सत्यनारायण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्यनारायणः, पुं, (सत्यो नारायणः ।) देवता- विशेषः । सत्यपीर इति भाषा । तस्य व्रतकथा यथा, -- “एकदा मुनयः सर्व्वे सर्व्व लोकहिते रताः । सुरम्ये नैमिषारण्ये गोष्ठीञ्चक्रुर्म्मनोरमाम् ॥ तत्रान्तरे महातेजा व्यासविष्यो महायशाः । सूतः शिष्यगणैर्युक्तः समायातो हरिं स्मरन् ॥ तमायान्तं समालोक्य सूतं शास्त्रार्थपारगम् । नेमुः सर्व्वे समुत्थाय शौनकाद्यास्तपोधनाः ॥ सोऽपि तान् सहसा भक्त्या मुनीन् परमवैष्णवान् ननाम दण्डवद्भूमौ सर्व्वधर्म्मविदांवरः ॥ वरासने महाबुद्विस्तैर्द्दत्ते मुनिपुङ्गवैः । उवास स सभामध्ये सर्व्वैः शिष्यगणैवृतः ॥ तत्रोपविष्टं तं सूतं शौनको मुनिसत्तमः । बद्धाञ्जलिरिमां वाचमुवाच विनयान्वितः ॥ शौनक उवाच । महर्षे सूत सर्व्वज्ञ कलिकाले समागते । केनोपायेन भगवन् हरिभक्तिर्भवेन्नृणाम् ॥ कलौ सर्व्वे भविष्यन्ति पापकर्म्मपरायणाः । वेदविद्याविहिनाश्च तेषां श्रेयः कथं भवेत् ॥ कलावन्नगतप्राणा लोकाः स्वल्पायुषस्तथा । निधनाश्च भविष्यन्ति नानापीडाप्रपीडिताः ॥ प्रयाससाध्यं सुकृतं शास्त्रेषु श्रूयते द्विज । तस्मात् केऽपि करिष्यन्ति कली न सुकृतं जनाः ॥ सुकृतेषु विनष्टेषु प्रवृत्ते पापकर्म्मणि । सवंशाः प्रलयं सर्व्वे गमिष्यन्ति दुराशयाः ॥ स्वल्पश्रमैरल्पवित्तैरल्पकालैश्च सत्तम ॥ यथा भवेन्महापुण्यं तथा कथय सूत नः ॥ यस्योपदेशतः पुण्यं पापं वा कुरुते जनः । स तद्भागी भवेन्मर्त्त्य इति शास्त्रेषु निश्चितम् ॥ पुण्योपदेशी सदयः कैतवैश्च विवर्ज्जितः । पापायनविरोधी च चत्वारः केशवोपमाः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्यनारायण¦ पु॰ कर्म॰। संक्रान्त्यादिषु पूज्ये नारायण-मूर्त्तिभेदे स्कन्दपु॰ रेवा॰

४ अ॰ तत्कथा दृश्या।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्यनारायण/ सत्य--नारायण m. N. of a partic. divinity (called Satyapir in Bengali) MW.

"https://sa.wiktionary.org/w/index.php?title=सत्यनारायण&oldid=385778" इत्यस्माद् प्रतिप्राप्तम्