सन्धि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्धिः, पुं, (सन्धानमिति । सं + धा + किः ।) राजादीनां षड्गुणान्तर्गतगुणविशेषः । स तु स्वर्णादिदानेन बन्धुभिः प्रीत्युत्पादनात् मित्री- करणम् । मेल इति ऐक्य इति च भाषा । तद्विवरणं यथा, -- “पनबद्धो भवेत् सन्धिः स्वयं हीनस्तमाचरेत् । मर्य्यादोल्लङ्घनं नास्ति यदि शत्रोरिति स्थितिः ॥ मर्य्यादोल्लङ्घनं यत्र शत्रौ संशयितं भवेत् । न तं संशयितं कुर्य्यादित्युवाच बृहस्पतिः ॥ बलवद्विगृहीतः सन् नृपोऽनन्यप्रतिश्रयः । बोधव्याकरणटीकायां दुर्गादासः ॥ * ॥ सर्व्वा- ङ्कुरसन्धिर्म्मासत्रयेण भवति । गात्रसन्धिः सप्त- मासैर्भवति । इति सुखबोधः ॥ युगसन्धिर्युग- शब्दे देहसन्धिर्म्मर्म्मशब्दे च द्रष्टव्यः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्धि पुं।

राज्यगुणः

समानार्थक:सन्धि,विग्रह,यान,आसन,द्वैध,आश्रय

2।8।18।2।1

राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च। सन्धिर्ना विग्रहो यानमासनं द्वैधमाश्रयः॥

वैशिष्ट्य : राजा

पदार्थ-विभागः : , गुणः

सन्धि पुं।

सन्धानम्

समानार्थक:सन्धि,श्लेष

3।2।11।1।3

उत्कर्षोऽतिशये सन्धिः श्लेषे विषय आश्रये। क्षिपायां क्षेपणं गीर्णिर्गिरौ गुरणमुद्यमे॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्धि¦ पु॰ सम् + धा--कि।

१ नृपाणां षड्गुणान्तर्गते मेलनार्थंमैत्रीकरणरूपे व्यापारेषाडगुण्यान्तर्गतसन्धिविषयादिकं शुक्रनीतिपरि॰ उक्तं यथा
“बलीयषाऽभियुक्तस्त नृपोऽनन्यपतिक्रियः। आपन्नःसन्धिमन्त्रिच्छेत् कुर्वाणः लाकयापुनम्। एक एवोप-हारस्तु सन्धिरेष मतो हितः। उपहारस्य भेदास्तुसर्वेऽन्ये मैत्रवर्जिताः। अभियोक्ता बलीयस्त्यादलब्ध्वा ननिवर्त्तते। उपहारावृते यस्मात् सन्धिरेष न विद्यते। शत्रोर्बलानुसारेण उपहारं प्रकल्पयेत्। सेवां वापि चस्त्रीकुर्य्याद् दद्यात् कन्यां भुवं धनम्। स्वसामन्तांश्च स-न्धीयात् मन्त्रेणान्यजवाय वै। सन्धिः कार्य्योऽप्यनार्य्येण{??}संप्राप्योत्साढयेद्धि सः। सैघातवान् यथा वेणुर्निविडैःकण्टकैर्वृतः। न शक्यते समुच्छेत्तुं वेणुः संघातवांस्तथा। सन्धिश्चातिबले, युद्धं साम्ये, यानन्तु दुर्बले। बलिनासह सन्धाय मये साधारणे यदि”।
“आत्मानं गोपयेत्काले बहुमित्रेषु बुद्धिमान्”।
“राजा न गच्छेद्विश्वासं स-[Page5212-b+ 38] न्धितोऽपि हि बुद्धिमान्। अद्रोहसमयं कृत्वा वृत्तमिन्द्रःसदाऽबधीत्”।
“सन्धायान्यत्र यात्रायां पार्ष्णिग्रहेण श-त्रुणा। सन्धाय गमनं प्रोक्तं तज्जिगीषोः फवार्थिनः”। तद्भेदलक्षणादिकं हितोपदेशे न्यरूपि यथा
“कपाल उपहारश्च सन्तानः सङ्गतस्तथा। उपन्यासःप्रतीकारः संयोगः पुरषान्तरः। अदृष्टनर आदिष्टआत्मादिष्ट उपग्रहः। परिक्रयस्तथोच्छिन्नस्तथा च पर-भूषणः। स्कन्धोपनेयः सन्धिश्च षाडशैते प्रकीर्त्तिताः। इति षोडशकं प्राहुः सन्धिं बन्धिविचक्षणाः। कपाल-सन्धि

१ विंज्ञेय, केवलं समसंज्ञितः। सम्प्रदानाद्भवति यउपहार

२ स उच्यते। सन्तानसन्धि

३ र्विज्ञेयो दारिकादा-नपूर्वकः। सद्भिस्तु सङ्गतः

४ सन्धिर्यैत्रीपूर्व उदाहृतः। यावदायुःप्रमाणस्तु समानार्थप्रयोलनः। सम्पत्तौ वा वि-पत्तौ वा कारणैर्यो न भिद्यते। सङ्गतः सन्धिरेवायंप्रकृष्टत्वात् सुवर्णवत्। तधान्यैः सन्धिकुशलैः काञ्चनःस उदाहृतः। द्रव्यात्मकार्य्यसिद्धिं तु समुद्दिस्य क्रियेतयः। स उपन्यासकुशलैरुपग्याह

५ उदाहृतः। पश्चास्तोप-कृतं पूर्वं भमाप्येष करिष्यति। इति यः क्रियते सन्धिःप्रतीकारः

६ स उच्यते। उपकारं करोप्यस्य महाप्येषकरिष्यति। अयं चापि प्रतीकारो रामसुग्रीवयोरिव।{??}कार्थां सम्यगुद्दिश्य क्रियां यत्र हि गच्छति। सुसंहित-प्रयाणस्तु स च संयोग

७ उच्यते। आवयोर्बोधमुख्यैस्तुमदर्थः साध्यतामिति। यस्मिन् पणस्तु क्रियते स सन्धिःपुरुषान्तरः

८ । त्वयै{??}न मदीयोऽर्थः सम्प्रसाध्यस्त्वसाविति। यत्र शत्रुः पर्ण कुर्य्यात् सोऽदृष्टपुरुषः

९ स्मृतः। यत्र भूम्ये-कटेशेन प्रणेन रिपुवर्त्तितः। सन्धीयते सन्धिविद्भिः आ-दिष्टः

१० स उदाहृतः। स्वसैन्येन तु सन्धानमात्मादिष्ट

११ उदाहृतः। क्रियते प्राणरक्षार्थं सवदानादुपग्रहः

१२ । कोषांशेनार्द्धकोषेण सर्बकोषेण वा पुनः। शिष्टस्य प्रति-रक्षार्थं परिक्रय

१३ उदाहृतः। भुवां सारवतीनां तु दा-नादुच्छिन्न

१४ उच्यते। भूम्युत्थफलदानेन सर्वेण परभू-षणः

१५ । परिच्छिन्नं फलं यत्र प्रतिस्कन्धे दीयते। ख-न्धोपनेयं

१६ तं प्राहुः सन्धिं सन्धिविचक्षणाः। परस्परो-पकारस्तु मैत्री सम्बन्धकस्तथा। उपहारश्च विज्ञेयश्चत्वा-रश्चैव सन्धयः। एक एवोपहारश्च सन्धिरेव मतो मम। उपहारविभिन्नास्तु सर्वे मैत्राववर्जिताः। अभियोक्ताबलीयस्त्वादलब्ध्वा न निवर्त्तते। उपहाराद्दते तस्मात्सन्धिरन्थो न विद्यते”। [Page5213-a+ 38] सन्धिलक्षणादिकं युक्तिकल्पतरौ प्रदर्शितं यथा
“पणबन्धा भवेत् सन्धिः स्वयं हीनस्तमाचरेत्। मर्य्या-दोल्लङ्घनं नास्ति यदि शत्रोरिति स्थितिः। मर्य्यादोल्ल-ङ्घनं यत्र शत्रो संशयितं भवेत्। न तं संशयितं कुर्य्या-दित्युवाच वृहस्पतिः”। षाड्गुण्यशब्दे

५१

७९ पृ॰ दृश्यम्

२ संयोगे अमरः।

३ अस्थिद्वयसंयोगस्थाने

४ चौरादिकृतसुरङ्गायां सन्धिं कृत्वा तु ये चौर्य्यमिति” स्मृतिः।

५ भगे

६ सङ्घट्टने

७ नाटकाङ्गविशेषे

८ सविकाशे मेदि॰

९ व्याकरणोक्तेवर्णद्वयजाते

१० वर्णविकारभेदे

११ भेदे विश्वः। नाटकाङ्गसन्धिश्च
“अन्तरैकार्थसम्यन्धः सन्धिरेकान्वये सति”। एका-र्थेन सम्बन्धः सन्धिः। तद्भेदानाह
“मुखं प्रतिमुखं गर्भोविमर्ष उपसंहृतिः। इति पञ्चास्य भेदाः स्युः क्रमाल्लक्षण-मुच्यते” सा॰ द॰। सुखादिलक्षणम् तत्तच्छब्दे दृश्यम्।

१२ स-त्यादियुगानामाद्यन्तयोः कालयोः सन्ध्याशब्दे दृश्यम्
“ससन्धयस्ते मनवः कल्पे ज्ञेयाश्चतुर्दश। कृतप्रमाणःकल्पादौ सन्धिः पञ्चदशः स्मृतः” मनुः। तेन सन्धिसन्ध्यं-शसहितं सत्ययुगमानम्

४८

०० दैववर्षाः।
“कृताव्दसङ्ख्य-स्तस्यान्ते सन्धिः प्रोक्तो जलप्लवः। तत्र युगानामादौसन्धिः अन्ते सन्ध्यंश। मन्वन्तराणामादौ सन्धिःकल्पानामन्ते सन्धिरिति भेदः।

१३ तिथ्यादेराद्यन्तभागभेदे च उपयमशब्दे

१२

५८

५९ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्धि¦ m. (-न्धिः)
1. Union, junction, connection, combination.
2. Peace, making peace, pacification.
3. A hole, a chasm.
4. A hole made in a wall or underneath it to enter a building for hostile or felonious purposes, a breach, a mine, &c.
5. Breaking, dividing.
6. The vulva.
7. A division of a drama, apparently applicable to each subject represented or sentiment excited, as considered severally and detached from the rest, though contributing to the connection of the whole; contrast of incident, change of situation, transition of passion or emotion, &c.
8. An interval, a pause or rest.
9. A joint, an articulation of the body.
10. The union of letters, either at the end and beginning of different words, or in the middle of compound terms, to avoid dissonance or hiatus.
11. A period at the expiration of each Yuga or age, or one-sixth of its duration, intervening before the commencement of the next; a Sandhi, also, of the same length as the Satya-Yuga, occurs at the end of each Manwantara and each Kalpa.
12. Critical juncture, opportune moment.
13. (In mensuration,) The connecting link of a per- pendicular. E. सम together, धा to have or hold, aff. कि of either the act, condition or instrument; whence the word becomes applicable to a chasm, &c., as to an interval, which whilst it divides, also connects, two parts or places.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्धि पु.
(सम् + धा + कि) एक स्तुति का नाम, द्रा.श्रौ.सू. 26.3.12; रात्रि एवं दिवस की सन्धि (जोड़, पर्व), गोधूलि वेला; (तृती.) हविराधान मण्डप की सीमा-बिन्दु से (सन्धिना आहृत्य पात्रे बालेन पुनाति), का.श्रौ.सू. 14.1.25 (वाजपेय में सुरापात्राणि); जै.ब्रा. I.2०9।

"https://sa.wiktionary.org/w/index.php?title=सन्धि&oldid=505311" इत्यस्माद् प्रतिप्राप्तम्