सप्तजिह्व

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्तजिह्वः, पुं, सप्तजिह्वा काल्यादयो आहुति- ग्रसनार्था यस्य ।) अग्निः । इति त्रिकाण्डशेषः ॥ (यथा, बृहत्संहितायाम् । ७४ । १६ । “सुकृतज्ञतयाङ्गना गतासून् अवगूह्य प्रविशन्ति सप्तजिह्वम् ॥”) तस्य सप्तजिह्वानां नामानि यथा, -- “काली कराली च मनोजवा च सुलोहिता चैव सुधूम्रवर्णा । उग्रा प्रदीप्ता च कृपीटयोनेः सप्तैव कीलाः कथिताश्च जिह्वाः ॥” टीकासर्व्वस्वे तु उग्राप्रदीप्तयोः स्थाने स्फुलि- ङ्गिनी विश्वनदाख्येति नामद्वयम् । इत्यमर- टीकासारमुन्दरी ॥ कर्म्मविशेषे तासां नामा- न्तराणि यथा । हिरण्या १ कनका २ रक्ता ३ कृष्णा ४ सुप्रभा ५ बहुरूपा ६ अतिरक्ता ७ एताः सात्त्विक्यो यागकर्म्मणि । काम्यकर्म्मणि तु पद्मरागा १ सुवर्णा २ भद्रलोहिता ३ लोहिता ४ श्वेता ५ धूमिनी ६ करालिका ७ एता राज्यस्यः । क्रूरककर्म्मणि तु । विश्वमूर्त्तिः १ स्फुलिङ्गिनी २ धूम्रवर्णा ३ मनोजवा ४ लोहिता ५ कराला ६ काली ७ एतास्ता- मस्यः ॥ * ॥ एतासामधिष्ठातृदेवता यथा, -- “अमर्त्यपितृगन्धर्वयक्षनागपिशाचकाः । राक्षसः सप्तजिह्वानामीरिता अधिदेवताः ॥” एतासां वर्णदिङ्नियमौ यथा । गणेशविम- र्षिण्याम् । “हिरण्या तप्तहेमाभा शूलपाणेर्दिशि स्थिता । वैदूर्य्यवर्णा कनका प्राच्यां दिशि समाश्रिता ॥ तरुणादित्यसङ्काशा रक्ता जिह्वाग्निसंस्थिता । कृष्णा नीलाभ्रसङ्काशा नैरृत्यां दिशि संस्थिता सुप्रभा पद्मरागाभा वारुण्यां दिशि संस्थिता । अतिरक्ता जवाभासा वायव्यां दिशि संस्थिता । तद्दुरूपा यथा ख्याता दक्षिणोत्तरसंस्थिता ॥” इति तन्त्रसारः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्तजिह्व¦ पु॰ सप्त जिह्वा इव आस्वादसाधनानि अर्ञ्चिषोयस्य। वह्नौ त्रिका॰।
“काली कराली च मनोजवा चसुलोहिता चैव सुधूभ्रवर्णा। उग्रा प्रदीप्ता च कृपीट-योनेः सप्तैव कीलाः कथिताश्च जिह्वाः” इत्युक्तानां सप्ता-नामग्निज्वालानामेव तज्जिह्वात्वमुक्तम्। वह्निजिह्वानांवर्णभेदः अवस्थानदिग्भेदश्च गणशविमर्षिण्यां दर्शितोयथा
“हिरण्या तप्तहेमाभा शूलपाणेर्दिशि स्थिता। वैदूर्य्यवर्णा कनका प्राच्यां दिशि समाश्रिता। तरुणा-दित्यसङ्काशा रक्ता जिह्वाग्निसंस्थिता। कृष्णा नीलाभ्र-सङ्काशा नैरृत्यां दिशि संस्थिता। अतिरक्ता जवा॰भासा वाथव्यां दिशि संस्थिता। बहुरूपा तथा ख्यातादक्षिणोत्तरसंस्थिता”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्तजिह्व¦ m. (-ह्वः) AGNI or fire. E. सप्त seven, जिह्वा a tongue or flame.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्तजिह्व/ सप्त--जिह्व mfn. 7-tongued MBh.

सप्तजिह्व/ सप्त--जिह्व m. N. of अग्निor fire (the 7 tongues of fire have all names e.g. काली, कराली मनो-जवा, सु-लोहिता, सु-धूम्र-वर्णा, उग्राor स्फुलिङ्गिनी, प्रदीप्ता, and these names vary accord. to the partic. rite in which fire is used See. हिरण्य, सु-वर्णा, सु-प्रभाetc. ) VarBr2S. BhP. S3is3. Sch.

"https://sa.wiktionary.org/w/index.php?title=सप्तजिह्व&oldid=505319" इत्यस्माद् प्रतिप्राप्तम्