सदागतिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदागतिः, पुं, (सदा सर्व्वदा गतिर्यस्य ।) वायुः । इत्यमरः ॥ (यथा, महाभारते । १ । ७२ । १ । “एवमुक्तस्तया शक्रः सन्दिदेश सदागतिम् । प्रातिष्ठत तदा काले मेनका वायुना सह ॥)” सूर्य्यः । निर्व्वाणम् । सदीश्वरः । इति मेदिनी ॥ (सर्व्वदा गमनशीले, त्रि । यथा, महाभारते । ३ । १३३ । २५ । “चतुविंशतिपर्व्व त्वां षण्णाभि द्वादशप्रधि । तत्त्रिषष्टिशतारं वै चक्रं पातु सदागति ॥”)

"https://sa.wiktionary.org/w/index.php?title=सदागतिः&oldid=174052" इत्यस्माद् प्रतिप्राप्तम्