सञ्चय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सञ्चयः, पुं, (सञ्चीयते इति । सम् + चि + “एरच्” ३ । ३ । ५६ । इत्यच् ।) समूहः । इत्यमरः ॥ यथा, कथासरित्सागरे । १८ । १२८ । “तस्थौ स सेवमानस्तं राजानं स तदाश्रितः । भुञ्जानश्च सहान्यै स्तैर्ब्राह्मणैर्ग्रामसञ्चयम् ॥”) संग्रहः । यथा, “शक्तेनापि हि शूद्रेण न कार्य्यो धनसञ्चयः । शूद्रो हि धनमासाद्य ब्राह्मणानेव बाधते ॥” इत्याह्लिकाचारतत्त्वम् ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सञ्चय पुं।

समूहः

समानार्थक:समूह,निवह,व्यूह,सन्दोह,विसर,व्रज,स्तोम,ओघ,निकर,व्रात,वार,सङ्घात,सञ्चय,समुदाय,समुदय,समवाय,चय,गण,संहति,वृन्द,निकुरम्ब,कदम्बक,पेटक,वार्धक,पूग,ग्राम,सन्नय,संस्त्याय,जाल,पटल,राशि

2।5।39।2।7

समूहे निवहव्यूहसंदोहविसरव्रजाः। स्तोमौघनिकरव्रातवारसङ्घातसञ्चयाः॥

 : रात्रिसमूहः, पद्मसङ्घातः, अब्जादीनाम्_समूहः, क्रय्यवस्तुशालापङ्क्तिः, पङ्क्तिः, वनसमूहः, तृणसमूहः, नडसमूहः, सजातीयैः_प्राणिभिरप्राणिभिर्वा_समूहः, जन्तुसमूहः, सजातीयसमूहः, सजातीयतिरश्चां_समूहः, पशुसङ्घः, पशुभिन्नसङ्घः, एकधर्मवतां_समूहः, धान्यादिराशिः, कपोतगणः, शुकगणः, मयूरगणः, तित्तिरिगणः, गणिकासमूहः, गर्भिणीसमूहः, युवतीसमूहः, बन्धूनां_समूहः, वृद्धसमूहः, केशवृन्दम्, राजसमूहः, क्षत्रियसमूहः, हस्तिवृन्दम्, गजमुखादिस्थबिन्दुसमूहः, गजशृङ्खला, निर्बलहस्त्यश्वसमूहः, अश्वसमूहः, रथसमूहः, धृतकवचगणः, हस्तिसङ्घः, वृषभसङ्घः, गोसमूहः, वत्ससमूहः, धेनुसमूहः, उष्ट्रसमूहः, मेषसमूहः, अजसमूहः, सजातीयशिल्पिसङ्घः, औपगवानां_समूहः, अपूपानां_समूहः, शष्कुलीनां_समूहः, माणवानां_समूहः, सहायानां_समूहः, हलानां_समूहः, ब्राह्मणानां_समूहः, वाडवानां_समूहः, पर्शुकानां_समूहः, पृष्ठानां_समूहः, खलानां_समूहः, ग्रामाणां_समूहः, जनानां_समूहः, धूमानां_समूहः, पाशानां_समूहः, गलानां_समूहः, सहस्राणां_समूहः, कारीषाणां_समूहः, चर्मणां_समूहः, अथर्वणां_समूहः, मेघपङ्क्तिः, सङ्घातः, समूहः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सञ्चय¦ पु॰ सम् + चि--अच्।

१ समूहे अमरः।

२ संग्रहे च। ल्युट्। सञ्चयन। सङ्ग्रहे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सञ्चय¦ m. (-यः)
1. Heap, quantity, number, multitude.
2. Gathering. E. सम् together, चि to collect, aff. अच् |

"https://sa.wiktionary.org/w/index.php?title=सञ्चय&oldid=383879" इत्यस्माद् प्रतिप्राप्तम्