सामग्री पर जाएँ

सकण्टकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सकण्टकः, पुं, (कण्टकेन सह वर्त्तमानः ।) शैवालः । इति शब्दचन्द्रिका ॥ करञ्जविशेषः । इति रत्नमाला ॥ नाटाकरञ्ज इति भाषा ॥ कण्टकयुक्ते, त्रि । यथा, -- “शीतलोष्णसमायुक्तसकण्टकदलान्वित । हर पापमपामार्ग भ्राम्यमाणः पुनः पुनः ॥” इति तिथ्यादितत्त्वम् ॥ (लोमाञ्चिते च त्रि । यथा, कथासरित्- सागरे । २५ । २२० । “स तं साहसिकस्पर्शभीतैरिव सकण्टकैः । अङ्गैः प्रणतमालिङ्ग्य मुमुदे भूपतिश्चिरम् ॥”) सकरः, त्रि, हस्तयुक्तः । राजस्वविशिष्टः । शुण्ड- युक्तः । किरणविशिष्टः । करेण सह वर्त्तते योऽसौ । इति बहुव्रीहिसमासनिष्पन्नः ॥

"https://sa.wiktionary.org/w/index.php?title=सकण्टकः&oldid=173559" इत्यस्माद् प्रतिप्राप्तम्