सङ्गीत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सङ्गीतम्, क्ली, (सं + गे + क्तः ।) प्रेक्षणार्थनृत्य- गीतवाद्यम् । यथा, हेमचन्द्रः । “गीतवाद्यनृत्यत्रयं नाट्यं तौर्य्यत्रिकञ्च तत् । सङ्गीतं प्रक्षणार्थेऽस्मिन् शास्त्रोक्ते नाट्य- धर्म्मिका ॥” नृत्यगीतवाद्यस्य शास्त्रम् । तत्तु सोमेश्वरभरत- हनूमत्कल्लिनाथमतभेदात् चतुर्व्विधम् । अधुना हनूमन्मतं प्रचलितम् । तस्य अध्यायाः सप्त । स्वराध्यायः १ रागाध्यायः २ तालाध्यायः ३ नृत्याध्यायः ४ भावाध्यायः ५ कोकाध्यायः ६ हस्ताध्यायश्च ७ । इति सङ्गीतशास्त्रम् ॥ * ॥ सङ्गीतावसाने ताम्बूलदानप्रमाणं यथा, -- “ता वासुदेवोऽप्यनुरक्तचित्तः संनृत्य गीताभिनयैरुदारैः । नरेन्द्रसूनो परितोषितेन ताम्बूलयोगेन वराप्सरोभिः ॥ तदागताभिर्नृवराहृतास्तु कृष्णेप्सया मानमयास्तथैव । फलानि गन्धोत्तमवन्ति वीरा- श्छालिक्यगान्धर्व्वमथाहृतञ्च ॥ कृष्णेच्छया च त्रिदिवान्नृदेव अनुग्रहार्थं भूवि मानुषाणाम् । स्थितञ्च रम्यं हरितेजसेव प्रयोजयामास स रौक्मिणेयः । छालिक्यगान्धर्व्वमुदारबुद्धि- स्तेनेव ताम्बूलमथ प्रयुक्तम् ॥” इति हरिवशे भानुमतीहरणे जलक्रीडायाम् १४८ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सङ्गीत¦ न॰ सम् + गै--क्त।

१ दर्शनार्थे नाट्यगीतवाग्रतिकेहेमच॰।

२ तत्पतिपादकग्रन्थे च। कर्मणि क्त।

३ स-म्यग्गीते त्रि॰। सङ्गीतशास्त्राणि च नानाविधानि तत्रमूलग्रन्थकर्त्तारश्चत्वारः भरतहनुमत्सोमेश्वरकलनावास्त{??}हनूमद्ग्रन्थस्यैव लोकेऽधुना बहुलप्रचारः। तद्ग्रन्थत्यच स्वराध्यायः रागाध्यायः तालाध्यायः नृत्याध्यायःभावाध्यायः कोकाध्यायः हस्ताध्यायश्चेति सप्ताध्यायः। सङ्गीतसारादौ विस्तरो दृश्यः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सङ्गीत¦ n. (-तं)
1. The exhibition of song, dancing, and music, as a public entertainment.
2. The art or science of singing accom- panied by music and dancing.
3. Chorus. f. (-ता) Sung in chorus or harmony. E. सम् together, and गीत sung. [Page751-a+ 60]

"https://sa.wiktionary.org/w/index.php?title=सङ्गीत&oldid=505264" इत्यस्माद् प्रतिप्राप्तम्