सखा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सखा, [इ] पुं, (समानः ख्यायते इति । समान + ख्या + “समाने ख्यः सचोदात्तः ।” उणा० ४ । १३६ । इति इञ् । टिलोपयलोपौ समा- नस्य स्वभावश्च ।) सौहार्दयुक्तः । समानः ख्यायते जनैः नाम्नीति डिः मनीषादित्वात् ख्यातेर्यलोपः समानस्य सभावश्च सख्यृद्भ्या- मिति सेर्डा । इत्यमरटीकायां भरतः ॥ तत्प- र्य्यायः । आक्रन्दः २ मित्रम् ३ सुहृत् ४ । इति जटाधरः ॥ वयस्थः ५ सवयाः ३ स्निग्धः ७ सहचरः ८ । इति हेमचन्द्रः ॥ (यथा माघे । २ । ३६ । “सखागरीयान् शत्रुश्च कृत्रिमस्तौ हि कार्य्यतः स्याताममित्रौ मित्रे च सहजप्राकृतावपि ॥”) सहायः ! इति मेदिनी ॥ तत्पत्नीगमने दोषो यथा, -- “गुरुतल्पव्रतं कुर्य्यात् रेतः तिक्त्वा स्वयोनिषु । सख्युः पुत्त्रस्य च स्त्रीषु कुमारीष्वन्त्यजासु च ॥ इति प्रायश्चित्ततत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=सखा&oldid=173602" इत्यस्माद् प्रतिप्राप्तम्