सन्धान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्धानम्, क्ली, (सन्धीयते यदिति । सं + धा + ल्युट् ।) मद्यसज्जीकरणम् । इति नयनानन्दः ॥ तत्- पर्य्यायः । अभिषवः २ । इत्यमरः ॥ सन्धानी ३ सन्धिका ४ । इति शब्दरत्नावली ॥ सन्धीयते सन्धानं वंशाङ्कुरफलादीन् बहुकालं सन्धाय, यत् क्रियते । इति भरतः ॥ सङ्घट्टनम् । इति मेदिनी ॥ (यथा, कुमारे । ५ । २७ । “मुखेन सा पद्मसुगन्धिना निशि प्रवेपमानाधरपत्रशोभिना । तुषारवृष्टिक्षतपद्मसम्पदां सरोजसन्धानमिवाकरोदपाम् ॥”) काञ्जिकम् । इति हलायुधः ॥ मदिरा । अव- दंशः । सौराष्ट्रम् । इति राजनिर्घण्टः ॥ धनुषि बाणयोजनम् । यथा, -- “तदाशु कृतसन्धानं प्रतिसंहर शायकम् । आर्त्तत्राणाय वः शस्त्रं न प्रहर्त्तुमनागसि ॥” इत्यभिज्ञानशकुन्तलायाम् १ अङ्कः ॥ अन्वेषणम् । इति लोकप्रसिद्धम् ॥ (सन्धिः । यथा महाभारते । ५ । १० । ३३ । “एवं कृते तु सन्धाने वृत्रः प्रमुदितोऽभवत् । यत्तः समभवच्चापि शक्रो हर्षसमन्वितः ॥”) सन्दधातीति । सं + धा + ल्युः । धारके, त्रि । यथा, सुश्रुते । १ । ४५ । “मधु तु मधुरं कषायानुरसं * * हृद्यं सन्धानं शोधनं रोपणमिति ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्धान नपुं।

मद्यसन्धानम्

समानार्थक:सन्धान,अभिषव

2।10।42।1।1

सन्धानं स्यादभिषवः किण्वं पुंसि तु नग्नहूः। कारोत्तरः सुरामण्ड आपानं पानगोष्ठिका॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्धान¦ न॰ सम् + धा--ल्युट्।

१ सुरादिसम्पादनानुगुणे व्यापारे

२ सोमरसकण्डनात्मके अभिषवे

३ अनुसन्धाने

४ स-ङ्घट्टने च मेदि॰। मन्धाने स्त्रीत्वमपि तत्र ङीप्। सा च

५ कुप्यशालायां शब्दर॰। संघट्टनं च योजनम्।
“यदर्द्धे विच्छिन्नं भवति कृतसन्धानमिव तत्” शकु॰।

५ काञ्जिके हला॰।

६ मदिरायाम्

७ अवदंशे

६ सौराष्ट्रेराजनि॰

९ धनुषि शरस्य योजने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्धान¦ n. (-नं)
1. Holding together, uniting, joining.
2. Tying, binding.
3. Fixing, (as an arrow.)
4. Peace, alliance.
5. Association, com- pany.
6. Supporting, reception, receiving, sustaining.
7. Mixing, joining, intimate union or combination.
8. A relish, something eaten to excite thirst.
9. Sourrice-gruel.
10. Pickles, &c., acid preparation of the Be4l and other fruits.
11. Spirituous liquor.
12. Contracting the skin, &c. by astringent applications.
13. A joint. nf. (-नं-नी) Distillation, distilling, the manufacture of spirituous liquors. f. (-नी) A braziery, a foundery, a place where the base metals are stored or wrought. E. सम् together, धा to hold, aff. ल्युट् | [Page757-b+ 60]

"https://sa.wiktionary.org/w/index.php?title=सन्धान&oldid=389726" इत्यस्माद् प्रतिप्राप्तम्