सप्तपर्ण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्तपर्णम्, क्ली, (सप्तानां द्राक्षादीनां पर्णमिव यत्र ।) मिष्टान्नविशेषः । यथा, -- “द्राक्षादाडि मखर्जूरमृजिताम्रं सशर्करम् । लाजचूर्णं समध्वाज्यं सप्तपर्णमुदाहृतम् ॥” इति शब्दचन्द्रिका ॥

सप्तपर्णः, पुं, (सप्त सप्त पर्णानि यस्य ।) वृक्ष- विशेषः । छातिम् इति भाषा ॥ (यथा, रघुः । ४ । २३ । “प्रसवैः सप्तपर्णानां मदगन्धिभिराहताः । असूययेव तन्नागाः सप्तधैव प्रसुस्रुवुः ॥”) तत्पर्य्यायः । विशालत्वक् २ शारदी ३ विषम- च्छदः ४ । इत्यमरः ॥ शारदः ५ देववृक्षः ६ दानगन्धिः ७ शिरोरुजा ८ ग्रहनाशः ९ श्रुति- पर्णः १० गृहाशी ११ ग्रहनाशनः १२ । इति शब्दरत्नावली ॥ गुत्सपुष्पः १३ शक्तिपर्णः १४ सुपर्णकः १५ । इति जटाधरः ॥ बृहत्वक् १६ इति रत्नमाला ॥ अस्य गुणाः । “सप्तपणो ब्रह्मश्लेष्मवातकुष्ठास्रजन्तुजित् । दीपनः श्वासगुल्मघ्नः स्निग्धोष्णस्तुवरः स्मृतः ॥” अन्यत् सप्तच्छदशब्दे द्रष्टव्यम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्तपर्ण पुं।

सप्तपर्णः

समानार्थक:सप्तपर्ण,विशालत्वच्,शारद,विषमच्छद

2।4।23।1।1

सप्तपर्णो विशालत्वक्शारदो विषमच्छदः। आरग्वधे राजवृक्षशम्पाकचतुरङ्गुलाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्तपर्ण¦ पु॰ सप्त सप्त पर्णानृस्य प्रतिपर्णम्। (छातिम) वृक्षेअमरः।
“सप्तपर्णो व्रणश्लेष्मवातकुष्ठास्रजन्तुजित्। दी-पनः श्वासगुल्मघ्नः स्निग्धोष्णस्तुवरः स्मृतः” भावप्र॰तद्गुणा उक्ताः।

२ लज्जालुलतायां स्त्री रत्नमा॰ ङीप्।
“द्राक्षादाडिमखर्जूरमृदिताम्रं सशर्करम्। लालाचूर्णंसमध्वाज्यं सप्तपर्णमुदाहृतम्” शब्दच॰ उक्ते

३ खा-द्यभेदे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्तपर्ण¦ mfn. (-र्णः-र्णी-र्णं) Seven-leaved. m. (-र्णः) A tree, (Alstonia scholaris.) n. (-र्णं) A sort of sweetmeat, made of the expressed juice of the grape, pomegranate and date, with sugar, spices, honey, and Ghee. E. सप्त seven, and पर्ण a leaf.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्तपर्ण/ सप्त--पर्ण mfn. 7-leaved W.

सप्तपर्ण/ सप्त--पर्ण m. Alstonia Scholaris MBh. Hariv. R. etc.

सप्तपर्ण/ सप्त--पर्ण n. the flower of -AlstAlstonia -SchScholaris S3a1rn3gP.

सप्तपर्ण/ सप्त--पर्ण n. a sort of sweetmeat L.

"https://sa.wiktionary.org/w/index.php?title=सप्तपर्ण&oldid=391431" इत्यस्माद् प्रतिप्राप्तम्