सङ्ख्या

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सङ्ख्या, स्त्री, (संख्यायतेऽनयेति । सं + ख्या + अङ् । टाप् ।) बुद्धिः । इति राजनिर्घण्टः ॥ यथा विंशत्या पुरुषैः विंशतिः कुलानीति विंशतिः श्रुतिरष्टाविंशतियावत् एवं त्रिंशत् श्रुतिरष्टात्रिंशद्यावत् एवं चत्वारिंशदादौ । पङ्क्तिर्दशसङ्ख्या तामारभ्य परार्द्धन्तं दश- गुणोत्तरं दशगुणाधिकं क्रमात् शतसहस्रादि भवति । क्रमादितिपदोपादानादयमर्थः एकं दशगुणितं पङ्क्तिरुच्यते । दशपङ्क्तयः शतम् । दशशतानि सहस्रम् । एवं दशगुणितं सहस्र- मयुतम् । एवं लक्षनियुतादि ज्ञेयम् । तथा च । ब्रह्माण्डपुराणम् । ‘एकं दश शतञ्चैव सहस्रमयुतं तथा । लक्षञ्च नियुतञ्चैव कोटिरर्वुदमेव च ॥ वृन्दः खर्व्वो निखर्व्वश्च शङ्खपद्मौ च सागरः । अन्त्यं मध्यं परार्द्धञ्च दशवृद्ध्या यथाक्रमम् ॥’ शतं तालव्यशकारम् । सहस्रं द्विदन्त्यसका- रम् ।” इति भरतः ॥ * ॥ न्यायमते अस्या गणनव्यवहारे कारणत्वम् । एकत्वं नित्य- वस्तुनि नित्यम् । अन्यत्र अनित्यम् । द्बित्वादि- परार्द्धपर्य्यन्तं अपेक्षाबुद्धेर्ज्जायते । एवं अपेक्षा- बुद्धिनाशे तेषां नाशः । पर्य्याप्तिसम्बन्धेन अने- काश्रये तिष्ठन्ति । यथा, -- “गणनव्यवहारे तु हेतुः संख्या विधीयते । नित्येषु नित्यमेकत्वमनित्येऽनित्यमिष्यते ॥ द्वित्वादयः परार्द्धन्ता अपेक्षा बुद्धिजा मताः । अनेकाश्रयपर्य्याप्ता एते तु परिकीर्त्तिताः ॥ अपेक्षाबुद्धिनाशाच्च तेषां नाशो निरूपितः । अनेकैकत्वबुद्धिर्या सापेक्षा बुद्धिरुच्यते ॥” इति भाषापरिच्छेदः ॥ * ॥ अपि च । श्रीमैत्रेय उवाच । “परार्द्धसंख्यां भगवन् ! ममाचक्ष यया तु सः । द्विगुणीकृतया ज्ञेयः प्राकृतः प्रतिसञ्चरः ॥ श्रीपराशर उवाच । स्थानात् स्थानं दशगुणमेकस्माद्गुण्यते द्विज । ततोऽष्टादशमे भागे परार्द्धमभिधीयते ॥ परार्द्धद्वितयं यत्तु प्राकृतः प्रलयो द्विजः । तदाव्यक्तेऽखिलं व्यक्तं सहेतौ लयमेति वै ॥” इति विष्णुपुराणे ६ अंशे ३ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सङ्ख्या स्त्री।

विचारणम्

समानार्थक:चर्चा,सङ्ख्या,विचारणा

1।5।2।3।4

धीर्धारणावती मेधा सङ्कल्पः कर्म मानसम्. अवधानं समाधानं प्रणिधानमं तथैव च। चित्ताभोगा मनस्कारश्चर्चा संख्या विचारणा। विमर्शो भावना चैव वासना च निगद्यते॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SAṀKHYĀ : In ancient India digits up to 19 were in vogue. Bhāskarācārya the great mathematician, has in his work, “Līlāvatī”, given the following names to the nineteen digits. 1 Ekam 10 Daśam 100 Śatam 1000 Sahasram 10000 Ayutam 100000 Lakṣam 1000000 Prayutam 10000000 Koṭi 100000000 Arbudam 1000000000 Abjam 10000000000 Kharvam 10000000000000 Trikharvam 1000000000000 Mahāpadmam 1000000000000 Śaṅku 1000000000 Jaladhi 100000000000000 Antyam 1000000000000000 Madhyam 100000000000000000 Parārdham 1000000000000000000 Daśaparārdham.


_______________________________
*7th word in left half of page 680 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सङ्ख्या&oldid=439349" इत्यस्माद् प्रतिप्राप्तम्