सन्तान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्तानः, पुं, (सन्तनोति विस्तारयति पत्रपुष्पादी- निति । सम् + तन विस्तारे + “तनोतेरुप- संख्यानम् ।” ३ । १ । १४० । इत्यस्य वार्त्ति- कोक्त्या णः ।) कल्पवृक्षः । (संतन्यते इति । तन + घञ् ।) वंशः । इत्यमरः ॥ विस्तारः । (यथा, महाभारते । १ । १०३ । १० । “तयोरुत्पादयापत्यं सन्तानाय कुलस्य नः । मन्नियोगात् महाबाहो धर्म्मं कर्त्तुमिहार्हसि ॥”) अपत्यम् । इति मेदिनी ॥ (यथा, मनुः । ९ । ५९ । “देवराद्वा सपिण्डाद्वा स्त्रिया सम्यक् नियुक्तया प्रजेप्सिताधिगन्तव्या सन्तानस्य परिक्षये ॥”) तद्वैदिकपर्य्यायः । तुक् १ तोकम् २ तनयः ३ तोक्म ४ तक्म ५ शेषः ६ अप्नः ७ गयः ८ जाः ९ अपत्यम् १० यहुः ११ सूनुः १२ नपात् १३ प्रजा १४ बीजम् १५ । इति पञ्चदशापत्य- नामानि । इति वेदनिघण्टौ । २ । २ ॥ (अस्त्र- विशेषे, क्ली । यथा, महाभारते । ५ । ९६ । ४० । “सन्तानं नर्त्तकं घोरमास्यमोदकमष्टमम् । एतैर्विद्धाः सर्व्व एव मरणं यान्ति मानवाः ॥”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्तान पुं।

देववृक्षः

समानार्थक:देवतरु,मन्दार,पारिजातक,सन्तान,कल्पवृक्ष,हरिचन्दन

1।1।50।2।1

पञ्चैते देवतरवो मन्दारः पारिजातकः। सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम्.।

स्वामी : इन्द्रः

सम्बन्धि1 : देवः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, अलौकिकसस्यः

सन्तान पुं।

वंशः

समानार्थक:सन्तति,गोत्र,जनन,कुल,अभिजन,अन्वय,वंश,अन्ववाय,सन्तान,अनूक,निधन

2।7।1।2।3

सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ। वंशोऽन्ववायः सन्तानो वर्णाः स्युर्ब्राह्मणादयः॥

 : सगोत्रः, ब्राह्मणादिवर्णचतुष्टयवाचकः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्तान¦ पु॰ सम् + तन--घञ्।

१ वंशे अन्वये अमरः।

२ कल्पवृक्षे

३ अपत्ये

४ विस्तारे च मेदि॰। [Page5211-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्तान¦ m. (-नः)
1. Family, race, lineage.
2. Offspring, progeny, a son or daughter.
3. One of the five trees of heaven.
4. Spreading, expansion.
5. Continuous line. E. सम् before तन् to spread, aff. घञ् |

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्तान न.
चर्म, मा.श्रौ.सू. 8.19.19।

"https://sa.wiktionary.org/w/index.php?title=सन्तान&oldid=505309" इत्यस्माद् प्रतिप्राप्तम्