सङ्केत
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सङ्केतः, पुं, सङ्कित्यते उच्यतेऽत्र । (सं + कित + धञ् ।) स्वाभिप्रायष्यञ्जकचेष्टाविशेषः । तत्प- र्य्यायः । प्रज्ञप्तिः २ परिभाषा ३ शैली ४ समयः ५ आकारः ६ । इति त्रिकाण्डशेषः ॥ उदा- हरणं यथा, -- “सङ्केतप्रियशङ्कया निजपतिं प्रावोचदध्वश्रमम् ।” इति रससंग्रहः ॥ (यथा च साहित्यदर्पणे । “सङ्केतकालमनसं विटं ज्ञात्वा विदग्धया । हसन्नेत्रार्पिताकुतं लीलापद्मं निमीलितम् ॥”) न्यायमते यथा । सङ्केतो लक्षणा चार्थे पद- वृत्तिः । वृत्त्या पदप्रतिपाद्योऽर्थ एव पदार्थ इत्यभिधीयते । इदं पदमिमर्थं बोधयत्विति अस्माच्छब्दादयमर्थो बोद्धव्य इति वेच्छा सङ्केतरूपा वृत्तिः । तत्राधुनिकसङ्केतः परि- भाषा । तया अर्थबोधकं पदं पारिभाषिकम् । यथा शास्त्रकारादिसङ्केतितनदीवृद्ध्यादिपदम् । ईश्वरसङ्केतः शक्तिः । तया अर्थबोधकं पदं वाचकम् । यथा गोत्वादिविशिष्टबोधकगवादि- पदम् । तद्बोध्योऽर्थो गवादिर्वाच्यः स एव मुख्यार्थ इत्युच्यते । इति शक्तिवादे गादाधरी टीका ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सङ्केत¦ पु॰ सम् + कित--घञ्। मनोगतभावव्यञ्जनाय कृतेहस्तादिचालनरूपे
१ व्यापारे (इसारा) त्रिका॰।
“अस्ना-च्छब्दादयमर्थोबोध्यः, अयं शब्दः अमुमर्थं बोधयतु वा” इत्येवंशब्दनिष्ठे
२ अर्थबोधनाशक्तिविशेषे सङ्केतश्चजात्यादिचतुष्के इति वैयाकरणाः।
“शब्दैरेव प्रतीयन्ते जातिदूव्यगुणक्रियाः। चातुर्विध्या-दमीषान्तु शब्द उक्तश्चतुर्विधः” काव्यादर्शः।
“सङ्केतोगृह्यते जातौ गुणद्रव्यक्रियासु च” हरिः
“जातिदू-व्यगुणस्पन्दैर्धर्मैः सङ्केतवत्तया। जातिशब्दादिभेदेनचातुर्विध्यं परे जगुः” वैयाकरणमतम् शब्दश॰ प्र॰उक्तम्।
“रूढं सङ्केतवन्नास सैव संज्ञेति कीर्त्त्यते” शब्दश॰। शक्तिशब्दे
५०
७६ पृ॰ दृश्यम्।
३ प्रियसङ्ग-मार्थे गुप्तस्थाने च।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सङ्केत¦ r. 10th cl. (सङ्केतयति-ते)
1. To call or invite.
2. To counsel or advise.
3. To fix or appoint a time.
सङ्केत¦ m. (-तः)
1. Engagement, agreement, appointment, convention.
2. Condition, provision, the circumstances under which any thing is necessarily or naturally effected.
3. Sign, gesture, gesticulation. [Page750-a+ 60]
4. A short explanatory rule, (in gram.) n. (-तं) Rendezvous. E. सङ्केत to appoint a time, &c., aff. अच्; or सम + कित-घञ् |