सत्यः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्यः, पुं, (सते हितः । सत् + यत् ।) श्रीरामः । यथा, -- “कौशल्यानन्दनः श्रीशः सत्यो दशमुस्त्रान्तकः ॥” इति शब्दरत्नावली ॥ विष्णुः । यथा, -- “औत्तमेऽप्यन्तरे विष्णुः सत्यैः सह स्यधोत्तमैः । सत्यायामभवत् सत्यः सत्यरूपो जनार्द्दनः ॥” इति कौर्न्मे ४८ अध्यायः ॥ * ॥ अन्यच्च । “सत्यव्रतं सत्यपरं त्रिसत्यं सत्त्यस्य योनिं निहितञ्च सत्त्य । सत्त्यस्य सत्यमृतसत्यनेत्रं सत्यात्मकं त्वां शरणं प्रपन्नाः ॥” इति श्रीभागवते १० स्कन्धे १ अध्यायः ॥ * ॥ “प्रतिश्रुतं सत्यं कृतमिति हृष्टाः प्रथमं सत्यत्वेन स्तुवन्ति सत्यव्रतमिति । सत्यं व्रतं सङ्कल्पो यस्य । सत्यं परं श्रेष्ठं प्राप्तिसाधनं यस्मिन् तम् । त्रिसत्यं त्रिष्वपि कालेषु सृष्टेः पूर्व्वं प्रलयानन्तरं स्थितिसमये च सत्यं अव्यभिचारेण वर्त्तमानम् । तत एवाहुः । सत्त्यस्य योनिमिति । सच्छब्देन पृथिव्यप्तेजांसि । त्यशब्देन वाय्वाकाशौ । एवं सच्च त्यश्च सत्त्यं भूतपञ्चकम् । तं सत्त्यमित्या- चक्षते इति श्रुतेः । तस्य योनिं कारणं अनेन सृष्टेः पूर्व्वं वर्त्तमानातोक्ता । तथा सत्त्ये तस्मि- न्नेव निहितं अन्तर्य्यामितया स्थितं अनेन स्थिति- समये च सत्यत्वमुक्तम् । तथा सत्त्यस्य सत्यं तस्यैव सत्त्यस्य सत्यं पारमार्थिकं नाशेऽपि अवशिष्यमानं रूपं अनेन प्रलयेऽप्यवधित्वेन सत्यत्वं दर्शितं एवं त्रिसत्यत्वमुपपादितम् । तथा ऋतसत्यनेत्रम् । ऋतञ्च सूनृता वाणी सत्यञ्च समदर्शनम् । तथा भगवता व्याख्यास्यमानत्वात् सत्यञ्च समदर्शनमिति ऋतञ्च सूनृता वाणी कविभिः परिकीर्त्तिता ॥ इति तयोर्नेत्रं नयन- साधनं नेतारं प्रवर्त्तकमिति यावत् । एवं सर्व्व- प्रकारेण सत्यात्मकं तां वयं शरणं प्रपन्ना इत्यर्थः ।” इति श्रौधरस्वामी ॥ * ॥ अश्वत्थवृक्षः । इति राजनिर्घण्टः ॥ नान्दीमुखश्राद्धदेवः । यथा, “इष्टिश्राद्धे क्रतुर्द्दक्षः सत्यो नान्दीमुखे वसुः । नैमित्तिके कालकामौ काम्येच धुरिलोचनौ ॥” इति श्राद्धतत्त्वम् ॥ * ॥ (मुनिविशेषः । यथा, महाभारते । २ । ४ । १० । “असितो देवलः सत्यः सर्पमाली महाशिराः ॥” देवगणविशेषः । यथा, मार्कण्डेये । ७१ । १ -- २ “मन्वन्तरे तृतीयेऽस्मिन् उत्तमस्य प्रजापतेः । देवानिन्द्रानृषीन् भूपान् निबोध गदतो मम ॥ स्वधामानस्तथा देवा यथानामानुकारिणः । सत्याख्यश्च द्वितीयोऽन्यस्त्रिदशानां तथा गणः ॥”) तपोलोकादूर्द्ध्वलोकः । इति विश्वः ॥ अस्य विव- रणं सत्यलोकशब्दे द्रष्टव्यम् ॥

"https://sa.wiktionary.org/w/index.php?title=सत्यः&oldid=173968" इत्यस्माद् प्रतिप्राप्तम्