सः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सः, पुं, ईश्वरः । सर्पः । इति शब्दरत्नावली ॥ पक्षी । इत्येक्षाकरकोषः ॥ विष्णुः । यथा । सः स्याद्विष्णौ हरे सर्पे । इति भरतैकार्थसंग्रहः ॥ पूर्व्योक्तपरामर्शकः । से इति भाषा । तच्छब्दस्य प्रथमैकवचननिष्पन्नः । यथा भट्टिः । १ । २ । “सौऽध्यैष्ट वेदांस्त्रिदशानयष्ट पितॄनपारीत् सममंस्त बन्धून् ॥” समासपूर्वपदत्वे सहार्थः । यथा । समातृकः । क्वचित् समानार्थश्च । यथा । सरूपः । इति व्याकरणम् ॥

"https://sa.wiktionary.org/w/index.php?title=सः&oldid=505254" इत्यस्माद् प्रतिप्राप्तम्