समवाय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समवायः, पुं, (समवाय्यते इति । सम् + अव + अय + घञ् ।) समूहः । इत्यमरः ॥ (यथा, मनुः । ४ । १०८ । “अनध्यायो रुद्यमाने समवाये जनस्य च ॥”) सम्बन्धविशेषः । यथा, -- “घटादीनां कपालादौ द्रव्येषु गुणकर्म्मणोः । तेषु जातेश्च सम्बन्धः समवायः प्रकीर्त्तितः ॥” इति भाषापरिच्छेदः ॥ अवयवावयविनोर्गुणगुणिनोः क्रियाक्रियावतो- र्जातिव्यक्त्योर्नित्यद्रव्यविशेषयोच्च यः सम्बन्धः स समवाथः । इति सिद्धान्तमुक्तावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समवाय पुं।

समूहः

समानार्थक:समूह,निवह,व्यूह,सन्दोह,विसर,व्रज,स्तोम,ओघ,निकर,व्रात,वार,सङ्घात,सञ्चय,समुदाय,समुदय,समवाय,चय,गण,संहति,वृन्द,निकुरम्ब,कदम्बक,पेटक,वार्धक,पूग,ग्राम,सन्नय,संस्त्याय,जाल,पटल,राशि

2।5।40।1।3

समुदायः समुदयः समवायश्चयो गणः। स्त्रियां तु संहतिर्वृन्दं निकुरम्बं कदम्बकम्.।

 : रात्रिसमूहः, पद्मसङ्घातः, अब्जादीनाम्_समूहः, क्रय्यवस्तुशालापङ्क्तिः, पङ्क्तिः, वनसमूहः, तृणसमूहः, नडसमूहः, सजातीयैः_प्राणिभिरप्राणिभिर्वा_समूहः, जन्तुसमूहः, सजातीयसमूहः, सजातीयतिरश्चां_समूहः, पशुसङ्घः, पशुभिन्नसङ्घः, एकधर्मवतां_समूहः, धान्यादिराशिः, कपोतगणः, शुकगणः, मयूरगणः, तित्तिरिगणः, गणिकासमूहः, गर्भिणीसमूहः, युवतीसमूहः, बन्धूनां_समूहः, वृद्धसमूहः, केशवृन्दम्, राजसमूहः, क्षत्रियसमूहः, हस्तिवृन्दम्, गजमुखादिस्थबिन्दुसमूहः, गजशृङ्खला, निर्बलहस्त्यश्वसमूहः, अश्वसमूहः, रथसमूहः, धृतकवचगणः, हस्तिसङ्घः, वृषभसङ्घः, गोसमूहः, वत्ससमूहः, धेनुसमूहः, उष्ट्रसमूहः, मेषसमूहः, अजसमूहः, सजातीयशिल्पिसङ्घः, औपगवानां_समूहः, अपूपानां_समूहः, शष्कुलीनां_समूहः, माणवानां_समूहः, सहायानां_समूहः, हलानां_समूहः, ब्राह्मणानां_समूहः, वाडवानां_समूहः, पर्शुकानां_समूहः, पृष्ठानां_समूहः, खलानां_समूहः, ग्रामाणां_समूहः, जनानां_समूहः, धूमानां_समूहः, पाशानां_समूहः, गलानां_समूहः, सहस्राणां_समूहः, कारीषाणां_समूहः, चर्मणां_समूहः, अथर्वणां_समूहः, मेघपङ्क्तिः, सङ्घातः, समूहः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समवाय¦ पु॰ सम् + अव--क्षण--अच्।

१ समूहे अमरः

२ मे-लने न्यायोक्ते नित्यद्रव्यादिषु जात्यादीनां

३ संबन्धभेदे च[Page5230-b+ 38]
“घटादीनां कपालादौ द्रव्येषु गुणकर्मणोः। तेषु जातेश्चसम्बन्धः समवायः प्रकीर्त्तितः” भाषा॰
“समवायं दर्शयति। घटादीनामिति अवयवावयविनोः जातिव्यक्त्योर्गुणगु-णिनोः क्रियाक्रियावतोर्नित्यद्रव्यविशेषयोश्च यः सम्बन्धःस स मवायः समवायत्वं नित्यसम्बन्धत्वं तत्र प्रमाणन्तुगुण क्रियादिविशिष्टबुद्धिर्विशेषणविशेष्यसम्बन्धविषया वि-शिष्टबुद्धित्वात् इत्यनुमाने संयोगादिबाधात् समवाय-सिद्धिः। न च स्वरूपसम्बन्धेन सिद्धसाधनम् अर्थान्तरंवा, अनन्तस्वरूपाणां सम्बन्धत्वकल्पने गौरवात् लाथवा-देकममवायसिद्धिः। न च समवायस्यैकत्वे वायौ रूप-वत्ताबुद्धिप्रसङ्गः तत्र रूपसमवायसत्त्वेऽपि रूपाभावात्। न चेवम् अभावस्य वैशिष्ट्यं सम्बन्धान्तरं सिध्येदितिवाच्यं तस्य नित्यत्वे भूतले घटानयनानन्तरमपि घटा-भावबुद्धिप्रमङ्गात् घटाभावसम्बन्धस्य तत्र सत्त्वात् तस्यनित्यत्वात् अन्यथा देशान्तरेऽपि तत्प्रतीतिर्न स्यात् वै-शिष्ट्यस्य च तत्र सत्त्वात्, मम तु मते घटे पाकरक्तता-दशायां श्यामरूपस्य नष्टत्वान्न तद्वत्ताबुद्धिः। वैशिष्ट्यस्या-नित्यत्वे त्वनन्तवैशिष्ट्यकल्पने तवैव गौरवम् इत्थञ्चतत्तत्कालीनतत्तद्भूतलादिकं तत्तदभावानां सम्बन्धः”। अयुतसिद्धयोः सम्बन्धः स इति वैशेषिकाः स च सम्बन्धोनाना नित्यश्चेति नव्यनैयायिकाः प्राभाकराश्चाहुः। समवायश्च प्रत्यक्षः
“प्रत्यक्षं समवायस्य विशेषणतया भवेत्” भाषा॰। अतीन्द्रियोऽनुमेयश्चेति वैशेषिकाः, स्वरूपस्यैवसम्बन्धत्वोपपत्तेः समवायो न पदार्थान्तरमिति भाट्टाः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समवाय¦ m. (-यः)
1. Multitude, assemblage, collection, aggregate, quan- tity.
2. One of the categories or Pada4rt'has of logic, intimate and constant relation, as of yarn and the cloth made of it.
3. Connec- tion of species in a genus, or parts of a whole. E. सम् and अव before अय् to go, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समवायः [samavāyḥ], 1 Combination, union, conjunction, aggregate, collection; तेषां समवाये एकदेशकालकतृत्वे ... एकतन्त्रत्वं भवति ŚB. on MS.12.1.1; सर्वाविनयानामेकैकमप्येषामायतनं किमुत समवायः K.; बहूनामप्यसाराणां समवायो हि दुर्जयः Pt.1. 331; Bhāg.6.9.34.

A number, multitude, heap.

Close connection, cohesion; कर्तृदेशकालानामचोदनं प्रयोगे नित्यसमवायात् MS.4.2.23.

(In Vaiś. phil.) Intimate union, constant and inseparable connection, inseparable inherence or existence of one thing in another, one of the seven categories of the Vaiśeṣikas; उक्तं समवाये पारदौर्बल्यम् MS.8.4.17; नित्यसंबन्धः समवायः Tarka K.

Conjunction of heavenly bodies; समालोक्यैकतामेव शशिनो भास्करस्य च । समवायं तु तं रौद्रं दृष्ट्वा शक्रो$न्वचिन्तयत् ॥ Mb.3. 224.16. -Comp. -संबन्धः intimate and inseparable relation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समवाय/ सम्-अवा m. coming or meeting together , contact , concourse , congress , assemblage , collection , crowd , aggregate( एनor आत्, " in combination " ; यं-कृ, " to meet , combine , flock together ") Gr2S. Gaut. Mn. etc.

समवाय/ सम्-अवा m. conjunction (of heavenly bodies) MBh. VarBr2S.

समवाय/ सम्-अवा m. collision S3rS. Gaut. Sarvad.

समवाय/ सम्-अवा m. (in phil. ) perpetual co-inherence , inner or intimate relation , constant and intimate union , inseparable concomitance (= नित्य-सम्बन्ध, the sixth पदा-र्थor category of the वैशेषिकs , expressing relation which exists between a substance and its qualities , between a whole and its parts [ e.g. between cloth and the yarn composing it] , between a genus and its individuals etc. ) Kap. Jaim. IW. 66 ; 69

समवाय/ सम्-अवा m. course , duration( ए, with gen. , " during ") MBh. i , 556

"https://sa.wiktionary.org/w/index.php?title=समवाय&oldid=505350" इत्यस्माद् प्रतिप्राप्तम्