सकार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सकार¦ ऊष्मवर्णभेदः तस्योच्चारणस्थानं दन्तमूलं तस्योच्चारणेआभ्यलरप्रयत्नः विवृते जिह्वाग्रेण अद्धंस्पर्शनेन चोचा-र्य्यमाणत्वात् अर्द्धस्पृष्टम्। बाह्यपयत्ना विवारश्वासा-घोषाः महाप्राणञ्च अस्य ध्येयरूपं यथा
“सकारं शृणुचार्वङ्गि! शक्तिवीजं परात्परम्। कोटिविद्युल्लताकारंकुण्डलीत्रयसयुतम्। पञ्चदेवमयं देवि! पञ्चपाणा-त्मकं सदा। रजःसत्त्वतमोयुक्तं त्रिबिन्दुसहितं सदा” कामधेनुत॰। तस्याधिष्ठातृदेवतारूपं यथा
“शुक्लाम्बरांशुक्लवर्णां द्विभुजां रक्तलीचनाम्। श्वेतचन्दनलिप्ताङ्गीमुक्ताहारोपशाभिताम्। गन्धर्वगोयमानाञ्च सदानन्दमयींपराम्। अष्टसिद्धिप्रदां नित्यां भक्तानन्दविवर्द्धिनीम्। एवं ध्यात्वा सकारन्तु तन्मन्त्रं दशधा जपेत्” वर्णोद्धारत॰अस्य वाचकशब्दाः
“साहंसः सुयशा विष्णुर्भृग्वीश-श्चन्द्रसंज्ञकः। जगद्वीजं शक्तिनामा सोहं वेशवती भृगुः। प्रकृतिरीश्वरः शुद्धः प्रभा श्वेता कुलोज्वलः। दक्षपा-दोऽमृतं ब्राह्मी परमात्मा परोऽक्षयः। सुरूपा च गु-णेशो गौः कलकण्ठो वृकादरी। प्राणाद्या च परा देवीलाक्ष्मीः सोमो हिरण्यपू। दुर्गोत्तारणसम्मोहाजीवो मूर्त्तिर्मनोहरः” वर्णाभिधा॰। मातृकान्यामेऽस्य दक्षपाद न्यास्यता। काव्यादो प्रयोगे फलं सुखम्
“सः सौख्यं हस्तु स्वंदम्” वृ॰ र॰ टी॰। षोपदेशधातूनांप्रयागे दन्त्यादित्वम्
“सकारजः षकारश्चेत्युक्तेः सतिनिमित्ते पुनः षत्वम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सकार [sakāra], a. Active, energetic; Śi.19.27.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सकार/ स--कार m. the sound or letter स्Pra1t.

सकार/ स--कार mfn. (for 1. and 2. See. p.1111) active , energetic S3is3. xix , 17.

"https://sa.wiktionary.org/w/index.php?title=सकार&oldid=381693" इत्यस्माद् प्रतिप्राप्तम्