सङ्कुलम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सङ्कुलम्, क्ली, (सङ्कुलतीति । सं + कुलं संस्त्याने + इगुपधेति कः ।) युद्धम् । इत्यजयः ॥ (यथा, हरिवंशे । ९१ । ९५ । “ततो बलेन महता गजानीकेन चाप्यथ । उभयोरन्तरं ताभ्यां सङ्कुलं समपद्यत ॥”) परस्परपराहतवाक्यम् । तत्पर्य्यायः । क्लिष्टम् २ । इत्यमरः ॥ “द्वे पूर्व्वापरविरुद्धे वाक्ये । यथा -- ‘यावज्जीवमहं मौनी ब्रह्मचारी पिता मम । माता च मम बन्ध्या स्यात् स्मरामोऽनुपमो भवान् ॥’ कुलजबन्धुसंहत्योः संपूर्व्वः इजुङत्वात् कः । क्लिश्यतेः क्तः क्लिष्टम् । परस्परं पराहतं विरुद्धं परस्परपराहतम् । तत्र सरस्वती- कण्ठाभरणे तु क्लिष्टलक्षणं यथा, -- ‘दूरे यस्यार्थसंवित्तिः क्लिष्टं नेष्टं हि तत् सताम् ।’ यथा, -- ‘विजितात्मभवद्वेषिगुरुपादहतो जनः । हिमापहामित्रधरैर्व्याप्तं व्योमाभिनन्दति ॥’ अस्यार्थः । विना गरुडेन जित इन्द्रस्तस्यात्म- भवोऽर्ज्जुनस्तस्य द्वेषी कर्णः तस्य गुरुः पिता सूर्य्यः तस्य पादै रश्मिभिर्हतो जनो लोकः व्योम आकाशमभिनन्दति । कीदृशं हिमापहो- ऽग्निस्तस्यामित्रं जलं तद्धारयन्ति ये तैर्मेघैर्व्या- प्तम् ।” इति तट्टीकायां भरतः ॥ (सङ्कीर्णता । यथा, महाभारते । ३ । १४२ । ३८ । “एतस्मिन् सङ्कुले तात वर्त्तमाने भयङ्करे । अतिभारात् वसुमती योजनानां शतं गता ॥”)
सङ्कुलम्, त्रि, (सं + कुल संस्त्याने + कः ।) जना- दिभिर्निरवकाशम् । तत्पर्य्यायः । सङ्कीर्णम् २ । आकीर्णम् ३ । इत्यमरः ॥ कलिलम् ४ गह- नम् ५ । इति केचित् ॥ सङ्कीर्य्यते स्म जना- दिभिर्निरन्तरं व्याप्यते स्म सङ्कीर्णं कृश विक्षेपे क्तः । संकुलति सङ्कुलं कुल ज बन्धुसंहत्योः संपूर्व्वेजुङ्त्वात् कः । संकुलं दन्त्यादि । शकि- धातोरुले शङ्कुलं तालव्यादीति स्वामी । आकीर्णं सङ्कीर्णवत् । इति भरतः ॥ (यथा, महाभारते । १ । ११३ । २६ । “ततः सेनामुपादाय पाण्डुर्नानाविधध्वजाम् । प्रभूतहस्त्यश्वयुतां पदातिरथसङ्कुलाम् ॥”)