सङ्गति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सङ्गतिः, स्त्री, (सं + गम + क्तिन् ।) सङ्गमः । ज्ञानम् । इति मेदिनी ॥ न्यायमते । आनन्त- र्य्याभिधानप्रयोजकजिज्ञासाजनकज्ञानविषयो ह्मर्थः । सा च षोढा । प्रसङ्गः १ । सङ्गतित्वे सति उपोद्घातादिभिन्नः । यथा सामान्यलक्ष- णायां प्रसङ्गसङ्गतिः । उपोद्घोतः २ । निर्द्दि- ष्टोपपादकत्वम् । यथा परामर्शप्रवर्त्तकज्ञाने च उपोद्घातसङ्गतिः ! हेतुता ३ । यथा । प्रत्यक्ष- प्रमाणे हेतुतासङ्गतिः । अवसरः ४ । अनन्तर- वक्तव्यत्वम् । यथा । उपमाने अवसरसङ्गतिः । निर्व्वाहकम् ५ । कारणतानिनिर्व्वाहकं कार्य्यत्वम् यथा । अनुगाने कार्य्यतासङ्गतिः । एककार्य्य- त्वम् ६ । एककार्य्यकारित्वम् । यथा हेत्वाभासे एककार्य्यकारित्वसङ्गतिः । इति अनुमितिग्रन्थे जगदीशतर्कालङ्कारः ॥ (मेलनम् । यथा, मोह- मुद्गरे । ६ । “क्षणमिह सज्जनसङ्गतिरेका भवति भवार्णवतरणे नौका ॥” युक्तिः । यथा, -- “त्वमद्य भव नो राजा राजपुत्त्र महायशः । सङ्गत्या नापराध्नोति राज्यमेतदनायकम् ॥” इति रामायणे । २ । ७९ । ३ ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सङ्गति¦ स्त्री सम् + गम--क्तिन्।

१ सङ्गमे

२ मेलने न्यायोक्तेअनन्तराभिधानप्रयोजकजिज्ञासाजनकज्ञानविषये
“सप्र-सङ्ग उपोद्बातो हेतुतावसरस्तथा। निर्वाहकैककार्य्य-त्वे षोढा सङ्गतिरिष्यते” इत्युक्ते

३ प्रसङ्गादौ पदार्थे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सङ्गति¦ f. (-तिः)
1. Meeting, union, mixture.
2. Knowledge.
3. Associa- tion, intercourse.
4. Frequenting, going to.
5. Accidental meeting.
6. Relation, applicability, connection.
7. Questioning for con- tinued or further information. E. सम् together, गति going.

"https://sa.wiktionary.org/w/index.php?title=सङ्गति&oldid=382918" इत्यस्माद् प्रतिप्राप्तम्