सङ्गीतम्
संस्कृतम्
[सम्पाद्यताम्]
- गीतं, संगीतं, वाद्यविद्या, शास्त्रं, तालैक्यं, स्वरानुपूर्व्यं, माधुर्यं, तौर्यं, वाद्यघोषः।
नाम
[सम्पाद्यताम्]- सङ्गीतः नाम कला शब्दैः नादैः शक्त्या च सञ्चाल्यमाना सहजा क्रिया ।
| एकवचनम् | द्विवचनम् | बहुवचनम् | |
|---|---|---|---|
| प्रथमा विभक्तिः | सङ्गीतम् | सङ्गीते | सङ्गीतानि |
| सम्बोधनप्रथमा | सङ्गीत | सङ्गीते | सङ्गीतानि |
| द्वितीया विभक्तिः | सङ्गीतम् | सङ्गीते | सङ्गीतानि |
| तृतीया विभक्तिः | सङ्गीतेन | सङ्गीताभ्याम् | सङ्गीतैः |
| चतुर्थी विभक्तिः | सङ्गीताय | सङ्गीताभ्याम् | सङ्गीतेभ्यः |
| पञ्चमी विभक्तिः | सङ्गीतात् | सङ्गीताभ्याम् | सङ्गीतेभ्यः |
| षष्ठी विभक्तिः | सङ्गीतस्य | सङ्गीतयोः | सङ्गीतानाम् |
| सप्तमी विभक्तिः | सङ्गीते | सङ्गीतयोः | सङ्गीतेषु |
अनुवादाः
[सम्पाद्यताम्]उदाहरणानि
[सम्पाद्यताम्]- अहं सङ्गीतपाठशाला गच्छामि।
- अहं मृदंगवादनं करोमि।
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सङ्गीतम्, क्ली, (सं + गे + क्तः ।) प्रेक्षणार्थनृत्य- गीतवाद्यम् । यथा, हेमचन्द्रः । “गीतवाद्यनृत्यत्रयं नाट्यं तौर्य्यत्रिकञ्च तत् । सङ्गीतं प्रक्षणार्थेऽस्मिन् शास्त्रोक्ते नाट्य- धर्म्मिका ॥” नृत्यगीतवाद्यस्य शास्त्रम् । तत्तु सोमेश्वरभरत- हनूमत्कल्लिनाथमतभेदात् चतुर्व्विधम् । अधुना हनूमन्मतं प्रचलितम् । तस्य अध्यायाः सप्त । स्वराध्यायः १ रागाध्यायः २ तालाध्यायः ३ नृत्याध्यायः ४ भावाध्यायः ५ कोकाध्यायः ६ हस्ताध्यायश्च ७ । इति सङ्गीतशास्त्रम् ॥ * ॥ सङ्गीतावसाने ताम्बूलदानप्रमाणं यथा, -- “ता वासुदेवोऽप्यनुरक्तचित्तः संनृत्य गीताभिनयैरुदारैः । नरेन्द्रसूनो परितोषितेन ताम्बूलयोगेन वराप्सरोभिः ॥ तदागताभिर्नृवराहृतास्तु कृष्णेप्सया मानमयास्तथैव । फलानि गन्धोत्तमवन्ति वीरा- श्छालिक्यगान्धर्व्वमथाहृतञ्च ॥ कृष्णेच्छया च त्रिदिवान्नृदेव अनुग्रहार्थं भूवि मानुषाणाम् । स्थितञ्च रम्यं हरितेजसेव प्रयोजयामास स रौक्मिणेयः । छालिक्यगान्धर्व्वमुदारबुद्धि- स्तेनेव ताम्बूलमथ प्रयुक्तम् ॥” इति हरिवशे भानुमतीहरणे जलक्रीडायाम् १४८ अध्यायः ॥
