार/ सं-स्कार m. ( pl. , with Buddhists) a mental conformation or creation of the mind (such as that of the external world , regarded by it as real , though actually non-existent , and forming the second link in the twelvefold chain of causation or the fourth of the 5 स्कन्धस्) Dharmas. 22 ; 42
संस्कार/ सं-स्कार m. a polishing stone MW.
Vedic Rituals Hindi
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संस्कार पु.
(सम् + कृ + घञ् ‘सम्परिभ्यां करोतौ भूषणे पा. 6.1.13 इति सुडागमः) यज्ञ का एक कृत्य, आप.श्रौ.सू. 1.1०.21, अर्थात् अगिन् के चारों ओर आस्तरण, लकड़ी के कुन्दों (टुकड़ों) को लाना, आदि, 8.5.19; पकाने एवं तैयार करने जैसे कृत्य, ‘गार्हपत्ये संस्काराः’, का.श्रौ.सू. 1.8.34 (संस्कार गार्हपत्य पर सम्पन्न किये जाते है; अधिश्रयण-पर्यगिन्करणप्रतपनादयः संस्कारा गार्हपत्ये कर्तव्याः, स.वृ. वही)